काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
॥ काशिका ॥ ३ ॥ ४ ॥ २४३
प्रवस्कन्दमवस्कन्दम् । व्याप्यमानासेव्यमानयोरिति किम् । गेहमनुप्रविश्य
भुङ्क्ते । ननु चाभीक्ष्ण्ये णमुल्विहित एव । आसेवा चाभीक्ष्ण्यमेव । किम-
र्थम्पुनरासेवायाँ णमुलुच्यते । क्त्वानिवृत्त्यर्थमिति चेत् । न, दृष्टत्वात्तस्य ।
द्वितीयापपदार्थे तर्हि वचनम् । उपपदसमासः पक्षे यथा स्यात् । तेन हि
सत्युपदाभावः ॥
अस्यतितृषोः क्रियान्तरे कालेषु ॥ ५७ ॥
द्वितीयायामित्येव । क्रियामन्तरयति क्रियान्तरः, क्रियाव्यवधायकः ।
क्रियान्तरे धात्वर्थे वर्त्तमानाभ्यामस्यतितृषिभ्यां द्वितीयान्तेषु कालवाचिषूपप-
देषु णमुलप्रत्ययो भवति । द्व्याहात्यासं गाः पाययति । द्व्यहमत्यसं गाः पाय-
यति । त्र्यहात्यासं गाः पाययति । द्व्यहतर्षं गाः पाययति । द्व्यहं तर्षं गाः
पाययति । अत्यसनेन तर्षणेन च गवां पानक्रिया व्यवधीयते । विक्षिप्ताते ।
चाद्य पाययित्वा द्व्यहमतिक्रम्य पुनः पाययतीत्यर्थः । अस्यतितृषोरिति किम् ।
द्व्यहमुपोष्य भुङ्क्ते । क्रियान्तरइति किम् । अहरत्यस्येषून् गतः । न गतिर्व्य-
वधीयते । कालेष्विति किम् । योजनमत्यस्य गाः पाययति । आध्वकर्मकम-
त्यसनं व्यवधायकं न कालकर्मकम् ॥
नाम्न्यादिशिग्रहोः ॥ ५८ ॥
द्वितीयायामित्येव । नामशब्दे द्वितीयान्तउपपदे आदिशेर्ग्रहेश्च धातो-
र्णमुलप्रत्ययो भवति । नामादेशमाचष्टे । नामग्राहमाचष्टे ॥
अव्यये ऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ ॥ ५९ ॥
*अव्ययउपपदे ऽयथाभिप्रेताख्याने गम्यमाने करोतेः क्त्वाणमुलौ भवतः ।
ब्राह्मण पुत्रस्ते जातः, किं तर्हि वृषल नीचैः कृत्याचष्टे । नीचैः कृत्वा ।
नीचैःकारम् । उच्चैर्वाम प्रियमाख्येयम् । ब्राह्मण कन्या ते गर्भिणी, किं तर्हि
वृषलोच्चैः कृत्याचष्टे । उच्चैः कृत्वा । उच्चैः कारम् । नीचैर्वामाप्रियमाख्येयम् ।
अयथाभिप्रेताख्यानइति किम् । उच्चैः कृत्वा ऽऽचष्टे पुत्रस्ते जात इति ।
क्त्वाग्रहणं किम् । यावता सर्वस्मिन्नेवात्र प्रकरणे वासरूपेण क्त्वा भवतीत्यु-
क्तम् । समासार्थं वचनम् । तथा च क्त्वा चेत्यस्मिन्सूत्रे तृतीयाप्रभृतीन्यन्यत-
रस्यामिति वर्त्तते । णमुलधिकारे पुनर्णमुलग्रहणं तुल्यकक्षत्वज्ञापनार्थम् ।
तेनोत्तरत्र द्वयोरप्यनुवृत्तिर्भविष्यति ॥
तिर्यच्यपवर्गे ॥ ६० ॥
- द्वितीयायामित्येवेति कुत्र चिदधिकम् ।
२४४ ॥ काशिका ॥ ३ ॥ ४ ॥
तिर्यक्शब्दउपपदे कृञः क्त्वाणमुलौ प्रत्ययौ भवतो ऽपवर्गे गम्यमाने ।
अपवर्गः समाप्तिः । तिर्यक्कृत्य गतः । तिर्यङ्कृत्वा गतः । तिर्यक्कारं गतः ।
समाप्य गत इत्यर्थः । अपवर्गे इति किम् । तिर्यक्कृत्वा काष्ठं गतः । तिर्यचीति
शब्दानुकरणम् । न च प्रकृतिवदनुकरणेन भवितव्यम् । अनुक्रियमाणरूपवि-
नाशप्रसङ्गात् । एतदोश, अदसोमादिति ॥
स्वाङ्गे तस्प्रत्यये कृभ्वोः ॥ ६१ ॥
तस्प्रत्ययो यतः स्वाङ्गात्तदेवमुच्यते । तस्प्रत्यये स्वाङ्गवाचिन्युपपदे करोते-
र्भवतेश्च धात्वोः क्त्वाणमुलौ प्रत्ययौ भवतः । यथासंख्यमत्र नेष्यते । अस्वारित-
त्वात् । मुखतःकृत्य गतः । मुखतः कृत्वा गतः मुखतःकारं गतः । पृष्ठतःकृत्य गतः ।
पृष्ठतः कृत्वा गतः । पृष्ठतःकारं गतः । मुखतोभूय तिष्ठति । मुखतो भूत्वा
तिष्ठति । मुखतोभावं तिष्ठति । पृष्ठतोभूय गतः । पृष्ठतो भूत्वा । पृष्ठतोभावम् ।
स्वाङ्गादिति किम् । सर्वतः कृत्वा गतः । तस्ग्रहणं किम् । मुखीकृत्य गतः । मुखी-
भूय गतः । प्रत्ययग्रहणं किम् । मुखे तस्यतीति मुखतः, मुखतः कृत्वा गतः ॥
नाधार्थप्रत्यये च्व्यर्थे ॥ ६२ ॥
नार्थो धार्थश्च प्रत्ययो यस्मात्स एवमुच्यते । नाधार्थप्रत्यये शब्दे
च्व्यर्थउपपदे कृभ्वोर्धात्वोः क्त्वाणमुलौ प्रत्ययौ भवतः । अनाना नाना कृत्वा
गतः, नानाकृत्य गतः । नाना कृत्वा गतः । नानाकारं गतः । विनाकृत्य गतः ।
विना कृत्वा गतः । विनाकारं गतः । नानाभूय गतः । नाना भूत्वा गतः ।
नानाभावं गतः । विनाभूय गतः । विना भूत्वा गतः । विनाभावं गतः । द्विधा-
कृत्य गतः । द्विधाकारं गतः । द्विधा कृत्वा गतः । द्विधाभूय गतः । द्विधा
भूत्वा गतः । द्विधाभावं गतः । द्वैधंकृत्य गतः । द्वैधं कृत्वा गतः । द्वैधंकारं
गतः । द्वैधंभूय गतः । द्वैधं भूत्वा गतः । द्वैधंभावं गतः । प्रत्ययग्रहणं किम् ।
हिरुक् कृत्वा । पृथक् कृत्वा । च्व्यर्थेति किम् । नाना कृत्वा काष्ठानि गतः ।
धार्थमर्थग्रहणं, न पुनरेक एव विनञ्भ्यां नानाञाविति ॥
तूष्णीमि भुवः ॥ ६३ ॥
तूष्णींशब्दउपपदे भवतेर्धातोः क्त्वाणमुलौ प्रत्ययौ भवतः । तूष्णींभूय ।
तूष्णीं भूत्वा । तूष्णींभावम् । भूग्रहणं कृञो निवृत्त्यर्थम् ॥
अन्वच्यानुलोम्ये ॥ ६४ ॥
अन्वक्शब्दउपपदे भवतेर्धातोरानुलोम्ये क्त्वाणमुलौ भवतः । आनुलो-
म्यमनुलोमता, अनुकूलत्वं परचित्तानुविधानम् । अन्वग्भूयास्ते । अन्वग्भूत्वास्ते ।
अन्वग्भावमास्ते । आनुलोम्येति किम् । अन्वग्भूत्वा तिष्ठति ॥
॥ काशिका ॥ ३ । ४ ॥ २४५
शकधृषज्ञाग्लाघटरभलभक्रमसहाहार्थास्त्य-
र्थेषु तुमुन् ॥ ६५ ॥
शकादिषूपपदेष्वास्त्यर्थेषु वा धातुमात्रात्तुमुन् प्रत्ययो भवति । अक्रि-
यार्थोपपदार्थोयमारम्भः । शक्नोति भोक्तुम् । धृष्णोति भोक्तुम् । जानाति
भोक्तुम् । ग्लायति भोक्तुम् । घटते भोक्तुम् । आरभते भोक्तुम् । लभते भोक्तुम् ।
प्रक्रमते भोक्तुम् । सहते भोक्तुम् । अर्हति भोक्तुम् । आस्त्यर्थेषु खल्वपि । अस्ति
भोक्तुम् । भवति भोक्तुम् । विद्यते भोक्तुम् ॥
पर्याप्तिवचनेष्वलमर्थेषु ॥ ६६ ॥
पर्याप्तिरन्यूनता । पर्याप्तिवचनेष्वलमर्थेषूपपदेषु धातोस्तुमुन्प्रत्ययो
भवति । पर्याप्तो भोक्तुम् । अलं भोक्तुम् । भोक्तुं पारयति । पर्याप्तिवचनेष्विति
किम् । अलं कृत्वा । अलमर्थेष्विति किम् । पर्याप्तं भुङ्क्ते । पूर्वसूत्रे शक्ति-
ग्रहणमनलमर्थम् । शक्यमेवं कर्तुमिति ॥
कर्त्तरि कृत् ॥ ६७ ॥
कृतसंज्ञकाः प्रत्ययाः कर्तरि कारके भवन्ति । कृदुत्पत्तिवाक्यानामयमर्थ-
शेषः । तत्र येष्वर्थादेशो नास्ति तत्रेदमुपतिष्ठते । अर्थाकाङ्क्षित्वात् । न
ख्युनादिवाक्येषु । साक्षादर्थनिर्देशे सति तेषां निराकाङ्क्षत्वात् । कारकः ।
कर्त्ता । नन्दनः । ग्राही । पचः ॥
भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लांव्यापात्या वा ॥ ६८ ॥
भव्यादयः शब्दाः कर्त्तरि वा निपात्यन्ते । तयोरेव कृत्यक्तखलर्था इति
भावकर्मणोः प्राप्तयोः कर्त्ता च वाच्यः पक्षे उच्यते । भवत्यसौ भव्यः । भव्य-
मनेनेति वा । गेयो माणवकः साम्नां, गेयानि माणवकेन सामानीति वा ।
प्रवचनीयो गुरुः स्वाध्यायस्य । प्रवचनीयो गुरुणा स्वाध्याय इति वा । उप-
स्थानीयो ऽन्तेवासी गुरोः । उपस्थानीयः शिष्येण वा गुरुः । जायते ऽसौ
जन्यः । जन्यमनेनेति वा । आप्लवते ऽसावाप्लाव्यः । आप्लाव्यमनेनेति वा ।
आपातत्यसावापात्यः । आपात्यमनेनेति वा ॥
लः कर्मणि च भावे चाकर्मकेभ्यः ॥ ६६ ॥
ल इत्युत्सृष्टानुबन्धं सामान्यं गृह्यते । प्रथमाबहुवचनं चैतत् । लकाराः
कर्मणि कारके भवन्ति । चकारात्कर्त्तरि च । अकर्मकेभ्यो धातुभ्यो भावे भवन्ति ।
पुनश्चकारात्कर्त्तरि च । गम्यते ग्रामो देवदत्तेन । गच्छति ग्रामं देवदत्तः । अकर्म-
केभ्यः । आस्यते देवदत्तेन । आस्ते देवदत्तः । सकर्मकेभ्यो भावे न भवन्ति ॥
२४६ ॥ काशिका ॥ ३ ॥ ४ ॥
तयोरेव कृत्यक्तखलर्थाः ॥ ७० ॥
तयोरेव भावकर्मणोः कृत्यसंज्ञकाः क्तखलर्थाश्च प्रत्यया भवन्ति । एवकारः
कर्तुरपकर्षणाथः । कृत्याः कर्मणि । कर्त्तव्यः कटो भवता । भोक्तव्य ओदनो
भवता । भावे । आशितव्यं भवता । शयितव्यं भवता । क्तः कर्मणि । कृतः कटो
भवता । भुक्त ओदनो भवता । भावे । आसितं भवता । शयितं भवता । खलर्थाः
कर्मणि । ईषत्करः कटो भवता । सुकरः । दुष्करः । भावे । ईषदाढ्यंभवं भवता ।
स्वाढंभवं भवता । भावे चाकर्मकेभ्य इत्यनुवृत्तेस्सकर्मकेभ्यो भावे न भवन्ति ॥
आदिकर्मणि क्तः कर्तरि च ॥ ७१ ॥
आदिकर्मणि यः क्तो विहितः स कर्तरि भवति । चकाराद्यथाप्राप्तं
भावकर्मणोः । आदिभूतः क्रियाक्षण आदिकर्म, तस्मिन्नादिकर्मणि भूतत्वेन
विवक्षिते यः क्तो विहितस्तस्यायमर्थनिर्देशः । प्रकृतः कटं देवदत्तः । प्रकृतः
कटो देवदत्तेन । प्रकृतं देवदत्तेन । प्रभुक्त ओदनं देवदत्तः । प्रभुक्त ओदनो
देवदत्तेन । प्रभुक्तं देवदत्तेन ॥
गत्यर्थाकर्मकश्लिषशीङ्स्थासासवसजनरुहजी-
र्यतिभ्यश्च ॥ ७२ ॥
गत्यर्थेभ्यो धातुभ्यो ऽकर्मकेभ्यः श्लिषादिभ्यश्च यः क्तः स कर्तरि
भवति । चकाराद्यथाप्राप्तं च भावकर्मणोः । गतो देवदत्तो ग्रामम् । गतो
देवदत्तेन ग्रामः । गतं देवदत्तेन । अकर्मकेभ्यः । म्लानो भवान् । म्लानं भवता ।
आसितो भवान् । आसितं भवता । श्लिष । उपश्लिष्टो गुरुं भवान् । उप-
श्लिष्टो गुरुर्भवता । उपश्लिष्टं भवता । शीङ् । उपशयितो गुरुं भवान् ।
उपशयितो गुरुर्भवता । उपशयितं भवता । उपस्थितो गुरुं भवान् । उपस्थितो
गुरुर्भवता । उपस्थितं भवता । आस । उपासितो गुरुं भवान् । उपासितो
गुरुर्भवता । उपासितं भवता । वस । अनूषितो गुरुं भवान् । अनूषितो गुरु-
र्भवता । अनूषितं भवता । जन । अनुजातो माणवको माणविकाम् । अनुजाता
माणवकेन माणविका । अनुजातं माणवकेन । रुह । आरूढो वृक्षं भवान् ।
आरूढो वृक्षो भवता । आरूढं भवता । जीर्यति । अनुजीर्णो वृषलीं देवदत्तः ।
अनुजीर्णा वृषली देवदत्तेन । अनुजीर्णं देवदत्तेन । श्लिषादयस्सोपसर्गास्सक-
र्मका भवन्ति तदर्थमेषामुपादानम् ॥
दाशगोघ्नौ संप्रदाने ॥ ७३ ॥
दाशगोघ्नौ शब्दौ संप्रदाने कारके निपात्येते । दाश दाने, ततः पचा-
द्यच् । स कृत्यसंज्ञकत्वात्कर्तरि प्राप्तः, संप्रदाने निपात्यते । दाशन्ति तस्मा-
- इति दाशः । आगताय तस्मै दातुं गां घ्नन्तीति गोघ्नो ऽतिथिः । टगञ्र्निपा-
त्येते । निपातनसामर्थ्यादेव गोघ्न ऋत्विगादिरुच्यते, न तु चण्डालादिः ।
आसत्यपि च गोहनने तस्य योग्यतया गोघ्न इत्यभिधीयते ॥
भीमादयो ऽपादाने ॥ ७४ ॥
भीमादयः शब्दा अपादाने निपात्यन्ते । उणादिप्रत्ययान्ता एते ।
श्याधूशूभ्यो मक् भियष्षुक्वेत्येवमादयः । ताभ्यामन्यत्रोणादय इति पर्युदासे प्राप्ते
निपातनमारभ्यते । भीमः । भीष्मः । भयानकः । वहः । वरुः । भूमिः । रजः ।
संस्कारः । संक्रन्दनः । प्रपतनः । समुद्रः । सुचः । सुक् । खलतिः ॥
ताभ्यामन्यत्रोणादयः ॥ ७५ ॥
उणादयः शब्दास्ताभ्यामपादानसंप्रदानाभ्यामन्यत्र कारके भवन्ति ।
कृत्त्वात् कर्त्तर्येव प्राप्ताः कर्मादिषु कथ्यन्ते । ताभ्यामिति संप्रदानार्थे प्रत्यव-
मर्शः । अन्यथा अपादानमेव पर्युदस्येत, अनन्तरत्वात् । कृषितो ऽसौ कृषिः ।
तन्यतइति तन्तुः । वृत्तमिति वर्त्म । चरितं चर्म ॥
क्तो ऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ॥ ७६ ॥
ध्रौव्यार्था अकर्मकाः प्रत्यवसानार्था अभ्यवहारार्था इति स्वनिकायप्र-
सिद्धिः । ध्रौव्यगतिप्रत्यवसानार्थेभ्यो यः क्तो विहितः सो ऽधिकरणे भवति ।
चकाराद्यथाप्राप्तं च ध्रौव्यार्थेभ्यः कर्तृभावाधिकरणेषु, गत्यर्थेभ्यः कर्तृकर्मभा-
वाधिकरणेषु, प्रत्यवसानार्थेभ्यः कर्मभावाधिकरणेषु । ध्रौव्यार्थेभ्यस्तावत् ।
आसितो देवदत्तः । आसितं तेन । इदमेषामासितम् । गत्यर्थेभ्यः । यातो
देवदत्तो ग्रामम् । यातो देवदत्तेन ग्रामः । यातं देवदत्तेन । इदमेषां यातम् ।
प्रत्यवसानार्थेभ्यः । भुक्त ओदनो देवदत्तेन । भुक्त ओदनं देवदत्तः । देवदत्तेन
भुक्तम् । इदमेषां भुक्तम् । कथं भुक्ता ब्राह्मणाः, पीता गाव इति । चकारो
ऽन्वर्थीयः । भुक्तमेषामस्ति पीतमेषामस्तीति ॥
लस्य ॥ ७७ ॥
लस्येत्ययमधिकारः । अकार उच्चारणार्थः । लकारमात्रं स्थानित्वेना-
धिक्रियते । यदिद ऊर्ध्वमनुक्रमिष्यामो लस्येत्येवं तद्वेदितव्यम् । किं चेदं
लस्येति । दश लकारा अनुबन्धविशिष्टा विहिता अर्थविशेषे कालविशेषे च,
तेषां विशेषकराननुबन्धानुत्सृज्य यत्सामान्यं तद्गृह्यते । षट्टित्, श्वत्वारो ङि-
तः । अक्षरसमाम्नायवदानुपूर्व्या कथ्यन्ते । लट् । लिट् । लुट् । लृट् । लोट् ।
लेट् । लङ् । लिङ् । लुङ् । लृङ् । इति । लकारमात्रस्य ग्रहणं कस्मान्न भव-
ति लुनाति लूनात् इति । धात्वधिकारो ऽनुवर्तते । कर्त्रादयश्च विशेष्याः ।
२४८ ॥ काशिका ॥ ३ ॥ ४ ॥
तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझाथासायां-
ध्वमिड्वहिमहिङ् ॥ ७८ ॥
लस्य तिवादय आदेशा भवन्ति । तिप्सिप्मिपां पकारः स्वरार्थः ।
इटष्टकार इटोदिति विशेषणार्थः । तिबादिभिरादेशैस्तुल्यत्वाच्च देशविध्यर्थः ।
महिङो ङकारस्तिङिति प्रत्याहारग्रहणार्थः । पचति । पचतः । पचन्ति ।
पचसि । पचथः । पचथ । पचामि । पचावः । पचामः । पचते । पचेते । पचन्ते ।
पचसे । पचेथे । पचध्वे । पचे । पचावहे । पचामहे । एवमन्येष्वपि लकारेषूदाहार्यम्॥
टित आत्मने पदानां टेरे ॥ ७९ ॥
टितो लकारस्य स्थाने यान्यात्मनेपदानि तेषां टेरेकारादेशो भवति ।
तथा चैवोदाहृतम् । इह कस्मान्न भवति । पचमानो यजमानः । प्रकृतैस्तिबा-
॥ काशिका ॥ ३ । ४ ॥ २४५
न च भवति । ब्रवीति । ब्रूतः । ब्रुवन्ति । ब्रवीषि । ब्रूथः । पञ्चानामिति
किम् । ब्रूथ । ब्रवीमि । ब्रूवः । ब्रूमः । आदित इति किम् । परेषां मा भूत ।
ब्रुव इति पुनर्वचनं स्थान्यर्थे, परस्मैपदानामेव हि स्यात् ॥
लोटो लङ्वत् ॥ ८५ ॥
अतिदेशो ऽयम् । लोटो लङ्वत्कार्यं भवति । तामादयस्सलोपश्च ।
पचताम् । पचतम् । पचत । पचाव । पचाम । अडाटौ कस्मान्न भवतः, तथा
भेर्जुसादेशो लङः शाकटायनस्यैवेति । वान्तु । यान्तु । विदो लटो वेत्यतो
वाग्रहणमनुवर्तते । सा च व्यवस्थितविभाषा भविष्यति ॥
एरुः ॥ ८६ ॥
लोट इत्येव । लोटादेशानामिकारस्य उकारादेशो भवति । पचतु ।
पचन्तु ॥ हिन्योर्हस्वप्रतिषेधो वक्तव्यः ॥ * ॥ न वोच्चारणसामर्थ्यात् । अथ
वा वेति वर्तते, सा च व्यवस्थितविभाषा ॥
सेर्ह्यपिच्च ॥ ८७ ॥
लोट इत्येव । लोटादेशस्य सेर्
२५० ॥ काशिका ॥ ३ ॥ ४ ॥
लोट इत्येव। लोट्संबन्धिन उत्तमपुरुषस्याडागमो भवति, स चोत्तमपुरुषः
पिद्भवति। करवाणि। करवाव। करवाम। करवै। करवावहै। करवामहै॥
एत ऐ ॥ ९३ ॥
लोडोत्तमस्येति वर्तते। लोडोत्तमसंबन्धिन एकारस्य ऐकारादेशो भवति।
आमोपवादः। करवै। करवावहै। करवामहै। इह कस्मान्न भवति। पचा-
वेदं, पचामेदम्। बहिरङ्गलक्षणत्वादुत्त्वस्य॥
लेटो ऽडाटौ ॥ ९४ ॥
लेटो ऽडाटावागमौ भवतः पर्यायेण। जोषिषत्। तारिषत्। मन्दि-
षत्। पताति विद्युत्। उदधिं च्यावयाति॥
आत ऐ ॥ ९५ ॥
लेट् इत्येव। लेट्संबन्धिन आकारस्य ऐकारादेशो भवति। प्रथमपुरुष-
मध्यमपुरुषात्मनेपदद्विवचनयोः। मन्त्रयैते। मन्त्रयैथे। करवैते। करवैथे।
आटः कस्मान्न भवति। विधानसामर्थ्यात्॥
वैतो ऽन्यत्र ॥ ९६ ॥
लेट इत्येव। लोट्संबन्धिन एकारस्य वा ऐकारादेशो भवति। अन्य-
त्रेत्यनन्तरो विधिरपेक्ष्यते। आत ऐ इत्येतद्विषयं वर्जयित्वा एत ऐ भवति।
सप्ताहानि शयै। अहमेव पशूनामीशै। मदया एव वो यहा गृहान्तै। मङ्गे-
रुत्तान्येव वः पात्राण्युच्यन्तै। न च भवति। यत्र क्व च ते मनो दत्तं दध-
सउत्तरम्। अन्यत्रेति किम्। मन्त्रयैते। मन्त्रयैथे॥
इतश्च लोपः परस्मैपदेषु ॥ ९७ ॥
[L2
॥ काशिका ॥ ३ ॥ ४ ॥ २५१
इतश्च ॥ १०० ॥
ङित इत्येव । ङिल्लकारसंबन्धिन इकारस्य नित्यं लोपो भवति ।
अपचत् । अपाक्षीत् । परस्मैपदेष्वित्येव । अपचावहि । अपचामहि ॥
तस्थस्थमिपां तान्तन्तामः ॥ १०१ ॥
ङित इत्येव । ङिल्लकारसंबन्धिनां चतुर्णां यथासंख्यं तामादय आदेशा
भवन्ति । अपचताम् । अपचतम् । अपचत । अपचम् । अपाक्ताम् । अपाक्तम् ।
अपाक्त । अपाक्षम् ॥
लिङस्सीयुट् ॥ १०२ ॥
लिङादेशानां सीयुडागमो भवति । टकारो देशविध्यर्थः । उकार उच्चा-
रणार्थः । पचेत । पचेयाताम् । पचेरन् । पचीष्ट । पचीयास्ताम् । पचीरन् ॥
यासुट् परस्मैपदेषूदात्तो ङिच्च ॥ १०३ ॥
लिङ इत्येव । परस्मैपदविषयस्य लिङो यासुडागमो भवति, सीयुटो-
पवादः, स चोदात्तो भवति, ङिच्च । आगमानुदात्तत्वे प्राप्ते, ङित्त्वं तु लिङ
एव विधीयते, तत्र तत्कार्याणां संभवाद्, नागमस्य । कुर्यात् । कुर्याताम् ।
कुर्युः । स्थानिवद्भावादेव लिङादेशस्य ङित्त्वे सिद्धे यासुटो ङिद्वचनं ज्ञापकार्थं
लकाराश्रयङित्त्वमादेशानां न भवतीति । अचिनवम् । अकरवम् ॥
किदाशिषि ॥ १०४ ॥
आशिषि यो लिङ् तस्य यासुडागमो भवति, स चोदात्तः, किद्भवति ।
प्रत्ययस्यैवेदं कित्त्वं नागमस्य प्रयोजनाभावात् । ङित्त्वे प्राप्ते कित्त्वं विधी-
यते । गुणवृद्धिप्रतिषेधस्तुल्यः, संप्रसारणं जागर्तेर्गुणे च विशेषः । इष्यात् ।
इष्यास्ताम् । इष्यासुः । जागर्यात् । जागर्यास्ताम् । जागर्यासुः । आशिषीति
किम् । वद्यात् । जागृयात् ॥
झस्य रन् ॥ १०५ ॥
लिङ इत्येव । झस्य लिङादेशस्य रन्नित्ययमादेशो भवति । झोन्ताप-
वादः । पचेरन् । यजेरन् । कृषीरन् ॥
इटो ऽत् ॥ १०६ ॥
लिङादेशस्य इटो ऽदित्ययमादेशो भवति । पचेय । यजेय । कृषीय ।
हृषीय । तकारस्येत्संज्ञाप्रतिषेधः प्राप्नोति न विभक्तौ तुस्मा इति । नेवाय-
मादेशावयवस्तकारः, किं तर्हि मुखसुखार्थ उच्चार्यते । आगमस्येटो ग्रहणं न
भवति, अर्थवद्ग्रहणे नानर्थकस्येति ॥
२५२ ॥ काशिका ॥ ३ ॥ ४ ॥
सुट् तिथ्योः ॥ १०७ ॥
लिङ् इत्येव । लिङ्संबन्धिनोस्तकारथकारयोः सुडागमो भवति
तकारथकारावागमिनौ । लिङ् तद्विशेषणम् । सीयुटस्तु लिङेवागमी । तेन
भिन्नविषयत्वात्सुटा बाधनं न भवति । तकारे दूकार उच्चारणार्थः । कृषीष्ट
कृषीयास्ताम् । कृषीरन् । कृषीष्ठाः । कृषीयास्थाम् ॥
झेर्जुस् ॥ १०८ ॥
लिङ् इत्येव । लिङादेशस्य झेर्जुस् आदेशो भवति । झोन्तापवादः ।
पचेयुः । यजेयुः ॥
सिजभ्यस्तविदिभ्यश्च ॥ १०९ ॥
अलिङर्थ आरम्भः । सिचः परस्य चाभ्यस्तसंज्ञकेभ्यो वेत्तेश्चोत्तरस्य जुस्
आदेशो भवति । अभ्यस्तविदिग्रहणमसिजर्थम् । ङित इति चानुवर्त्तते । सिच-
स्तावत् । अकार्षुः । अहार्षुः । अभ्यस्तात् । अबिभयुः । अजिह्युः । अजा-
गरुः । विदेः । अविदुः ॥
आतः ॥ ११० ॥
सिज्ग्रहणमनुवर्त्तते । सिच आकारान्ताच्च परस्य झेर्जुसादेशो भवति ।
कथमाभ्यामानन्तर्यं, सिज्लुकि कृते प्रत्ययलक्षणेन सिचोनन्तरः श्रुत्या चाका-
रान्तादिति । अदुः । अधुः । अस्थुः । तकारो मुखसुखार्थः । पूर्वेणैव सिद्धे
नियमार्थं वचनम् । आत एव सिज्लुगन्तान्नान्यस्मादिति । अभूवन् । प्रत्यय-
लक्षणेन जुस्प्राप्तः प्रतिषिध्यते । तुल्यजातीयापेक्षत्वान्नियमस्य । श्रूयमाणे हि
सिचि भवत्येव । अकार्षुः । अहार्षुः ॥
लङः शाकटायनस्यैव ॥ १११ ॥
आत इत्येव । आकारान्तादुत्तरस्य लङादेशस्य झेर्जुसादेशो भवति
शाकटायनस्याचार्यस्य मतेन । अयुः । अवुः । अन्येषां मते । अयान् । ननु
ङित इत्यनुवर्त्तते । अत्र लङेवाकारान्तादनन्तरो ङित्संभवति नान्यः, तत्किं
लङ्ग्रहणेन । एवं तर्हि लङेव यो लङ् विहितस्तस्य यथा स्यात् । लड्वद्भावेन
यस्तस्य मा भूत् । लोटो लङ्वदिति । यान्तु । वान्तु । सिजभ्यस्तविदिभ्य-
श्चेत्ययमपि झेर्जुस् लोटो न भवति । बिभ्यतु । जाग्रतु । विदन्तु । जुस्भा-
वमात्रं हि मुख्येन लङा विशेष्यते । एवकार उत्तरार्थः ॥
द्विषश्च ॥ ११२ ॥
लङः शाकटायनस्यैवेत्येव । द्विषः परस्य लङादेशस्य झेर्जुसादेशो
भवति शाकटायनस्याचार्यस्य मतेन । अद्विषुः अन्येषां मते । अद्विषन् ॥
यहाँ प्रस्तुत पृष्ठ का पंक्ति-दर-पंक्ति देवनागरी लिप्यन्तरण है:
॥ काशिका ॥ ३ ॥ ४ ॥ २५३
तिङ्शित्सार्वधातुकम् ॥ ११३ ॥
तिङः शितश्च प्रत्ययाः सार्वधातुकसंज्ञा भवन्ति । नयति । स्वपिति ।
रोदिति । पचमानः । यजमानः । सार्वधातुकप्रदेशाः सार्वधातुके यगित्ये-
वमादयः ॥
आर्धधातुकं शेषः ॥ ११४ ॥
तिङः शितश्च वर्जयित्वा ऽन्यः प्रत्ययः शेषो धातुसंशब्देन विहित
आर्धधातुकसंज्ञो भवति । लविता । लवितुम् । लवितव्यम् । धातोरित्येव ।
वृत्तत्वं वृत्तता ऽस्ति । लभ्याम् । लूभिः । जुगुप्सते ॥
लिट् च ॥ ११५ ॥
लिडादेशस्तिङार्धधातुकसंज्ञो भवति । सार्वधातुकसंज्ञाया अपवादः ।
पेचिव । शेकिव । जग्ले । मम्ले । ननु चैकसंज्ञाधिकारादन्यत्र समावेशो भवति ।
[
२५४ ॥ काशिका ॥ ४ ॥ १ ॥
॥ अथ चतुर्थाध्यायस्य प्रथमः पादः ॥
ङ्याप्प्रातिपदिकात् ॥ १ ॥
अधिकारोऽयम् । यदिह ऊर्ध्वमनुक्रमिष्याम आपञ्चमाध्यायपरिसमाप्ते-
ङ्याप्प्रातिपदिकादित्येवं तद्वेदितव्यम् । स्वादिषु कपपर्यन्तेषु प्रकृतिरधिक्रि-
यते । ङीब्ङीष्ङीनां सामान्येन ग्रहणं ङीति । टाब्डाप्चापामाबिति । प्राति-
पदिकमुक्तमर्थवत्कृतत्तद्धितसमासाश्चेति । तेषांसमाहारनिर्देशो ङ्याप्प्रातिपदि-
कादिति । यद्यपि च प्रत्ययपरत्वेन पारिशेष्यादियमेव प्रकृतिर्लभ्यते, तथापि
वृद्धावृद्धावर्णस्वरद्व्यजलक्षणप्रत्ययविधौ तत्संप्रत्ययार्थं ङ्याप्प्रातिपदिकग्रहणं
कर्त्तव्यम् । इतरथा हि समर्थविशेषणमेतत्स्यात् । अथ ङ्याब्ग्रहणं किं, न
प्रातिपदिकग्रहणेन लिङ्गविशिष्टस्यापि ग्रहणं भवतीत्येव सिद्धम् । नैतदस्ति ।
स्वरूपविधिविषये परिभाषेयं प्रातिपदिकस्वरूपग्रहणे सति लिङ्गविशिष्टग्रहणं
भवतीति । तथा च युवा खलतिपलितवलिनजरतीभिरिति ज्ञापकस्यास्ता-
दृशमेव । किं च तदन्तात्तद्धितविधानार्थं ङ्याब्ग्रहणम् । कालितरा । हरि-
णितरा । खट्वातरा । मालातरा । इति । विप्रतिषेधात्तद्धितबलीयस्त्वं स्यात् ॥
स्वौजसमौट्छष्टाभ्यांभिस्ङेभ्यांभ्यस्ङसिभ्यांभ्यस्-
ङसोसाम्ङ्योस्सुप् ॥ २ ॥
ङ्याप्प्रातिपदिकादित्यधिकृतम् । ङ्याप्प्रातिपदिकात् स्वादद्यः प्रत्यया
भवन्ति । उकारादयो ऽनुबन्धा यथायोगमुच्चारणविशेषणार्थाः । पकारः सुबिति
प्रत्याहारार्थः । संख्याकर्मादयश्च स्वादीनामर्थाः शास्त्रान्तरेण विहितास्तेन
सहास्यैकवाक्यता । ङ्यन्तात्तावत् । कुमारी । गौरी । शार्ङ्गरवी । ङीब्ङीष्-
ङीनां क्रमेणोदाहरणम् । कुमारी । कुमार्यौ । कुमार्यः । कुमारीम् । कुमार्यौ ।
कुमारीः । कुमार्या । कुमारीभ्याम् । कुमारीभिः । कुमार्यै । कुमारीभ्याम् ।
कुमारीभ्यः । कुमार्याः । कुमारीभ्याम् । कुमारीभ्यः । कुमार्याः । कुमार्योः कुमा-
रीणाम् । कुमार्याम् । कुमार्योः । कुमारीषु । एवं गौरी शार्ङ्गरवी चोदाहार्ये ।
आपः खल्वपि । खट्वा । बहुराजा । कारीषगन्ध्या । टाब्डाप्चापां क्रमेणोदा-
हरणम् । खट्वा । खट्वे । खट्वाः । खट्वाम् । खट्वे । खट्वाः । खट्वया । खट्वा-
भ्याम् । खट्वाभिः । खट्वायै । खट्वाभ्याम् । खट्वाभ्यः । खट्वायाः । खट्वाभ्याम् ।
खट्वाभ्यः । खट्वायाः । खट्वयोः । खट्वानाम् । खट्वायाम् । खट्वयोः । खट्वासु ।
एवं बहुराजाकारीषगन्ध्ये चोदाहार्ये । एवं प्रातिपदिकात् । दृषद् । दृषदौ ।
दृषदः । दृषदम् । दृषदौ । दृषदः । दृषदा । दृषद्भ्याम् । दृषद्भिः । दृषदे ।
वता" -> typesetter misread च्क as क्ष or intentionally set बह्वक्षवता (often conflated in older prints).
Let's look closely: it is literally बह्वक्षवता!
-
Line 25:
कथं तदन्तविधिः । एतदेव ज्ञापकं भवत्यस्मिन् प्रकरणे तदन्तविधिरिति,
Notice the comma afterतदन्तविधिरिति,. -
Line 26:
तेनातिधीवरी । अतिपीवरी । अतिभवती । इति भवति । अजा, एडका,
Note:अजा, एडका,(with commas). -
Line 27:
चटका, अश्वा, मूषिकेति जातिः । बाला, होढा. पाका, वत्सा, मन्दा,
Note: period afterहोढा.- let's check:
बाला,thenहोढा.(yes, looks like a dot/period or comma, but shaped like.).
Let's see:बाला, होढा. पाका, वत्सा, मन्दा, -
Line 28:
विलातेति वयः । पूर्वापवरणा । अपरापवरणा । टित्, निपातनाद्यबत्वम् ॥
Wait, look atनिपातनाद्यबत्वम्:
Wait, could
२५६ ॥ काशिका ॥ ४ । १ ॥
तिः॥ क्रुञ्चा। उष्णहा। देवविशा। हलन्ताः। ज्येष्ठा। कनिष्ठा। मध्यमा।
पुंयोगः। कोकिला जातिः॥ मूलान्नञः॥ अमूला॥
ऋन्नेभ्यो ङीप् ॥ ५ ॥
ऋकारान्तेभ्यो नकारान्तेभ्यश्च प्रातिपदिकेभ्यः स्त्रियां ङीप् प्रत्ययो
भवति। ङकारः सामान्यग्रहणार्थः। पकारः सामान्यग्रहणविघातार्थः
कर्त्री। हर्त्री। दण्डिनी। छत्रिणी॥
उगितश्च ॥ ६ ॥
उग् इहान्न संभवति यथाकथंचित् तदुगिच्छब्दरूपं, तदन्तात् स्त्रियां
ङीप् प्रत्ययो भवति। भवती। अतिभवती। पचन्ती। यजन्ती॥ धातोरुगितः
प्रतिषेधो वक्तव्यः॥ * ॥ उखास्रत्। पर्णध्वत् ब्राह्मणी॥ अञ्चतेश्चोपसंख्या-
नम् ॥ * ॥ प्राची। प्रतीची। उदीची॥
वनो र च ॥ ७ ॥
वबन्ता
काशिका ॥ ४ ॥ १ ॥ २५७
मनः ॥ ११ ॥
मवन्तात्प्रातिपदिकात् ङीप् प्रत्ययो न भवति । ऋन्नेभ्यो ङाबिति ङीप्
प्राप्तो मन इति सूत्रेण प्रतिषिध्यते । दामा । दामानौ । दामानः । पामा ।
पामानौ । पामानः । अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयो-
जयन्ति । सीमा । सीमानौ । सीमानः । अतिमहिमा । अतिमहिमानौ ।
अतिमहिमानः ॥
अनो बहुव्रीहेः ॥ १२ ॥
अनन्ताद् बहुव्रीहेः स्त्रियां ङीप् प्रत्ययो न भवति । अनुपधालोपी
बहुव्रीहिरिहोदाहरणम् । उपधालोपिनो हि विकल्पं वक्ष्यति । सुपर्वा । सुप-
र्वाणौ । सुपर्वाणः । सुशर्मा । सुशर्माणौ । सुशर्माणः । बहुव्रीहेरिति किम् ।
अतिक्रान्ता राजान,मतिराजी ॥
डाबुभाभ्यामन्यतरस्याम् ॥ १३ ॥
डाप् प्रत्ययो भवति उभाभ्यां मवन्तात्प्रातिपदिकादनन्ताच्च बहुव्रीहेर-
न्यतरस्याम् । पामा । पामे । पामाः । सीमा । सीमे । सीमाः । न च भवति ।
पामानः । सीमानः । बहुव्रीहेः । बहुराजा । बहुराजे । बहुराजाः । बहुतक्षा ।
बहुतक्षे । बहुतक्षाः । न च भवति । बहुराजानः । बहुतक्षाणः । अन्यतरस्यां-
ग्रहणं किमर्थम् । बहुव्रीहौ वनो र चेत्यस्यापि विकल्पो यथा स्यात् । बहुधी-
वा । बहुधीवरी । बहुपीवा । बहुपीवरी ॥
अनुपसर्जनात् ॥ १४ ॥
अधिकारोऽयम् । उत्तर सूत्रेषूपसर्जने प्रतिषेधं करोति । यदिम ऊर्ध्वम-
नुक्रमिष्यामो ऽनुपसर्जनादित्येवं तद्वेदितव्यम् । वक्ष्यति । टिड्ढाणञिति ङीप् ।
कुरुचरी । मद्रचरी । अनुपसर्जनादिति किम् । बहुकुरुचरा बहुमद्रचरा मधुरा ।
जातेरिति ङीष् । कुक्कुटी । शुकरी । अनुपसर्जनादिति किम् । बहुकुक्कुटा बहुशू-
करा मधुरा । कथं पुनरुपसर्जनेनाप्रत्ययप्रसङ्गः । तदन्तविधिना । ज्ञापितं चैत-
दस्यत्र प्रकरणे तदन्तविधिरिति । तथा च प्रधानेन तदन्तविधिर्भवति ।
कुम्भकारी । नगरकारी । न चास्ति हन्तूहकं.तद्वितोयवस्ति ॥
टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्-
क्वरप्ख्युनाम् ॥ १५ ॥
अत इति सर्वत्रानुवर्त्तते । तत्सति संभवे विशेषणं भवति । टिदादि-
भ्यः प्रातिपदिकेभ्यः स्त्रियां ङीप् प्रत्ययो भवति । टापो ऽपवादः । टित्ताव-
त् । कुरुचरी । मद्रचरी । इह कस्मान्न भवति । पचमाना । यजमाना । टानु-
१७
२५८ ॥ काशिका ॥ ४ । १ ॥
बन्धकत्वाल्लटः । ल्युडादिषु कथं, टित्करणसामर्थ्यात् । इतरत्र तु टेरेत्वं फ-
लम् । पठिता विक्रेति आगमटित्त्वमनिमित्तं, ट्युट्युलौ तुट् चेति लिङ्गात् ।
ढ । सौपर्णेयी । वैनतेयी । निरनुबन्धको ढशब्दः स्त्रियां नास्तीति निरनुबन्ध-
कपरिभाषा न प्रवर्त्तते । अण् । कुम्भकारी । नगरकारी । औपगवी । यो ऽपि
क्वचिदणकृतं कार्यं भवति । चौरी । तापसी । दाण्ड । मौष्टेत्यत्र न भवति । अञ् ·
औत्सी । औदपानी । शार्ङ्गरवाद्यञ इति पुनरञो ग्रहणं जातिलक्षणं ङीषं
बाधितुम् । द्वयसच् । ऊरुद्वयसी । जानुद्वयसी । दघ्नच् । ऊरुदघ्नी । जानुद-
घ्नी । मात्रच् । ऊरुमात्री । जानुमात्री । तयप् । पञ्चतयी । दशतयी । ठक्
आक्षिकी । शालाकिकी । ठञ् । लावणिकी । ठक्ठञोर्भेदेन ग्रहणं ठनादि-
निवृत्त्यर्थम् । कञ् । यादृशी । तादृशी । क्वरप् । इत्वरी । नश्वरी । ख्युन् ।
आढंकरणी । सुभगंकरणी ॥ नञ्स्नञीकक्तरुणतलुनानामुपसंख्यानम् ॥ *
स्त्रैणी । पौंसी । शाक्तीकी । याष्टीकी । तरुणी । तलुनी ॥
यञश्च ॥ १६ ॥
ङीबित्येव । यञन्ताच्च प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो भवति
गार्गी । वात्सी ॥ अपत्यग्रहणं कर्तव्यम् ॥ * ॥ इह मा भूत् । द्वीपादनुसमुद्रं
यञ् । द्वैप्या । पृथग्योगकरणमुत्तरार्थम् ॥
प्राचां ष्फ तद्धितः ॥ १७ ॥
यञ् इत्येव । प्राचामाचार्याणां मतेन यञन्ताद् स्त्रियां ष्फः प्रत्ययो
भवति, स च तद्धितसंज्ञः । षकारो ङीषर्थः । प्रत्ययद्वयेनेह स्त्रीत्वं व्यज्यते
तद्धितग्रहणं प्रातिपदिकसंज्ञार्थम् । गार्ग्यायणी । वात्स्यायनी । अन्येषाम् । गार्गी
वात्सी । सर्वत्र ग्रहणमुत्तरसूत्रादिहापकृष्यते, बाधकबाधनार्थम् । आवट्या-
च्छापं वक्ष्यति, तमपि बाधित्वा प्राचां ष्फ एव यथा स्यात् । आवट्यायनी
सर्वत्र लोहितादिकतन्तेभ्यः ॥ १८ ॥
यञ् इत्येव । पूर्वेण विकल्पे प्राप्ते नित्यार्थं वचनम् । सर्वत्र लोहिता-
दिभ्यः कतपर्यन्तेभ्यो यञन्तेभ्यः स्त्रियां ष्फः प्रत्ययो भवति । कतशब्दः स्वत-
न्त्रं यत्प्रातिपदिकं तदवधित्वेन परिगृह्यते कपिशब्दात्परः कपिकतेति, न प्राति-
पदिकावयवः कुकतेति । लौहित्यायनी । शाङ्गित्यायनी । बाभ्रव्यायनी ॥
कण्वात्तु शक्लः पूर्वः कतादुत्तर इष्यते ।
पूर्वोत्तरौ तदन्तादी ष्फायौ तच्च प्रयोजनम् ॥
प्रातिपदिकेष्वन्यथा पाठः स एवं व्यवस्थापयितव्य इति मन्यते । कत-
न्तेभ्य इति बहुव्रीहितत्पुरुषयोरेकशेष,स्तथा कण्वादिभ्यो गोत्रइति । तच्च
॥ काशिका ॥ ४ ॥ १ ॥ २५८
तत्पुरुषवृत्त्या संगृहीतो मध्यपाती शकलशब्दो यञन्तः प्रत्ययद्वयमपि प्रतिपद्य-
ते । शाकल्यायनी । शाकल्यस्येमे छात्राः शाकलाः ॥
कौरव्यमाण्डूकाभ्यां च ॥ १९ ॥
कौरव्य माण्डूक इत्येताभ्यां स्त्रियां ष्फः प्रत्ययो भवति । कुरुभ्योण्यौ
ण्यते कृते ढक्च मण्डूकादित्यञ् च । यथाक्रमं टाब्ङीपोरपवादः । कौरव्या-
यणी । माण्डूकायनी । कथं कौरवी सेना, तस्येदंविवक्षायामणि कृते भविष्य-
ति ॥ कौरव्यमाण्डूकयोरासुरेरुपसंख्यानम् ॥ * ॥ आसुरायणी । शेषिकेष्वर्थेषु
इजश्चेत्याञि प्राप्ते ष्फप्रत्यय इष्यते ॥ आसुरीयः कल्पः ॥
वयसि प्रथमे ॥ २० ॥
कालकृतशरीरावस्था यौवनादिर्वयः । प्रथमे वयसि यत्प्रातिपदिकं श्रुत्या
वर्तते ततः स्त्रियां ङीप् प्रत्ययो भवति । कुमारी । किशोरी । बर्करी । प्रथ-
मेति किम् । स्थविरा । वृद्धा । अत इत्येव । शिशुः ॥ वयस्यचरमइति वक्त-
व्यम् ॥ * ॥ वधूटी । चिरखटी । द्वितीयवयोवचनावेतौ । प्राप्तयौवना स्त्यभि-
धीयते । कथं कन्या, कन्यायाः कनीन चेति ज्ञापकात् । उत्तानशया लोहित-
पादिकेति नैता वयःश्रुतयः ॥
द्विगोः ॥ २१ ॥
द्विगुसंज्ञकात्प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो भवति । पञ्चपूली ।
दशपूली । कथं त्रिफला । अजादिषु दृश्यते ॥
अपरिमाणविस्ताचितकम्बलेभ्यो न तद्धितलुकि ॥ २२ ॥
पूर्वेण ङीप् प्राप्तः प्रतिषिध्यते । अपरिमाणान्ताद् द्विगोर्बिस्ताचितक-
म्बल्यान्ताच्च तद्धितलुकि सति ङीप् प्रत्ययो न भवति । बिस्तादीनां परिमा-
णार्थे ग्रहणम् । सर्वतो मानं परिमाणम् । अपरिमाणान्तात्तावत् । पञ्चभिरश्वैः
क्रीता पञ्चाश्वा । दशाश्वा । तेन क्रीतम् । अध्यर्द्धपूर्वद्विगोर्लुगसंज्ञायामिति लुक् ।
कालः संख्या च न परिमाणम् । द्विवर्षा । त्रिवर्षा । द्वाभ्यां शताभ्यां क्रीता
द्विशता । त्रिशता । बिस्तादिभ्यः । द्विबिसता । त्रिबिस्ता । द्व्याचिता । त्र्याचिता ।
द्विकम्बल्या । त्रिकम्बल्या । अपरिमाणेति किम् । द्व्याढकी । त्र्याढकी । तद्धि-
तलुकीति किम् । समाहारे पञ्चाश्वी । दशाश्वी ॥
काण्डान्तात्क्षेत्रे ॥ २३ ॥
काण्डशब्दान्ताद् द्विगोस्तद्धितलुकि सतिचेत्रे वाच्ये ङीप् प्रत्ययो न
भवति । द्वे काण्डे प्रमाणमस्याः क्षेत्रभक्तेः । प्रमाणे द्वयसजिति विहितस्य तद्धि-
तस्य प्रमाणे लो द्विगोर्नित्यमिति लुकि कृते द्विकाण्डा क्षेत्रभक्तिः । त्रिकाण्डा
२६० ॥ काशिका ॥ ४ ॥ १ ॥
क्षेत्रभक्तिः । काण्डशब्दस्यापरिमाणवाचित्वात्पूर्वेणैव प्रतिषेधे सिद्धे क्षेत्रे निय-
मार्थं वचनम् । इह मा भूत् । द्विकाण्डी रज्जुस्त्रिकाण्डी रज्जुरिति । प्रमाण-
विशेषः काण्डम् ॥
पुरुषात्प्रमाणे ऽन्यतरस्याम् ॥ २४ ॥
द्विगोस्तद्धितलुकीत्येव । प्रमाणे यः पुरुषशब्दस्तदन्ताद् द्विगोस्तद्धित-
लुकि सति अन्यतरस्यां न ङीप् प्रत्ययो भवति । द्वौ पुरुषौ प्रमाणमस्याः परि-
खायाः द्विपुरुषा, द्विपुरुषी । त्रिपुरुषा, त्रिपुरुषी । अपरिमाणान्तत्वादित्ये प्रति-
षेधे प्राप्ते विकल्पार्थं वचनम् । प्रमाणादिति किम् । द्वाभ्यां पुरुषाभ्यां क्रीता
द्विपुरुषा । त्रिपुरुषा । तद्धितलुकीत्येव । समाहारे द्विपुरुषी, त्रिपुरुषी ॥
बहुव्रीहेरूधसो ङीष् ॥ २५ ॥
ऊधश्शब्दान्ताद्बहुव्रीहेः । स्त्रियां ङीष् प्रत्ययो भवति । ऊधसोऽनङ्ङिति
समासान्ते कृते अनो बहुव्रीहेरिति डाप्प्रतिषेधयोः प्राप्तयोरिदमुच्यते । घटो-
ध्री । कुण्डोध्री । बहुव्रीहेरिति किम् । प्राप्ता ऊधः, प्राप्तोधाः । अन उपधा-
लोपिन इत्यस्यापि ङीपोयममुत्तरत्रानुवृत्तेर्बाधक इष्यते । समासान्तश्च स्त्रिया-
मेव, इह न भवति महोधाः पर्जन्य इति ॥
संख्याव्ययादेर्डीप् ॥ २६ ॥
पूर्वेण ङीषि प्राप्ते ङीब्बिधीयते । संख्यादेरव्ययादेश्च बहुव्रीहेरूधः-
शब्दान्ताद् ङीप् प्रत्ययो भवति । संख्यादेस्तावत् । द्व्यूध्री । त्र्यूध्री । अव्ययादेः ।
अत्यूध्री । निरूध्री । आदिग्रहणं किम् । द्विविधोध्री त्रिविधोध्रीत्यात्रापि यथा
स्यात् ॥
दामहायनान्ताच ॥ २७ ॥
ऊधस इति निवृत्तम् । संख्याग्रहणमनुवर्तते नाव्ययग्रहणम् । संख्यादे-
र्बहुव्रीहेर्दामशब्दान्ताद्धायनशब्दान्ताच्च स्त्रियां ङीप् प्रत्ययो भवति । दामा-
न्तात् डाप्प्रतिषेधविकल्पेषु प्राप्तेषु नित्यमर्थं वचनम् । द्विदाम्नी । त्रिदाम्नी ।
हायनान्तादापि प्राप्ते, द्विहायनी । त्रिहायणी । चतुर्हायणी ॥ हायनो वयसि
स्मृतः ॥ * ॥ तेनेह न भवति, द्विहायना शाला । त्रिहायना । चतुर्हायना ॥
णत्वमपि त्रिचतुर्भ्यां हायनस्येति वयस्येव स्मर्यते ॥
अन उपधालोपिनो ऽन्यतरस्याम् ॥ २८ ॥
बहुव्रीहेरित्येव । अन्नन्तो यो बहुव्रीहिरुपधालोपी त
॥ काशिका ॥ ४ ॥ १ ॥ २६१
वचनम् । बहुराजा । बहुराज्ञा । बहुराजे । बहुतन्वा । बहुतन्वौ । बहुतन्वे ।
अन इति किम् । बहुमत्स्या । उपधालोपिनः किम् । सुपर्वा । सुपर्वे । सुपर्वाः ।
सुपर्वाणौ । सुपर्वाणः । डाप्प्रतिषेधावेवात्र भवतः ॥
नित्यं संज्ञाछन्दसोः ॥ २६ ॥
अनन्ताद्बहुव्रीहेरुपधालोपिनः संज्ञायां विषये छन्दसि च नित्यं ङीप्
प्रत्ययो भवति । विकल्पस्यापवादः । सुराज्ञी । अतिराज्ञी नाम ग्रामः ।
छन्दसि । गौः पञ्चदान्नी । एकदान्नी । त्रिदान्नी । एकमूर्ध्नी । समानमूर्ध्नी ॥
केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गल-
भेषजाच्च ॥ ३० ॥
संज्ञाछन्दसोरित्येव । केवलादिभ्यः प्रातिपदिकेभ्यः संज्ञायां छन्दसि
विषये स्त्रियां ङीप् प्रत्ययो भवति । केवली । केवलेति
२६२ काशिका ॥ ४ ॥ १ ॥
सान्तर्वत्नी देवानुपैत् । सान्तर्वती देवानुपैत् । पतिवत्नी तरुणवत्सा :
पतिवती तरुणवत्सा ॥
पत्युर्नो यज्ञसंयोगे ॥ ३३ ॥
पतिशब्दस्य नकारादेशः स्त्रियां विधीयते । ङीप् प्रत्ययस्तु नकारा-
न्तत्वादेव सिद्धः । यज्ञसंयोगे, यज्ञेन संयोगो यज्ञसंयोगः । तत्साधनत्वात्फल-
ग्रहीतृत्वाद्वा यजमानस्य पत्नी । पत्नि वाचं यच्छ । यज्ञसंयोगादिति किम्
ग्रामस्य पतिरियं ब्राह्मणी । कथं वृषलस्य पत्नी । उपमानाद्भविष्यति ॥
विभाषा सपूर्वस्य ॥ ३४ ॥
पत्युर्न इति वर्तते । पतिशब्दान्तस्य प्रातिपदिकस्य सपूर्वस्यानुपसर्ज-
नस्य स्त्रियां विभाषा नकारादेशो भवति, ङीप् तु लभ्यतएव । दृढपतिः ।
दृढपत्नी । स्थूलपतिः । स्थूलपत्नी । अप्राप्तविभाषेयमयज्ञसंयोगत्वात् । सपू-
र्वस्येति किम् । पतिरियं ब्राह्मणी ग्रामस्य ॥
नित्यं सपत्न्यादिषु ॥ ३५ ॥
सपत्न्यादिषु नित्यं पत्युर्नकारादेशो भवति, ङीप् तु लभ्यतएव । पूर्वेण
विकल्पे प्राप्ते वचनम् । नित्यग्रहणं विस्पष्टार्थम् । समानः पतिरस्याः सपत्नी ।
एकपत्नी । समानादिष्विति वक्तव्ये समानस्य सभावार्थे वचनम् । समान ।
[एक] । वीर । पिण्ड । भ्रातृ । पुत्र । दासाच्छन्दसि ॥
पूतक्रतोरे च ॥ ३६ ॥
पूतक्रतुशब्दस्य स्त्रियामैकारश्चान्तादेशो भवति ङीप् प्रत्ययः । पूतक्रतोः
स्त्री पूतक्रतायी । त्रय । एते योगाः पुंयोगप्रकरणे द्रष्टव्याः । यया हि पूताः
क्रतवः पूतक्रतुः सा भवति ॥
वृषाकप्यग्निकुसितकुसीदानामुदात्तः ॥ ३७ ॥
वृषाकप्यादीनामुदात्त ऐकारादेशो भवति स्त्रियां ङीप् च प्रत्ययः ।
वृषाकपिशब्दो मध्योदात्त उदात्तत्वं प्रयोजयति । चान्यादिषु पुनरन्तोदात्तेषु
स्थानिवद्भावादेव सिद्धम् । वृषाकपेः स्त्री वृषाकपायी । अग्नायी । कुसि-
तायी । कुसीदायी । पुंयोगइत्येव । वृषाकपिः स्त्री ॥
मनोरौ वा ॥ ३८ ॥
ऐ उदात्त इति वर्तते । मनुशब्दात् स्त्रियां ङीप् प्रत्ययो भवति औका-
रश्चान्तादेश ऐकारश्चोदात्तः । वाग्रहणेन द्वावपि विकल्प्येते । तेन त्रैरूप्यं
भवति । मनोः स्त्री मनायी । मनावी । मनुः । मनुशब्द आद्युदात्तः ॥