काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 253, कुल 828 में से
संदर्भ में पढ़ें२४६ ॥ काशिका ॥ ३ ॥ ४ ॥
तयोरेव कृत्यक्तखलर्थाः ॥ ७० ॥
तयोरेव भावकर्मणोः कृत्यसंज्ञकाः क्तखलर्थाश्च प्रत्यया भवन्ति । एवकारः
कर्तुरपकर्षणाथः । कृत्याः कर्मणि । कर्त्तव्यः कटो भवता । भोक्तव्य ओदनो
भवता । भावे । आशितव्यं भवता । शयितव्यं भवता । क्तः कर्मणि । कृतः कटो
भवता । भुक्त ओदनो भवता । भावे । आसितं भवता । शयितं भवता । खलर्थाः
कर्मणि । ईषत्करः कटो भवता । सुकरः । दुष्करः । भावे । ईषदाढ्यंभवं भवता ।
स्वाढंभवं भवता । भावे चाकर्मकेभ्य इत्यनुवृत्तेस्सकर्मकेभ्यो भावे न भवन्ति ॥
आदिकर्मणि क्तः कर्तरि च ॥ ७१ ॥
आदिकर्मणि यः क्तो विहितः स कर्तरि भवति । चकाराद्यथाप्राप्तं
भावकर्मणोः । आदिभूतः क्रियाक्षण आदिकर्म, तस्मिन्नादिकर्मणि भूतत्वेन
विवक्षिते यः क्तो विहितस्तस्यायमर्थनिर्देशः । प्रकृतः कटं देवदत्तः । प्रकृतः
कटो देवदत्तेन । प्रकृतं देवदत्तेन । प्रभुक्त ओदनं देवदत्तः । प्रभुक्त ओदनो
देवदत्तेन । प्रभुक्तं देवदत्तेन ॥
गत्यर्थाकर्मकश्लिषशीङ्स्थासासवसजनरुहजी-
र्यतिभ्यश्च ॥ ७२ ॥
गत्यर्थेभ्यो धातुभ्यो ऽकर्मकेभ्यः श्लिषादिभ्यश्च यः क्तः स कर्तरि
भवति । चकाराद्यथाप्राप्तं च भावकर्मणोः । गतो देवदत्तो ग्रामम् । गतो
देवदत्तेन ग्रामः । गतं देवदत्तेन । अकर्मकेभ्यः । म्लानो भवान् । म्लानं भवता ।
आसितो भवान् । आसितं भवता । श्लिष । उपश्लिष्टो गुरुं भवान् । उप-
श्लिष्टो गुरुर्भवता । उपश्लिष्टं भवता । शीङ् । उपशयितो गुरुं भवान् ।
उपशयितो गुरुर्भवता । उपशयितं भवता । उपस्थितो गुरुं भवान् । उपस्थितो
गुरुर्भवता । उपस्थितं भवता । आस । उपासितो गुरुं भवान् । उपासितो
गुरुर्भवता । उपासितं भवता । वस । अनूषितो गुरुं भवान् । अनूषितो गुरु-
र्भवता । अनूषितं भवता । जन । अनुजातो माणवको माणविकाम् । अनुजाता
माणवकेन माणविका । अनुजातं माणवकेन । रुह । आरूढो वृक्षं भवान् ।
आरूढो वृक्षो भवता । आरूढं भवता । जीर्यति । अनुजीर्णो वृषलीं देवदत्तः ।
अनुजीर्णा वृषली देवदत्तेन । अनुजीर्णं देवदत्तेन । श्लिषादयस्सोपसर्गास्सक-
र्मका भवन्ति तदर्थमेषामुपादानम् ॥
दाशगोघ्नौ संप्रदाने ॥ ७३ ॥
दाशगोघ्नौ शब्दौ संप्रदाने कारके निपात्येते । दाश दाने, ततः पचा-
द्यच् । स कृत्यसंज्ञकत्वात्कर्तरि प्राप्तः, संप्रदाने निपात्यते । दाशन्ति तस्मा-