सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 259, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 259

२५२ ॥ काशिका ॥ ३ ॥ ४ ॥
सुट् तिथ्योः ॥ १०७ ॥
लिङ् इत्येव । लिङ्‌संबन्धिनोस्तकारथकारयोः सुडागमो भवति
तकारथकारावागमिनौ । लिङ् तद्विशेषणम् । सीयुटस्तु लिङेवागमी । तेन
भिन्नविषयत्वात्सुटा बाधनं न भवति । तकारे दूकार उच्चारणार्थः । कृषीष्ट
कृषीयास्ताम् । कृषीरन् । कृषीष्ठाः । कृषीयास्थाम् ॥
झेर्जुस् ॥ १०८ ॥
लिङ् इत्येव । लिङादेशस्य झेर्जुस् आदेशो भवति । झोन्तापवादः ।
पचेयुः । यजेयुः ॥
सिजभ्यस्तविदिभ्यश्च ॥ १०९ ॥
अलिङर्थ आरम्भः । सिचः परस्य चाभ्यस्तसंज्ञकेभ्यो वेत्तेश्चोत्तरस्य जुस्
आदेशो भवति । अभ्यस्तविदिग्रहणमसिजर्थम् । ङित इति चानुवर्त्तते । सिच-
स्तावत् । अकार्षुः । अहार्षुः । अभ्यस्तात् । अबिभयुः । अजिह्युः । अजा-
गरुः । विदेः । अविदुः ॥
आतः ॥ ११० ॥
सिज्ग्रहणमनुवर्त्तते । सिच आकारान्ताच्च परस्य झेर्जुसादेशो भवति ।
कथमाभ्यामानन्तर्यं, सिज्लुकि कृते प्रत्ययलक्षणेन सिचोनन्तरः श्रुत्या चाका-
रान्तादिति । अदुः । अधुः । अस्थुः । तकारो मुखसुखार्थः । पूर्वेणैव सिद्धे
नियमार्थं वचनम् । आत एव सिज्लुगन्तान्नान्यस्मादिति । अभूवन् । प्रत्यय-
लक्षणेन जुस्प्राप्तः प्रतिषिध्यते । तुल्यजातीयापेक्षत्वान्नियमस्य । श्रूयमाणे हि
सिचि भवत्येव । अकार्षुः । अहार्षुः ॥
लङः शाकटायनस्यैव ॥ १११ ॥
आत इत्येव । आकारान्तादुत्तरस्य लङादेशस्य झेर्जुसादेशो भवति
शाकटायनस्याचार्यस्य मतेन । अयुः । अवुः । अन्येषां मते । अयान् । ननु
ङित इत्यनुवर्त्तते । अत्र लङेवाकारान्तादनन्तरो ङित्संभवति नान्यः, तत्किं
लङ्ग्रहणेन । एवं तर्हि लङेव यो लङ् विहितस्तस्य यथा स्यात् । लड्वद्भावेन
यस्तस्य मा भूत् । लोटो लङ्वदिति । यान्तु । वान्तु । सिजभ्यस्तविदिभ्य-
श्चेत्ययमपि झेर्जुस् लोटो न भवति । बिभ्यतु । जाग्रतु । विदन्तु । जुस्भा-
वमात्रं हि मुख्येन लङा विशेष्यते । एवकार उत्तरार्थः ॥
द्विषश्च ॥ ११२ ॥
लङः शाकटायनस्यैवेत्येव । द्विषः परस्य लङादेशस्य झेर्जुसादेशो
भवति शाकटायनस्याचार्यस्य मतेन । अद्विषुः अन्येषां मते । अद्विषन् ॥