सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 251, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 251

२४४ ॥ काशिका ॥ ३ ॥ ४ ॥
तिर्यक्शब्दउपपदे कृञः क्त्वाणमुलौ प्रत्ययौ भवतो ऽपवर्गे गम्यमाने ।
अपवर्गः समाप्तिः । तिर्यक्कृत्य गतः । तिर्यङ्कृत्वा गतः । तिर्यक्कारं गतः ।
समाप्य गत इत्यर्थः । अपवर्गे इति किम् । तिर्यक्कृत्वा काष्ठं गतः । तिर्यचीति
शब्दानुकरणम् । न च प्रकृतिवदनुकरणेन भवितव्यम् । अनुक्रियमाणरूपवि-
नाशप्रसङ्गात् । एतदोश, अदसोमादिति ॥
स्वाङ्गे तस्प्रत्यये कृभ्वोः ॥ ६१ ॥
तस्प्रत्ययो यतः स्वाङ्गात्तदेवमुच्यते । तस्प्रत्यये स्वाङ्गवाचिन्युपपदे करोते-
र्भवतेश्च धात्वोः क्त्वाणमुलौ प्रत्ययौ भवतः । यथासंख्यमत्र नेष्यते । अस्वारित-
त्वात् । मुखतःकृत्य गतः । मुखतः कृत्वा गतः मुखतःकारं गतः । पृष्ठतःकृत्य गतः ।
पृष्ठतः कृत्वा गतः । पृष्ठतःकारं गतः । मुखतोभूय तिष्ठति । मुखतो भूत्वा
तिष्ठति । मुखतोभावं तिष्ठति । पृष्ठतोभूय गतः । पृष्ठतो भूत्वा । पृष्ठतोभावम् ।
स्वाङ्गादिति किम् । सर्वतः कृत्वा गतः । तस्ग्रहणं किम् । मुखीकृत्य गतः । मुखी-
भूय गतः । प्रत्ययग्रहणं किम् । मुखे तस्यतीति मुखतः, मुखतः कृत्वा गतः ॥
नाधार्थप्रत्यये च्व्यर्थे ॥ ६२ ॥
नार्थो धार्थश्च प्रत्ययो यस्मात्स एवमुच्यते । नाधार्थप्रत्यये शब्दे
च्व्यर्थउपपदे कृभ्वोर्धात्वोः क्त्वाणमुलौ प्रत्ययौ भवतः । अनाना नाना कृत्वा
गतः, नानाकृत्य गतः । नाना कृत्वा गतः । नानाकारं गतः । विनाकृत्य गतः ।
विना कृत्वा गतः । विनाकारं गतः । नानाभूय गतः । नाना भूत्वा गतः ।
नानाभावं गतः । विनाभूय गतः । विना भूत्वा गतः । विनाभावं गतः । द्विधा-
कृत्य गतः । द्विधाकारं गतः । द्विधा कृत्वा गतः । द्विधाभूय गतः । द्विधा
भूत्वा गतः । द्विधाभावं गतः । द्वैधंकृत्य गतः । द्वैधं कृत्वा गतः । द्वैधंकारं
गतः । द्वैधंभूय गतः । द्वैधं भूत्वा गतः । द्वैधंभावं गतः । प्रत्ययग्रहणं किम् ।
हिरुक् कृत्वा । पृथक् कृत्वा । च्व्यर्थेति किम् । नाना कृत्वा काष्ठानि गतः ।
धार्थमर्थग्रहणं, न पुनरेक एव विनञ्भ्यां नानाञाविति ॥
तूष्णीमि भुवः ॥ ६३ ॥
तूष्णींशब्दउपपदे भवतेर्धातोः क्त्वाणमुलौ प्रत्ययौ भवतः । तूष्णींभूय ।
तूष्णीं भूत्वा । तूष्णींभावम् । भूग्रहणं कृञो निवृत्त्यर्थम् ॥
अन्वच्यानुलोम्ये ॥ ६४ ॥
अन्वक्शब्दउपपदे भवतेर्धातोरानुलोम्ये क्त्वाणमुलौ भवतः । आनुलो-
म्यमनुलोमता, अनुकूलत्वं परचित्तानुविधानम् । अन्वग्भूयास्ते । अन्वग्भूत्वास्ते ।
अन्वग्भावमास्ते । आनुलोम्येति किम् । अन्वग्भूत्वा तिष्ठति ॥