काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 258, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ३ ॥ ४ ॥ २५१
इतश्च ॥ १०० ॥
ङित इत्येव । ङिल्लकारसंबन्धिन इकारस्य नित्यं लोपो भवति ।
अपचत् । अपाक्षीत् । परस्मैपदेष्वित्येव । अपचावहि । अपचामहि ॥
तस्थस्थमिपां तान्तन्तामः ॥ १०१ ॥
ङित इत्येव । ङिल्लकारसंबन्धिनां चतुर्णां यथासंख्यं तामादय आदेशा
भवन्ति । अपचताम् । अपचतम् । अपचत । अपचम् । अपाक्ताम् । अपाक्तम् ।
अपाक्त । अपाक्षम् ॥
लिङस्सीयुट् ॥ १०२ ॥
लिङादेशानां सीयुडागमो भवति । टकारो देशविध्यर्थः । उकार उच्चा-
रणार्थः । पचेत । पचेयाताम् । पचेरन् । पचीष्ट । पचीयास्ताम् । पचीरन् ॥
यासुट् परस्मैपदेषूदात्तो ङिच्च ॥ १०३ ॥
लिङ इत्येव । परस्मैपदविषयस्य लिङो यासुडागमो भवति, सीयुटो-
पवादः, स चोदात्तो भवति, ङिच्च । आगमानुदात्तत्वे प्राप्ते, ङित्त्वं तु लिङ
एव विधीयते, तत्र तत्कार्याणां संभवाद्, नागमस्य । कुर्यात् । कुर्याताम् ।
कुर्युः । स्थानिवद्भावादेव लिङादेशस्य ङित्त्वे सिद्धे यासुटो ङिद्वचनं ज्ञापकार्थं
लकाराश्रयङित्त्वमादेशानां न भवतीति । अचिनवम् । अकरवम् ॥
किदाशिषि ॥ १०४ ॥
आशिषि यो लिङ् तस्य यासुडागमो भवति, स चोदात्तः, किद्भवति ।
प्रत्ययस्यैवेदं कित्त्वं नागमस्य प्रयोजनाभावात् । ङित्त्वे प्राप्ते कित्त्वं विधी-
यते । गुणवृद्धिप्रतिषेधस्तुल्यः, संप्रसारणं जागर्तेर्गुणे च विशेषः । इष्यात् ।
इष्यास्ताम् । इष्यासुः । जागर्यात् । जागर्यास्ताम् । जागर्यासुः । आशिषीति
किम् । वद्यात् । जागृयात् ॥
झस्य रन् ॥ १०५ ॥
लिङ इत्येव । झस्य लिङादेशस्य रन्नित्ययमादेशो भवति । झोन्ताप-
वादः । पचेरन् । यजेरन् । कृषीरन् ॥
इटो ऽत् ॥ १०६ ॥
लिङादेशस्य इटो ऽदित्ययमादेशो भवति । पचेय । यजेय । कृषीय ।
हृषीय । तकारस्येत्संज्ञाप्रतिषेधः प्राप्नोति न विभक्तौ तुस्मा इति । नेवाय-
मादेशावयवस्तकारः, किं तर्हि मुखसुखार्थ उच्चार्यते । आगमस्येटो ग्रहणं न
भवति, अर्थवद्ग्रहणे नानर्थकस्येति ॥