सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 265, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 265

२५८ ॥ काशिका ॥ ४ । १ ॥
बन्धकत्वाल्लटः । ल्युडादिषु कथं, टित्करणसामर्थ्यात् । इतरत्र तु टेरेत्वं फ-
लम् । पठिता विक्रेति आगमटित्त्वमनिमित्तं, ट्युट्युलौ तुट् चेति लिङ्गात् ।
ढ । सौपर्णेयी । वैनतेयी । निरनुबन्धको ढशब्दः स्त्रियां नास्तीति निरनुबन्ध-
कपरिभाषा न प्रवर्त्तते । अण् । कुम्भकारी । नगरकारी । औपगवी । यो ऽपि
क्वचिदणकृतं कार्यं भवति । चौरी । तापसी । दाण्ड । मौष्टेत्यत्र न भवति । अञ् ·
औत्सी । औदपानी । शार्ङ्गरवाद्यञ इति पुनरञो ग्रहणं जातिलक्षणं ङीषं
बाधितुम् । द्वयसच् । ऊरुद्वयसी । जानुद्वयसी । दघ्नच् । ऊरुदघ्नी । जानुद-
घ्नी । मात्रच् । ऊरुमात्री । जानुमात्री । तयप् । पञ्चतयी । दशतयी । ठक्
आक्षिकी । शालाकिकी । ठञ् । लावणिकी । ठक्ठञोर्भेदेन ग्रहणं ठनादि-
निवृत्त्यर्थम् । कञ् । यादृशी । तादृशी । क्वरप् । इत्वरी । नश्वरी । ख्युन् ।
आढंकरणी । सुभगंकरणी ॥ नञ्स्नञीकक्तरुणतलुनानामुपसंख्यानम् ॥ *
स्त्रैणी । पौंसी । शाक्तीकी । याष्टीकी । तरुणी । तलुनी ॥
यञश्च ॥ १६ ॥
ङीबित्येव । यञन्ताच्च प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो भवति
गार्गी । वात्सी ॥ अपत्यग्रहणं कर्तव्यम् ॥ * ॥ इह मा भूत् । द्वीपादनुसमुद्रं
यञ् । द्वैप्या । पृथग्योगकरणमुत्तरार्थम् ॥
प्राचां ष्फ तद्धितः ॥ १७ ॥
यञ् इत्येव । प्राचामाचार्याणां मतेन यञन्ताद् स्त्रियां ष्फः प्रत्ययो
भवति, स च तद्धितसंज्ञः । षकारो ङीषर्थः । प्रत्ययद्वयेनेह स्त्रीत्वं व्यज्यते
तद्धितग्रहणं प्रातिपदिकसंज्ञार्थम् । गार्ग्यायणी । वात्स्यायनी । अन्येषाम् । गार्गी
वात्सी । सर्वत्र ग्रहणमुत्तरसूत्रादिहापकृष्यते, बाधकबाधनार्थम् । आवट्या-
च्छापं वक्ष्यति, तमपि बाधित्वा प्राचां ष्फ एव यथा स्यात् । आवट्यायनी
सर्वत्र लोहितादिकतन्तेभ्यः ॥ १८ ॥
यञ् इत्येव । पूर्वेण विकल्पे प्राप्ते नित्यार्थं वचनम् । सर्वत्र लोहिता-
दिभ्यः कतपर्यन्तेभ्यो यञन्तेभ्यः स्त्रियां ष्फः प्रत्ययो भवति । कतशब्दः स्वत-
न्त्रं यत्प्रातिपदिकं तदवधित्वेन परिगृह्यते कपिशब्दात्परः कपिकतेति, न प्राति-
पदिकावयवः कुकतेति । लौहित्यायनी । शाङ्गित्यायनी । बाभ्रव्यायनी ॥
कण्वात्तु शक्लः पूर्वः कतादुत्तर इष्यते ।
पूर्वोत्तरौ तदन्तादी ष्फायौ तच्च प्रयोजनम् ॥
प्रातिपदिकेष्वन्यथा पाठः स एवं व्यवस्थापयितव्य इति मन्यते । कत-
न्तेभ्य इति बहुव्रीहितत्पुरुषयोरेकशेष,स्तथा कण्वादिभ्यो गोत्रइति । तच्च