सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 653, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 653

कलाप्रमाणं निमेषतृषनं दद्यात् । यदा ज्ञानात्प्रमादाद्वा भिषगप्रमाणेन चिर-
कालं धूपयति, तदाऽस्य मुखशोषो भवति । न त्वत्पथं पयसकुवलं च पल्लवं
च शुष्कोष्ठकण्ठहृदयतालूनामेतेषामतिधूपनाच्छोषितबलानां पयसोपसेचनं
पुनः पुनः प्रसादनमाहुराचार्याः । नस्यकर्मप्रधानमेतेनैव विधिना विरिक्ताधैका-
पस्याभुक्तवतः पूर्वाह्ने मृदुस्नेहपाकमुपकल्पयेत् ॥
यथाव्याधिप्रमाणेनौषधद्रव्यैः क्षीरविपाकैः साधयित्वा द्वादशाङ्गुलायतेन
षोडशाङ्गुलपरिणाहेन कोलस्रोतःप्रमाणेन चिरकालं बस्तिना पीडयेत् । तत्र
स्नेहप्रमाणं द्रोणे प्रस्थप्रमाणं दद्यात् ।
षडङ्गुलानि विस्तारादुत्सेधाच्चतुरङ्गुलः ॥
प्रस्थः सर्वप्रमाणेषु स्वकैरङ्गुलपर्वभिः ॥
एतेनेव प्रमाणेन स्नेहविधिप्रमाणं विज्ञाय तस्यानुषेकं दद्यात्, क्षीरदाने
यथापूर्वमभिहितम् । *हस्तक्षान्तिमस्य यथोक्तं सेवेत । एतेनैव विधानेन
मासार्धमर्धमासं वा यावद्वा साधु मन्येत, तावद्देशकालबलनिश्चयं यथार्थतो
विज्ञाय नस्यकर्म कुर्यात् । यथाकृतकर्माणं वारणं पयसा सर्पिषा वा यथानु-
भागप्रमाणं चतुर्थागमेव चारयित्वा भोजनं दद्यात् । भोजयित्वा मृदुवस्त्रेण
प्रच्छादयित्वा सुखोदकानुपानं दद्यात् । अनुपानप्रयोजनं त्वन्नपाने द्रवीकृतोऽ-
'स्याऽऽहारोऽन्तर्भूतोभिमसंघातः सम्यक्पाकमुपगच्छति ॥
तत्र श्लोकौ—
या स्नेहमात्रा तु यथावदुक्ता गजप्रमाणे विहिता पुरस्तात् ॥
सा कोष्ठमागम्य रसत्वमेत्य बलं तु नागे जनयत्यभीक्ष्णम् ॥ १ ॥
अग्निं बलं वाऽपि हि वर्धयित्वा कण्ठोरसोः पार्श्वकटित्रिकाणाम् ॥
संघातवर्णौ मनसः प्रसादं दधाति नस्यं द्विरदेषु दत्तम् ॥ २ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचन उत्तरस्थाने नस्य-
दानं नाम त्रयोदशोऽध्यायः ॥ १३ ॥
अथ चतुर्दशोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
अञ्जनानां क्रियायोगो भगवन्वक्तुमर्हसि ॥ १ ॥

  • 'हस्तिशान्ति' इति भवेत् ।