सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 659, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 659

[६४८] पालकाप्यमुनिविरचितो— [४ उत्तरस्थाने-

सिक्त्वा तेन श्लक्ष्णया च कल्कं साधयेच्छनैः ॥
सोवाञ्जनसमं कृत्वा रूपमूर्ध्वां तु कारयेत् ॥ ७३ ॥
एतच्चूर्णाञ्जनं श्रेष्ठं शीतं पित्तप्रसादनम् ॥
पैत्तिकेष्वपि रोगेषु रक्तजेषु प्रशस्यते ॥ ७४ ॥
अरुणं वातिकं विद्यान्नीलं भवति पैत्तिकम् ॥
श्वेतं तु कफजं विद्याद्बहुवर्णं कदम्बजम् ॥ ७५ ॥
जलबुद्बुदसंकाशं शुक्रमित्युपधारयेत् ॥
धातुप्रकोपजं यत्तु पटलं चैव कीर्तितम् ॥ ७६ ॥
प्रतिच्छन्नं तु यन्मध्ये ह्रस्वं भवति मण्डलम् ॥
चतुष्प्रकारं तच्चापि शुक्रमित्युपधारयेत् ॥ ७७ ॥
शिरोजालावृतं यच्च वीयते नयने तु यत् ॥
तदर्ममिति जानीयादसाध्यमिति वा पुनः ॥ ७८ ॥
इत्येते मारुतात्पित्ताच्छ्लेष्मणः शोणितात्तथा ॥
दन्तिनां नेत्रजा रोगा समुद्दिष्टा यथाक्रमम् ॥ ७९ ॥
एतेषां लक्षणं बुद्ध्वा व्यक्ताव्यक्तेन हेतुना ॥
निदानेन यथोक्तेन ततः कुर्याच्चिकित्सितम् ॥ ८० ॥
वातघ्नीं वातिके कुर्यात्पित्तघ्नीं पैत्तिके क्रिया(म्) ॥
अवशे(से)कं यथाशास्त्रं घृतपानं तथैव च ॥ ८१ ॥
विधिवच्च परीषेकं तथैवाश्च्योतनानि च ॥
शिरसश्चापि सेकाय प्रतिपन्नानि यानि च ॥ ८२ ॥
रसक्रिया यथोक्ता च चूर्णञ्जनानि यानि च ॥
सर्वाणि तानि मेधावी दृष्ट्वा सम्यगुपाचरेत् ॥ ८३ ॥
व्याधिं देशं च कालं च गजस्य च बलाबलम् ॥
इमे तु खलु रोगेषु सर्वेष्वेव प्रकीर्तिताः ॥ ८४ ॥
लेख्या साधारणा योग्या साध्यानामनुपूर्वशः ॥
अभयां चैव शुण्ठीं च कासीसमथ पिप्पलीम् ॥ ८५ ॥
सैन्धवं बृहतीमूलं कल्कमेकत्र कारयेत् ॥
वारिणाऽच्छेन संसृत्य कृतं तं साधयेच्छनैः ॥ ८६ ॥
घनीभूतं यदा विद्यात्तदेनमवतारयेत् ॥
निधाय भाजने शुचौ नेत्रे नागस्य चाऽञ्जयेत् ॥ ८७ ॥


१ क. अवशेकं । २ क. चूर्णान्यञ्जनानि ।