सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 661, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 661

इति नीलमेघा नाम गुटिका ।
यकृद्राजं तु संछिद्य पूर्वजैरेभिरोषधैः ।
मेदा चैव महामेदा जीवकर्षभकावपि ॥
काकोली क्षीरकाकोली मुद्गपर्णी तथैव च ।
माष(ष)पर्ण्यश्वगन्धे च सर्वं श्लक्ष्णं प्रपोषयेत् ॥
एभिर्यत्तत्समालोड्य परिच्छन्नं समाहितम् ।
एरण्डपत्रैः संस्थाप्य गोमयेन प्रलेपयेत् ॥
बहिर्मृत्तिकयाऽऽलिप्य निर्धूमेऽग्नौ प्रदापयेत् ।
तत्सिद्धमभिविज्ञाय पीषयित्वा समाहितम् ॥
कदुष्णं रसमादाय नेत्रे नागस्य पूरयेत् ।
पूर्वस्निग्धस्य नेत्रस्य स्वेदं कुर्याद्विचक्षणः ॥
निर्वापणार्थं नेत्रस्य मन्थजेन तु सर्पिषा ।
सर्वांश्चैवाक्षिरोगांश्च हन्ति सत्यं न संशयः ॥
आज्यं पयो वा कथित्ताम्बुमिश्रमाजं पयो वाऽपि तुषारमिश्रम् ।
गवां पयश्चेक्षुरसेन युक्तं नारीपयः शर्करयाऽथ मिश्रम् ॥
परिषेचनार्थे नित्यं हितं .... .... .... ।
निष्पावमात्रो नागानां कल्कस्तीक्ष्णाञ्जनस्य तु ॥
तस्यार्धं मध्यमस्याथ मृदुनो द्विगुणो भवेत् ।
कल्काञ्जनात्पादहीनं ज्ञेयं चूर्णाञ्जनस्य तु ॥
सिद्धिं चिरोत्थं न कदापि याति नेत्रामयं स्वेदितमात्रवीर्यात् ।
वैद्यः सदेमान्नृप कुञ्जराणां प्रयोजयेद्योगवरांश्र सिद्धयै ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचन उत्तरस्थाने
चतुर्दशोऽञ्जनाध्यायः ॥ १४ ॥


अथ पञ्चदशोऽध्यायः ।
पालकाप्यो मुनिश्रेष्ठो यदङ्गापामवीत्पुरा ॥
यथानुमानं नागानां तदिदं संप्रवक्ष्यते ॥ १ ॥
भूतानि कलयत्येष कलाभिर्वा विभज्यते ॥
एतत्कालस्य कालत्वं स तु संवत्सरः स्मृतः ॥ २ ॥


१ ख. श्रमं । २ क. ॰मानं प॰ । ३ क. सिद्धं । ४ क. ॰चक्षते ।