हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
१८८ पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने-
शिरस्तालु च गृह्णाति दन्ते नेत्रेऽवतिष्ठति ॥
गण्डश्चास्याग्रहस्तश्च प्रतिपा( मा )नं तथैव च ॥ १५५ ॥
विवर्णं विषसंसृष्टं शूनं चैवोपजायते ॥
शोषयत्यपि देहं च नाभिनन्दति भोजनम् ॥ १५६ ॥
करं धुनोति दुःखार्तो लाला चास्य प्रवर्तते ॥
तस्य कर्म प्रवक्ष्यामि येन संपद्यते सुखी ॥ १५७ ॥
कपित्थफलमज्जानां वार्त्ताकानां फलानि च ॥
संसर्गांश्चापि(?) यत्पञ्च पृश्निपर्णी हरीतकीम् ॥ १५८ ॥
सिन्दुवारितमूलं च शैलुं चैव सपाटलाम् ॥
विभीतकं सखदिरं वटं सोदुम्बरं तथा ॥ १५९ ॥
लोध्रं ततः परं दद्यात्ततो देयोऽथ सारिवा ॥
मधुकं च समं कृत्वा सूक्ष्मचूर्णानि कारयेत् ॥ १६० ॥
चूर्णं प्रस्थामिदं कुर्याद्वारिकुम्भे समावपेत् ॥
एतत्तु पाययेन्नागं विषं तेनोपशाम्यति ॥ १६१ ॥
अंजनानि विषघ्नानि पाययेच्चानुषेचनम् ॥
मेहने पेचके चास्य श्वयथुर्दारुणो भृशम् ॥ १६२ ॥
अपानाच्छोणितं चास्य दृष्ट्वा तं वारणोद्भवे ॥
मुहुर्मुहुः संकुचति कृच्छ्रांन्मूत्रं च जायते ॥ १६३ ॥
शय्याभागे च कुड्ये च कटिं स परिघर्षति ॥
भवन्त्येतानि रूपाणि विषयुक्तेषु दन्तिषु ॥ १६४ ॥
त्रिफलां च समां कृत्वा उशीरं चोत्पलानि च ॥
मञ्जिष्ठां चैव रोध्रं च प्रियङ्गुं पद्मकं तथा ॥ १६५ ॥
सिन्दुवारितमूलं च सकरञ्जं रसाञ्जनम् ॥
कैदुमं चेन्द्रगोपांश्च सूक्ष्मचूर्णानि कारयेत् ॥ १६६ ॥
चूर्णान्येतानि संहृत्य घृतद्रोणे समावपेत् ॥
एतेन बस्तयो देयास्ततः संपद्यते सुखम् ॥ १६७ ॥
बस्तिदानं पुरस्ताच्च वक्ष्यते राजसत्तम ॥
प्रदेहैर्घृतसंयुक्तैर्गुदं शूनं प्रलेपयेत् ॥ १६८ ॥
१ क. सिन्धुवा० । २ क. ०या च सा० । ३ ख. ०मिमं कु० । ४ ख. ०च्छ्रान्मूत्रं ।
५ क. कुमुदं ।
१० सर्पदष्टाध्यायः ] हस्त्यायुर्वेदः । १८९
अगदं पाययेच्चैनं सर्पिःक्षौद्रसमन्वितम् ॥
अनया क्रियया नागः क्षिप्रं संपद्यते सुखी ॥ १६९ ॥
यवसानि विषघ्नानि रसं दुग्धं तथैव च ॥
भोजनं च विषघ्नं स्याद्यथोक्तं तस्य दापयेत् ॥ १७० ॥
विमुक्तं विषदोषाभ्यां बललब्धं च वारणम् ॥
स्नापयेन्मन्त्रपूर्वेण औषधैश्च विषापहैः ॥ १७१ ॥
उत्तरस्या दिशो भागे धनदो यत्र देवता ॥
मण्डलं पूर्वमालिख्य चतुर्हस्तं समन्ततः ॥ १७२ ॥
नागपुष्पमतं नागं नागराजान्समालिखेत् ॥
अग्निं प्रज्वाल्य विधिना *इमान्मन्त्रमु(आनु)पाहरेत् ॥ १७३ ॥
भारद्वाजीये स्वाहा स्वाहा स्वाहेति ।
निवेदयेद्बलिं चापि यथालाभेन बुद्धिमान् ॥
मन्त्रयुक्ताश्च औषध्यो नवकुम्भे विनिक्षिपेत् ॥ १७४ ॥
+सिद्धार्थकास्त्वचं कुष्ठं विदारी शतपत्रिका ॥
कटंकटा मित्रहस्ता सरलं देवदारु च ॥ १७५०॥
प्रियङ्गुं च समङ्गां च पतङ्गं रोचनावचाम् ॥
मर्कटीं चापि वाराहीं सारिवां समनःशिलाम् ॥ १७६ ॥
एतत्संभृत्य संभारं पञ्चगव्यसमन्वितम् ॥
कुम्भैर्नवैर्न कृष्णाङ्गैः सर्वबीजैरलंकृतैः ॥ १७७ ॥
लाजान्नानि विशुद्धानि सुवर्णं रजतं तथा ॥
स्नापयेत्सर्वसंभारैर्वैद्यो गत्वा जलाशयम् ॥ १७८ ॥
कुम्भैरुत्क्षिप्यमाणैश्च इमान्मन्त्रानुदाहरेत् ॥
ब्रह्मप्रोक्तादृषिप्रोक्तानाग्नेयांथ वार(रु)णान् ॥ १७९ ॥
नमो ब्रह्मणे, नमो रुद्राय, नमो विष्णवे, नमः स्कन्दाय, नम आदित्येभ्यः,
नमोऽग्नये, नमो वरुणाय, नम इन्द्राय, नमो देववारणऋषिभ्यः, नमो देवेभ्यः,
नमस्तेजःपतिभ्यः, नमो नागराजेभ्यः, नमः स्कन्देभ्यः, नमो नागमातृभ्यः ॥
एतेभ्यो हि नमस्कृत्या इमां विद्यां प्रयोजयेत् ॥
तां ब्रह्मानुमन्यताम् । आगच्छेश्वररूप सहस्रबाहो सहस्रशीर्षो ब्रह्म
- 'इमं मन्त्रमुपाहरेत्' इति पाठो भवेत् ॥ + प्रथमान्तत्वेन द्वितीयान्तत्वेन
वा सारूप्येणैव पाठो योग्यः । † 'नमस्कृत्य' इति भवेत् ।
१ ख. काराहीं । २ क. ०र्नस्र्नै ।
१९० पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने-
भक्षर पुर पुर दह दह इमं विषं हन हन लिहि मिलि मिलं द्रुपदेयं कम्पं करे
उद्धरे हर हर चल चल वल वल चुलु चुलु स्वाहा। सिध्यन्तु मे मन्त्राः । पदा—
स्नातं हुताग्निर्नागेन्द्रं कृतमण्डल(*मुत्तमम् ।
अगदैस्तं प्रलिम्पेत्तु प्रशस्तैर्विषनाशनैः ॥ १८० ॥
नवैर्वस्त्रैः सुसंवीतं स्रग्दामभिरलंकृतम् ॥
पूजितं स्रग्विणं नागं ब्राह्मणान्स्वस्ति वाचयेत् ॥ १८१॥१४९९॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे(*महाप्रवचने महापाठे द्वितीये
क्षुद्ररोगस्थाने सर्पदष्टो नाम दशमोऽध्यायः ॥ १० ॥
अथैकादशोऽध्यायः ।
अतः परं प्रवक्ष्यामि) स्फोटिकासंभवोद्भवः ॥
आगन्तुदोषसंपातादिदं यत्तत्प्रकीर्तितम् ॥ १ ॥
विसर्पाः स्फोटिकाकाराः शरावाकृतयस्तथा ॥
शिरास्त्वङ्मांसरक्तानि दूषयित्वा यदैव हि ॥ २ ॥
पिटकाः श्वयथुः कुष्ठः सविसर्पविसर्पणः ॥
विसर्पवत्ससंसर्पन्सर्वेष्वङ्गेषु वर्तते ॥ ३ ॥
हस्तिनस्तद्विसर्पोऽयमुच्यतेऽग्निविषोपमः ॥
कृष्णरक्तारुणा धूम्नाः कठिनाः पिच्छिला व्रणाः ॥ ४ ॥
अग्निदग्धनिभाः स्फोटा जायन्ते रूक्षदारुणाः ॥
बीजपूरकसंस्थानाः शरावाकृतयस्तथा ॥ ५ ॥
वल्मीकाकृतयश्चैव नानासंस्थानचारिणः ॥
मण्डलैर्मन्दगैः कृष्णेर्दण्ड्याकारैः सुसंस्थिताः ॥ ६ ॥
गम्भीरमध्यश्रा(स्रा)विण्यो दाहकर्यो रुजात्मिकाः ॥
जिह्वाक्षिनाभिपृष्ठान्तःकण्ठकोष्ठाशिराः स्रुताः ॥ ७ ॥
मर्मश्रो(स्रो)तस्सु धमनीबस्तिसंधिषु चैव हि ॥
असाध्यान्निर्दिशेत्तांस्तु सर्वाङ्गेषु विचक्षणः ॥ ८ ॥
अन्यवर्णांस्तु मर्मस्था व्रणवत्तांस्तु साधयेत् ॥
पिटिका सविषा जाता कृच्छ्रेणेव प्रशाम्यति ॥ ९ ॥
- धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ॥
१ क. ०पाययित्वा य० । २ ख. सुसंस्थितिः ।
२१ स्फोटिकाध्यायः ] हस्त्यायुर्वेदः । १९१
तथा तिथिषु गुर्वीषु जाता कृच्छ्रेण सिध्यति ॥
उत्थिता सा तु सप्ताहान्त्रिसप्ताहान्तरेण वा ॥ १० ॥
विमथ्य सर्वगात्राणि गजं प्राणैर्विमोचयेत् ॥
लूताश्वानेन संस्थाना विसर्पस्फोटिकास्तथा ॥ ११ ॥
काश्यपस्य मतं बुद्ध्वा मम चैव मतं तथा ॥
मतिमान्कुशलो वैद्यो यथाशास्त्रमुपाचरेत् ॥ १२ ॥
सर्पदष्टविकारोऽस्मात्प्रायेण न विशिष्यते ॥
सर्पदष्टक्रियां सर्वां तस्मात्तत्रापि कारयेत् ॥ १३ ॥
भृशं विक्रियते नागो विकारैर्विषद्ष्टवत् ॥
हर्षहीनश्च भवति समुद्विग्नश्च वारणः ॥ १४ ॥
तथाऽक्षिभ्यां विचित्तश्च विषार्त इव गच्छति ॥
दुर्मना ध्यानभूयिष्ठः परिमूत्री भवत्यपि ॥ १५ ॥
क्षिपत्यङ्गानि च मुहुः कदाचिदुरमक्षिकः ॥
स्रस्तलाङ्गूलहस्तश्च नखवैवर्ण्यमृच्छति ॥ १६ ॥
ग्रासद्वेषी च भवति स्तिमितो गुरुविक्रमः ॥
रसादयो धातवो हि दोषाश्च पवनादयः ॥ १७ ॥
पञ्चभूतात्मके देहे सर्वत्र रसपोषणाः ॥
एवं विद्याद्विषक्तस्माद्धातुदोषाश्रयं विषम् ॥ १८ ॥
दोषधातुषु दुष्टेषु गजः प्राणैर्वियुज्यते ॥
विषोपयुक्तो दष्टश्च दिग्धविद्धोऽन्नपानतः ॥ १९ ॥
शारीरागन्तुकोपान्ता हेतवः संप्रकीर्तिताः ॥
धूपाञ्जनैस्तथा केचिद्व्यालसंस्पर्शदर्शनैः ॥ २० ॥
दशधा बहुधा केचिद्बुद्धिभेदैः पृथग्विधैः ॥
त्रिविधं शत्रुरिच्छामि तस्योत्पातांश्चतुर्विधाः ॥ २१ ॥
तस्य सामान्यतो दृष्टाः क्रियाः शास्त्रविशारदैः ॥
विषस्य कारयेत्प्राज्ञः सम्यक्शस्त्रैस्तथौषधैः ॥ २२ ॥
वशिष्टेनाभयं दत्तं पशूनां च विषात्किल ॥
स्फोटिकासंभवात्प्रायश्चतुश्चरणगामिनाम् ॥ २३ ॥
तस्मात्कदाचिद्दृश्यन्ते स्फोटिका द्विरदेष्वपि ॥
विषघ्नैस्ताः प्रशमयेत्तस्माच्चोगैर्भिषग्वरः ॥ २४ ॥
१ क. विमर्द्य । २ क. रणपो° । ३ क. °म्यक्शास्त्रै° ।
... [१ क्षुद्ररोगस्थाने-
लूताविषं कषायाभिः क्षारणस्योपजायते ॥
तस्य काश्यपनिर्दिष्टां चिकित्सामथ कारयेत् ॥ २५ ॥
ऊर्ध्वामादौ प्रभिन्नायां श्रुतिरुष्णा प्रवर्तते ॥
द्वितीयायां प्रभिन्नायां श्रोतोक्तं प्रवर्तते ॥ २६ ॥
पिटिका च भवेद्व्यक्ता मध्ये कृष्णं च मण्डलम् ॥
विषं च प्रवलं भूत्वा तृतीयां गच्छति त्वचम् ॥ २७ ॥
तत्र तन्दूरिवाऽऽभाति संतापश्चोपजायते ॥
मा गाम्भीर्य(?) भवेन्मध्ये दृष्टे नास्त्यत्र संशयः ॥ २८ ॥
चतुर्थीं तु त्वचं प्राप्य जायते तत्र कर्णिका ॥
तत्र रक्तं च मांसं च समन्ताद्व्यङ्गुलान्तरम् ॥ २९ ॥
उष्णं शूनमनुप्राप्तं विदूषयति वा त्वचम् ॥
पञ्चमीं तु त्वचं प्राप्य अस्थिसंस्थं विषं नृप ॥ ३० ॥
कर्णिकां कठिनां कृत्वा मेदस्त्व भजते विषम् ॥
षष्ठीं त्वचमनुप्राप्य कार्यं संदूषयेद्विषम् ॥ ३१ ॥
सप्तमीं तु त्वचं प्राप्य लूतानामुत्तमं विषम् ॥
कार्यं प्रविशति क्षिप्रं वायुना समुदीरितम् ॥ ३२ ॥
व्यथाभिर्वायुसंयुक्तः फेनो वाऽपि यथा भवेत् ॥
दर्शयत्याशु वेगेन गात्रेषु श्वयथुं यदा ॥ ३३ ॥
दृश्यते श्वपथुर्यस्य काकटिट्टिभसंनिभः ॥
श्रा( स्रा )वश्च जायते तीव्रो न स सिध्यति तादृशः ॥ ३४ ॥
भिन्नाञ्जनाभः प्रस्त्रावः प्रियङ्गुसदृशोऽपि वा ॥
वायसाङ्गारवर्णो वा सर्पिस्तैलनिभोऽपि वा ॥ ३५ ॥
निस्रवेद्यस्य गात्रेभ्यो न स शक्यश्चिकित्सितुम् ॥
काकाण्डा जलजा चैव लाँजा कर्णी सरोहिणी ॥ ३६ ॥
सलाङ्गूला तीक्ष्णविषा कुमुदिनी परं तथा ॥
वैदेही चेति व्याख्याताः सर्वा ह्येता महाविषाः ॥ ३७ ॥
सर्वेषु संभवन्त्येताः प्रदेशेषु नराधिप ॥
विशेषान्मस्तकेष्टीकास्तनगण्डकटाक्षिषु ॥ ३८ ॥
१ क. लूतादोषं । २ ख. प्रस्तावः । ३ ख. काकाण्डी । ४ क. लाजकेणी
स° । ५ क. °हीति च व्या° ।
१२ अपवादबद्धाध्यायः ] हस्त्यायुर्वेदः । १९३
स्तनान्तरेऽण्डकोशेषु तल्पेषु च प्रतिक्रिया ॥
मर्मसंधींश्च संत्यज्य दंशं छिन्द्यादसंशयः ॥ ३९ ॥
न तु दंशं भिषग्यस्तु नोद्धरेन्न च तं दहेत् ॥
अज्ञानात्स भिषग्राजन्दन्तिनो विनिपातयेत् ॥ ४० ॥
एता महाविषा लूतास्तूर्णं प्राणान्हरन्त्यपि ॥
कामं मन्दविषाश्चापि तस्माच्छीघ्रमुपाचरेत् ॥ ४१ ॥
यस्तु * मांसमतिक्रान्तदंशो नोत्कृत्यते प्रभो ॥
विशेषमाश्रिते चापि सा निहन्तीह हस्तिनः ॥ ४२ ॥ १५४१ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररो-
गस्थान एकादशः स्फोटिकाध्यायः ॥ ११ ॥
अथ द्वादशोऽध्यायः ।
अथातोऽपवादबद्धमध्यायं व्याख्यास्यामः—
इति ह स्माऽऽह भगवान्पालकाप्यः ॥
अथ खलु भो दारुणेषु तिथिमुहूर्तेषु नक्षत्रेषु वा बद्धः 'अपवादबद्धः' इत्युच्यते ॥
स भवति नीलवर्णः संरब्धो गुरुगात्रापरो दुर्मनाः किंचिद्भक्ष्यमादत्ते । तम-
साध्यं विद्यात् ॥
तस्मात्—उग्रदारुणेषु तिथिमुहूर्तनक्षत्रेषु न ग्राह्याः । प्रशस्तेष्वपि ग्रहोप-
सृष्टेषु पक्षच्छिद्रेषु सर्वकालं च संध्यासु हस्तिनो न ग्राह्याः । किं कारणम्—
लक्षणव्यञ्जनोपपन्ना अपि प्राणवन्तो व्यापद्यन्त इति ॥
तत्र श्लोकौ—
स्तिमितो गुरुहस्तश्च संरब्धो वर्णतो भवेत् ।
नीलः श्यावो ह्यबलवानेष नागो विपद्यते ॥
मुहूर्ते तिथिनक्षत्रे प्रशस्ते ग्राहिता गजाः ।
भवन्ति कर्मणां योग्या बलवन्तो निरामयाः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थानेऽ-
पवादबद्धो नाम द्वादशोऽध्यायः ॥ १२ ॥
- मासमतिक्रान्त इति पाठो भवेत् ।
१ ख. तल्पलेषु श्व(य)थुं प्र° । २ क. ख. °न्तिनां वि° । ३ ख. °हूर्तन° ।
२५
१९४ पालकाप्यमुनिविरचितो— [ १ क्षुद्ररोगस्थाने ]
अथ त्रयोदशोऽध्यायः।
अथाङ्गपतिरमरपतिसदृशं कनकेन्द्रनीलवज्रवैदूर्यविविधविमलमणिरुचिरवि-
चित्रप्रभाभिरुद्द्योतितरुचिरगात्रोऽभिगम्यानिलबलाभिधूतरुचिरकुसुमनिकररु-
चितोपहारे बहुविधमृगविहगगणनिषेविते सर्वसत्त्वाभिगमनीये सुखोपविष्टमाश्र-
मेऽतिरमणीयेऽसितमृगाजिनवसनं तडिदनलदिनकरकिरणसदृशवपुषं भगवन्त-
मभिवाद्य पालकाप्यं विनयेन कृताञ्जलिरिदं पप्रच्छ रोमपादः—'कथमयं पूर्वबद्धो
नाम व्याधिरुत्पद्यते, किं लक्षणम्, किं चास्य चिकित्सितम्' इति ॥
ततः—प्रोवाच भगवान्पालकाप्यः—'श्रूयतां महाराज यथा पूर्वबद्धः,
यच्चास्य चिकित्सितम् ॥
पूर्वबद्धो नाम 'अबद्धः पूर्वे वयसि' इति 'पूर्वबद्धः' इत्युच्यते । अयं तु
मानसो व्याधिरूपः प्राणहरो गजस्य, ऋते मोक्षात्, अरण्यगमनाद्वाऽसाध्यः॥
स तु मनस्वी प्राप्तैश्वर्यः प्रमाथी यदृच्छाचारी वनसुखानां रसज्ञः ॥
अथ वसन्ते—परमान्तरितविविधसुरभिरुचिरकुसुमेषु सहकारबकुलतिलकवि-
दुलशालवञ्जुलतमालतालीशप्रियालाङ्कोल्लशिरीषकर्णिकारपाटलाकुरुबक-
करवीरकिंशुकाशोकनवमालिकाकुन्देन्दीवरकिंकिराततिन्दुकपुंनागनागचम्प-
कातिमुक्तशोभाञ्जनपारिजातकाम्रातकाशमन्तकप्रियङ्गुवरुणककदम्बविविधतरु-
कुसुमनिकरसुगन्धाधिवासितेषु मत्तभ्रमन्मधुकरशुकसारिकापरिवृतबर्हिणविवि-
धविहगगणनिनादितेषु करिवरकरचरणदशनविधृतबहुविधतरुकुसुमफलेषु
विकचपुष्पमन्दारुतोपगीतनृत्यमानलतामण्डितवनांवरभवनेषु बहुविधकुसु-
मगन्धाधिवासितेन दक्षिणपवनेनोदीर्यमाणमदना द्विरदवरा अलिकुलपटलाञ्जुना-
दितकपोलाः करेणुसहिताः स्वच्छन्दतः स्थानशय्यासनसहिता रसितप्रक्ष्वेलित-
विघट्टतर्लितालिङ्गितचुम्बितोद्विग्नकुपितप्रैसारितानेकरसा विविधतरुपत्रपुष्पफ-
लभृङ्गकवलकुवलयपल्लवकन्दमूलपवसफलोपभोगा नानाविधानां नदीसरस्तडा-
गानां च विमलविपुलरुचिरसलिलप्रतिपूर्णानां सूर्याशुबोधितसारसानां हंसकुर-
रकारण्डवचक्रवाकसारसबकलावकामद्गुमल्लिकारुयानुनादैरुपशोभितानां क-
मलकुमुदकुवलपालंकृतानां कचिद्वनानां वसन्ते सुखमनुभवन्ति । स तेषामनु-
स्मरेत् ॥
तत्र श्लोकाः—
- 'प्रसादित' इति भवेत् ॥
१ ख. ॰नस्यो वाऽऽधि॰ । २ क. ॰मन्दारमा॰ । ३ ख. ॰ङ्ककप॰ । ४ ख.
॰कुव॰ । ५ क. ॰नुसेवेत् ।
१२ पूर्वोक्ताध्यायः ] हस्त्यायुर्वेदः १९५
वृक्षवल्लीलतागुल्मान्वारणैः परिघट्टितान् ।
मन्दगन्धमलोभेन नैवं मुञ्चन्ति षट्पदाः ॥
तच्च नागवनं नागाङ्गनानागवनं च तत् ।
पुष्पैश्च मदगन्धैश्च वासयन्तीतरेतरम् ॥
काचित्करेण संवेष्ट्य दन्तं नागस्य दन्तिनी ।
आत्मनो मन्मथावस्थां शंसतीव सुविह्वलाम् ॥
आदाय करिणी काचित्करेण करिणः करम् ।
हस्तिनः क्ष्वेडितैर्भावान्कुरुते मदनातुरा ॥
कामाग्निपरितप्तानि तान्यङ्गानि च वारणः ।
प्रियासंगमतोयेन निवारयितुमिच्छति ॥
काचिन्नागस्य मातङ्गी पुरः स्थित्वा समन्मथा ।
करोति करनिक्षेपं करिणः कामदीपनम् ॥
चिरकालप्रनष्टस्य कोकिलस्य नवं रुतम् ।
श्रुत्वा करेणुभिः सार्धं स्मरन्नागो न जीवति ॥
वसन्ते चित्रपुष्पाणां सुगन्धानां नराधिप ॥
वनानां संस्मरन्नागः प्राणांस्त्यजति दुःखितः ॥
भ्रमद्भ्रमरसंघेषु कोकिलाकुलशालिषु ।
लतागृहेषु रम्येषु वनानां विवरेषु च ॥
रतं यत्प्रियया सार्धं विहितं च पृथग्विधम् ।
एतेषां संस्मरन्नागः प्राणांस्त्यजति दुःखितः ॥
अथ ( ग्रीष्मे — ) क्वचिद्दिनकरकिरणाभिसंतप्तमेदिन्यां निष्पीतरसास्वौष-
धिषु गुरुशपदहनपरिगतमृगतृष्णिकाप्रतितप्तेष्वरण्येषु, अनेकभृङ्गोरावानादित-
मूलेष्वनेककोटरार्धनिःसृतभुजङ्गलेलिह्यमानशोषेषु तरुषु, धूपायमानास्विवाति-
रौद्ररूपं बिभ्रतीषु दिक्षु, पिपासोपहारहेतोर्गिरिगुहाकृतावस्थितिषु ( ✽ तरुषु )
कुरङ्गशावकेषु, वृक्षशालावलीनेषु नैकशो धर्माभितापसंभ्रमसंतप्तश्वापदेषु तरुबर्हि-
णपरभृतशुकसारिकाविविधविहंगगणसंघेषु शाखामृगखड्गवराहमहिषरुरुहरिण-
चमरवृषभरभमवयेषु, अङ्गारचूर्णनिकरोपमैर्दिनकरकिरणैर्दह्यमानशरीरेषूदक-
✽ पश्चात्पतित इव भाति ॥
१ क. ॰रेणः सं॰ । २ क. ॰ङ्गारावनादोन्ना॰ । ख. ॰ङ्गारीनादोन्ना॰ ।
३ ख. ॰मूल्येष्व॰ । ४ क. ॰निःश्रित॰ । ५ क. ॰शाखिषु । ६ ख. ॰लीलेषु ।
७ क. ॰हगतगते सं॰ । ८ ॰खङ्गिव॰ ।
१९६ पालकाप्यमुनिविरचितो- [ १ क्षुद्ररोगस्थाने-
मभिलषत्सु, सिंहव्याघ्रद्वीपिवरक्षक्षनेकश्वापद्दिनावितासु सपटहासिव गिरि-
वरदरीषु, परिशुष्यमाणोदरासु गिरिनदीषु, प्रियवियोगदुःखक्षीणास्विव कामि-
नीषु, तदाऽतिरोद्रे काले हस्तिनो महानदीनां हिमस्पर्शविमलसुरभिसलिलनि-
चयपरिपूर्णेषु महाह्रदेषु सरःस्वपि च विविधकुसुमबिसमृणालपुष्करबीजसंव-
र्तकोपभोगाः स्वच्छन्दतः करेणुकलभविष्कपोतकैरनेकधा परिचर्यमाणा आकर्ष-
णविक्षोभणोन्मज्जनपरिप्लवनतरणसलिलपङ्कहरि(र)णप्राभिघातक्रीडनविमर्द-
नरमणीयं विविधसुखमन्वभवन्ति सलिलेषु, सूर्यरश्मिप्रबोधितेषु(?)मीनजा-
लसंघट्टितेषु मारुतेन कंपितेषु षट्पदोपगुञ्जितेषु रुचिरकनकचूर्णसदृशरजो-
विकीर्णेषु हरितमणिवर्णकर्कशनालेषु बालसूर्यवर्णपर्णेषु पद्मषण्डेषु करेणुकल-
भपोतिकाभिः सह विहरणक्रीडनपांसुहरणाहारशपनानां(?) चन्द्रप्रभदीपिकासु
च शर्वरीषु सुरभिकुसुमगन्धवहैर्मृदुशिशिरपवनैरनुवीज्यमानाः प्रत्यूषप्रदोषार्ध-
रात्रिषु विचरन्ति । स तेषामनुस्मरन् ॥
तत्र श्लोकाः—
क्षोभयन्ति नदीमन्ये वप्रानिन्भन्दन्तं चापरे ।
प्रियाभिः सहिताश्चान्ये चरन्ति कलभैः सह ॥
पङ्कचन्दनदिग्धाङ्गाः शाखाप्यजनवीजिताः ।
सरःसु शीततोयेषु चरन्ति सह धेनुभिः ॥
धौतमुक्तफलोद्गारैः करैः शीकरवारिभिः ।
धेनुभिस्तेऽभिषिच्यन्ते कामार्तांस्तु मतङ्गजाः ॥
सूर्यरश्मिप्रतीकारं तेषां कुर्वन्ति धेनुकाः ।
उद्दण्डैः सहसोद्भूतविशालोत्फुल्लपङ्कजैः ॥
एवं निदाघकालेषु क्रीडितानामनुस्मरन् ।
ग्रामे बद्धो महाराज न जीवति मतङ्गजः ॥
प्रावृषि च परमसुरभिसलिलुलुलितपृषतधरणीतलगन्धानां कदम्बकेतकस-
र्जार्जुननीपवकुलशिलीन्ध्राजकर्णाभीरुकन्दलाधिवासितानां कुटजकुसुमप्रहसित-
प्रदीपितवनषण्ड़ानाम्, असितघनपटलसंछन्ने गगनतले चातकदर्दुरपरभृत-
शिखिगगनानुनादिते, हरितशिष्ये(?)न्द्रगोपकालंकृतायां वसुमत्यों कन्या-
यामिव शुकपत्रसदृशवसनायाम्, उद्योतिततपनीयभूषणायाम्, खद्योतप्रदीपि-
- हरितशष्पेन्द्रगोप—इति पाठो भवेत् ।
१ क. ख. ॰झण्डे॰ । २ क. ॰मुक्तं फ॰ । ३ क. ॰छन्नग॰ । ४ क. ॰पदाय॰ ।
द्वितीय स्थान: क्षुद्ररोग स्थान (अल्प रोगों का उपचार एवं आहार-विधान)
मगन्धावासितासु व्यपगतदंशमशकमक्षिकाश्वापदसरीसृ-"
Yes.
Line 11:
"पासु, अनुवर्षासु प्रवरगिरिगुहासु यत्सुखमनुभूतम्, तदनुस्मरन्। एवमेतेषामनुसु-"
Yes.
Line 12:
"खानां करेणुभिः सह रतानामनुस्मरन् । मध्यमवर्षासु स्तिमितजलधरशब्दे प्रश्चु-"
Wait, is there a space after अनुस्मरन्? Yes. "प्रश्चु-" has hyphen at end.
Line 13:
"(स्रु)तवारिविद्युत्स्फोटितगर्जितशब्दैः प्रतिगजशङ्कया प्रहृष्टकरणंलाङ्गूलः"
Wait, why does it have "(स्रु)"? The editor added "(स्रु)" because 'प्रश्चुत' has 'श्चु' and the variant/correction is 'स्रु' (प्रस्रुत).
So: "(स्रु)तवारिविद्युत्स्फोटितगर्जितशब्दैः प्रतिगजशङ्कया प्रहृष्टकरणंलाङ्गूलः"
Line 14:
"प्रतिगर्जति मेघान्महृष्टो महानदीनां फेनजलप्रवाहिनीनां परिप्लुतपक्षेषु परि-"
Wait, look at 'परिप्लुतपक्षेषु' vs 'परिलुतकक्षेषु':
मेघोदकैः पूरितकन्दरस्य शैलस्य गम्भीरवनान्तरस्य ।
गुहामुखेष्वग्निशिखाप्रकाशाः सुवर्णपुष्पा इव भान्ति दीपाः ॥
वनेषु वर्षासु मनोहरेषु क्रीडन्ति नागाः सह धेनुकाभिः ।
बद्धानतस्तान्स्मरतो वनानां मुखानि *खिन्नं समुपैति नाशम् ॥
शरदि च निर्मलगगनतलतारागणपरिवृतशिशिरशशिकिरणप्रकाशितासु
निशासु मुनिजविमलहृदयसदृशीषु दिवसकरकिरणविगतघनपटलकपाटोद्घा-
टितासु दिक्षु, वनराजिषु प्रफुल्लबाणासनसप्तपर्णकोविदारभण्डीरकुब्जकबन्धुजी-
वकरुचिराधिवासितासु पर्वतवरकन्दरोदरदरीषु तमालमालामालितासु नाना-
विधवृक्षचन्दनलतोपगूढवल्लीकरपल्लवैर्निरन्तरीकृतनिचुलपुष्पोपहार ( ......... )
†शरेदिपरस्परगहनानां प्रमुदितहरिणशार्दूलकुञ्जरवराहमहिषपृषतगवयखङ्गच-
मरसिंहशरभजम्बुकनिषेवितानां शरत्काले वनानां प्रबुद्धवननलिनीकुमुदसौगन्धि-
कोत्पलकह्लारविभूषितेषु प्रवरवैदूर्यमणिसदृशेषु जलाशयेषु मुनिसदृशेषु कलुष-
वर्जितेषु, तस्मिंश्चातिमनोज्ञे काले हस्तिनो दिनकरकिरणप्रबोधितकमलमधु-
करविमर्दावधूतपतितकिंजलककेसररजोनुरञ्जितसलिलेषु मधुमदमुदितमधुकर-
कुटुम्बिनीझांकारितमनोहरेषु मधुमदोपयुक्तकामरकामिनीकपोलच्छेदेन मण्डितेषु
नवनलिनीदलसंवीज्यमानजलचरपक्षिगणेषु क्रौञ्चचक्रवाककलहंसप्रणालग्रीव-
कधार्तराष्ट्रमहाहंसब्रह्मपुत्रजीवंजीवचकोरकोयष्टिमहाक्रौञ्चपरिलुतदात्यूहसारस-
कुररकारण्डवकादम्बमद्गुवाडिकुकुरमल्लिकाक्षि(ख्य)नीलग्रीवकरोहिणीककुटभे-
दकप्रवालपादकबकबलाकानिषेवितेषु निरन्तरकुसुममुरभिनिकरावपातरजोधि-
वासितेषु सूर्य्यरश्मिप्रबोधितेषु कमलवनेषु मीनजालघट्टिततोयान्तेषु मारुतेन
तरङ्गितेषु दिव्यगन्धाधिवासितेषु पक्षिसंघसेवितेषु षट्पदोपचित्रितेषु विविधसु-
खमनुभवन्ति निवृत्ति(त्त)जलकलहासु च विविधविहगनसमुखावलिखितपुलि-
नतलासु निर्दयोपभुक्तास्विव कामिनीषु काशकुसुमाट्टहासासु महानदीषु मदज-
लविहारसंसिच्यमानकपोला(ल)वप्राभिघातपांशुप्रकूहरणजलविक्षोभणसुखान्य-
सेवन्ते । स तेषामनुस्मरन् ॥
तत्र श्लोकाः—
तेषां कपोलजीमूतप्रनष्टमदकारिभिः ।
विविधद्रुमपुष्पाढ्या वास्यन्ते वनभूमयः ॥
- 'खिन्नान्समुपैति नाशः' इति भवेत् ॥ † 'शरादि' इति पाठो भवेत् ।
१ क. दायाः । २ क. °रदप° । ३ ख. °खानासे° । ४ क. °पोतजी° ।
२३ पूर्वानबद्धाध्यायः ] हस्त्यायुर्वेदः । १९९
कमलामलकिंजल्कपाण्डुरा वारणा नृप ।
सरःस्वमलतोयेषु क्रीडन्ति सह धेनुभिः ॥
कुमुदोत्पलसंछन्नां चक्रवाकनिकूजिताम् ।
दिवाकरकरामर्षसंबुद्दामलपङ्कजाम् ॥
शुभतीर्थां शुभजलां हंसांसपारैर्वीजिताम् ।
भजन्ते दीर्घिकां नागास्तत्कालसेवनक्षमाम् ॥
निशाकरकरोद्योतभूषितासु समन्ततः ।
उत्फुल्लको(क)मलोद्गन्धिगन्धवाहसुखासु च ॥
शर्वरीष्वविरम्यासु रमयन्ति वने प्रियाम् ।
पांथुना ह्यपदिग्धाङ्गाः केचिद्दनगजा नृप ॥
एतेषां वनसौरूपानामन्येषां चानुचिन्तयन् ।
ग्रामबद्धो महाराज न जीवति मतङ्गजः ॥
हेमन्ते वा तुषारनिपीडिताक्रान्तविटपपादपनिवासितानां गिरिदरीणां
लोध्रवलवीम्रियङ्गुकुसुमसिन्दुवाराधिवासितानां पांशुप्रथ(?)वृक्षनदीतटहरणानां
च हर्षाद्देवमादीनामुपवसि(?)जातपूँर्णं बलसत्त्ववर्णमटजच(?)हर्षामर्षार्जित-
*शुद्धशरीरावदेन्निन( ? )विधावितपरिकीर्णानां प्रभिन्नोद्धतप्रगालितकपोलदानौ-
घपतितधारामिलाषिमधुकरिषट्पदकर्णसुष्टोपगीतानां हेमन्तकाले वनानां
स्मरन् ॥
तत्र श्लोकाः—
अस्मिन्नृतौ सापि(?) तुषारवर्षे( षैः ) तृणाग्रलम्नैरुप(†शोभितानि) "
वनानि देवोपवनोपमानि काशैर्दुकूलैरिव संभृतानि ॥ १ ॥
विभान्ति राजन्विविधैः सरांसि सिध्यैस्तुषारैरिव विप्रकीर्णैः ॥
क्वचिच्च बाष्पाकुलसंभृतानि मित्राणि पद्मैः परिकीर्णयन्ते ॥ २ ॥
तृणानि हृद्यानि मनोरमाणि चरन्ति नागाः सहिताः प्रियाभिः॥
क्वचित्सरःक्रीढविहङ्गसंघैः क्रीडन्ति नागा ह्यपनीयमानाः ॥
करेणुकाभिः सह पोतकैश्च वने द्विरेफाकुलनादितेव ॥ ३ ॥
- 'शुद्धशरीरवेदनेन' इति कदाचिद्भवेत् ॥
† 'शोभितानि' इति द्वयोरपि पुस्तकयोस्त्रुटितम्, तथाऽपि कपुस्तके पार्श्ववकाशे
त्रुटिपूरणाय लिखितमत्र लिखितम् ॥
१ क. °वाकाभिक्° । २ क. °सिन्धुवा° । ३ क. °शुपृथ° । ४ क.
°पूर्णत्र° । ५ ख. °दन्नेन° । ६ ख. °र्णमुष्टो° ।
निवाततरुसंस्थाने रमणीयेऽतिपांशुके ॥
रमन्ते जघनद्वारसक्तहस्ता करेणुषु ॥
हिमसंस्पर्शपकानां क्रीडनाहरणानि च ।
हस्तिनीभिश्च सहिता रम्येषु गिरिसानुषु ॥
नागा गिरौ क्वचिच्चापि निर्जिताः परयूथपैः ।
भ्रमन्ति देशान्देशेभ्यो यूथाद्यूथं वने गजाः ॥
मदार्द्रगण्डाः कोपेन केचिद्राजन्मतङ्गजाः ।
अभिप्रहारैर्विविधैरन्योन्यबलदर्पिताः ॥
पांशुनां ह्युपदिग्धाङ्गाः केचिद्भग्नगजा नृप ।
करेणुभिः परिवृताः क्रीडन्ति वनसानुषु ॥
एतद्वने सुखं राजन्प्राप्तैश्वर्यो वनद्विपः ।
स्मरंश्च बद्धः सहसा क्षिप्रं त्यजति जीवितम् ॥
अथ शिशिरे हिमवृषितं सुखस्पर्शविमलसलिलकरेणुकलभविकपोतर्ज-
ववनुकल्याणपोत (?) परिसरणसेवितेषु सरःसु लोधातिमुक्तकलहाप्रियङ्गुमालतीकु-
मुदवारि(सितानि) तानि बकबलाकापारिप्लवमल्लिकाक्षो(रूप)कुररहंसचक्रवा-
कोपेतानि जलान्यवगाहमानाः करेणुभिः परिवृताः स्वच्छन्दतस्तृणकवलकुवल-
पल्लवोपयोगानां ह्रदेषु चाधिकशिशिरसलिले प्राकर्षणविक्षोभणोन्मज्जनपरिपु-
वनतरणानां स्मरन् ॥
तत्र श्लोकाः—
मदेन च जलं तेषां शीतलेन सुगन्धिना ।
भान्ति मार्गाः सुकुसुमा द्विरेफैरनुनादिताः ॥
केचिल्लतां कुसुमितां कूजद्भ्रमरसंकुलाम् ।
करेणुभ्यः प्रयच्छन्ति कामार्तास्तु मतङ्गजाः ॥
यूथात्प्रवासिताः केचिन्नागाना(ना)गान्तरैर्वने ।
यूथान्ते धेनुकाः प्राप्य प्लवन्ति तु यदृच्छया ॥
मदार्द्रगण्डाः करिणः किंचित्कोपेन मूर्च्छिताः ।
प्रतिद्विपानपश्यन्तो घ्नन्ति वृक्षान्सुदुस्तरान् ॥
- 'वासितानि' इति, 'वारितानि' इति वा पाठो भवेत् ॥
१ ख. रहिता । २ क. ॰ना ह्यप॰ । ३ क. ॰दूँनसु॰ । ४ क. ॰शिरहि॰ ।
५ ख, ॰जवनु॰ । ६ ख. ॰रिसता॰ । ७ क. ॰काक्षाकु॰ ।
२३ पूर्वबद्धाध्यायः ] हस्त्यायुर्वेदः । २०१
†केचिद्भागानां स्य केचित् ( ? ) मदाङ्गैर्गजाः करिणो वनेषु ।
विषाणगात्रापरहस्तवालैर्निशङ्किताः संप्रति हन्ति वृक्षान् ॥
फुल्लान्(ण)शाखाकृतकर्णपूराः केलिद्रुमान्तेषु मनोरमेषु ।
हृष्टद्विरेफाकुलनादितेषु क्रीडन्ति नागाः सह धेनुकाभिः ॥
प्रतिगजविमर्दविजयप्राप्तैश्वर्या वने कमसुखानां विविधानां च विविधगजगर्जै-
र्तताडनविकृतमुखानां स्मरणान्न निर्वाणमिह विन्दते । स जयति । स ग्रामानीतो
वधबन्धनतर्जनानि हठात्प्राप्नुवन् । अनु च कण्ठेनोन्नत१मानो ऽध्यायति संमीलि-
तनयनः करेण भूमितलमाहन्ति निषिद्धकरलाङ्गूलश्रवणमदः परिवीजयति
विमना न व्यतिचिकित्साय( ?)भैक्ष्यं२ ग्राम्यं वाऽऽरणं(ण्यं) वा नात्ति क्षुधितः,
पिपासितोऽपि न पिबति सलिलम्, मनस्वितयाऽऽत्तस्य तत्प्राप्त्यर्थं न विद्यते
प्रतीकारः । सामादयोऽप्युपायास्तस्मिन्न क्रमन्ते । पूर्वबद्धो नामैष व्याधिः ।
न हि स व्यसस्थ( ? )मनः प्रसादयितुमौरण्यकस्य३ नागस्य वाचमत्र प्राप्तस्य ।
तस्मात्प्राप्तैश्वर्यं न ग्राहयेत् । द्विरदपतिमतिक्रान्तचत्वारिंशद्वर्षमस्वार्थिव्य-
पाश्र्व( ? ) न भवन्तीति । तस्मिन्विद्यमाने मातङ्गे पक्षप्रपतना४दोषभयाच्चेति ।
पक्षप्रपतनं शुभमप्यशुभमेव भवति । किं पुनः शुभं विद्यमाने मातङ्गे पूर्वबद्धे च ।
किं पुनः पक्षप्रपतनम् ॥
दृष्टमप्यशुभं तस्मात्पक्षप्रपतनं मया ।
दृष्टं५ फलेन त्रिगुणं पक्षप्रपतनं पुनः ॥
तस्माद्द्वयोरपि तयोश्शुभाशुभयोर्मया ।
विसर्जनं किं तदिति मेयेहो६ यदि तच्छृणु ॥
सुभगाभिः सुरूपाभिर्हस्तिनीभिः समन्ततः ।
पूर्वबद्धं परिवृतं वारेणेन्द्रं विवर्जयेत् ॥
अरण्ये शुभदं यावद्द्विपत्कालेषु त्रिष्वपि ।
मोक्षाद्धन्यस्य नागस्य पूर्वबद्धस्य किं पुनः ॥
हस्तिनीभिर्वनान्ते च कर्तव्यमिति मे मतिः ।
तत्र श्लोकाः—
तृतीयायां चतुर्थ्यां चेद्दशायां ग्राहयेद्द्विपम्* ।
बाल्याद्वि७युक्तान्कार्मण्याम्८प्राप्तां पञ्चमीं दशाम् ॥
† द्वयोरपि पुस्तकयोः समान एव पाठः । * द्वितीयाबहुवचनान्तत्वमेव युक्तम् ॥
१ क. °नोन्नीतं° । २ क. लक्ष्यं । ३ क. °मारण्यप्रकाश्यना° । ४ क. ख. °प्रपंतादोष° ।
क. ख. दृष्टफ° । ६ ख. मपेहो । ७ क. ख. °ग्भू । बालाद्वि° । ८ क. °तात्कार्म° ।
२६
ते कर्म च प्रयोगांश्च परिक्लेशं च वारणाः ।
सहन्ते न च दुष्यन्ति न स्मरन्ति वनानि च ॥
प्राप्तैश्वर्यो हि पञ्चम्यां दशायां परिहृद्यते ।
मनस्विभावात्स क्षिप्रं प्राणांस्त्यजति वारणः ॥
यथा राज्यात्समुदिताद्भ्रष्टः सीदति पार्थिवः ।
वनैश्वर्यात्तथा भ्रष्टः सोऽपि नागो विपद्यते ॥
हिमसंस्पर्शशीतानां पङ्कानां हरणानि च ।
हस्तिनीभिश्च सहितो रम्येषु गिरिसानुषु ॥
क्रीडनं यच्च सलिलाद्वर्तते च वनेषु च ।
नदीनां च निकुञ्जेषु रतानि समनुस्मरन् ॥
मृणालं वा बिशं वाऽपि तृणं फुवलपल्लवम् ।
मूलं वा पिप्पलं वाऽपि कान्तकाक्षुण्णकात्तथा(?) ॥
स्वमुखाश्रो(स्वा)दितं प्रीत्या स्वादुहारं च भक्षितम् ।
करे गृहीत्वा यद्दत्तं मुखे च तदनुस्मरन् ॥
सविलासेः करेण्वंश्च रंहेः संन्याहितं शनैः ।
न विश्रान्तस्य नागस्य वशाभिर्गिरिसानुषु ॥
तनुपल्लवनालेन पुष्पोद्गारसुगन्धिना ।
वनान्ते वाजितामात्रं शाखाभङ्गप्रवापुना ॥
पीतैः सुरभिभिःश्वासैः शीतशीकरवारिभिः ।
(* क्रीडितं करिणीभिर्वा ) करेण्वंश्च वनान्तरे ॥
† मत्तद्विपोपगीतेषु पद्मोत्पलसुगन्धिषु ।
बहुदोषैस्तु भवने तेषु वो शीतलेषु च ॥
आसध्यमानं कान्ताभिर्दै(*वीभिर्देव)वभक्तिभिः ।
नानाधातुविचित्राभिरनुलिप्तं करेणुभिः ॥
पद्मकेसरकिंजल्कैः पुष्पार्चैर्बहुभिः शुभैः ।
+
सत्यचूर्णैरवाङ्गे यत्योद्भिभिजपिञ्जरकृतम् (?) ॥
- धनुराकारमध्यस्थो नास्ति पाठः खपुस्तके । † 'मत्तद्विजोपगीतेषु' इति भवेत् । + पुस्तकद्वयेऽपीदृगेव पाठः ।
१ क. मुद्दे । २ क. ०नैः । सवि० । ३ क. ०युवा ॥ पी० । ४ क. ०वायुभिः । ५ क. ख. वा सुशी० ।
१३ पूर्वमद्धाध्यायः ] हस्त्यायुर्वेदः २०६
आसेव्यमानास्तस्पाङ्गसेवाधर्मनुकर्षितम् ।
करिण्योश्च पुनः क्रीडां नरेन्द्रस्येव कुर्वते ॥
सर्वत्र सुखरम्येषु यच्च पर्वतसानुषु ।
निषेवितं च पद्माक्षं वनकुक्षिषु ताण्डवम् ॥
सुस्नातो वनयूथानां करोत्क्षेपहृतैर्जलैः ।
मनोरमैः शब्दवद्भिः समन्तागलपुष्करैः ॥
यच्च बर्हिण(न्व)त्येन†........................... ।
.........................स्तैर्मुसाडम्बरगर्जितम् ॥
स्मृत्वा वनद्विपो बद्धः पूर्वाबद्धो न जीवति ।
अनुकूलाश्च या सेवा गजयूथैः कृता वने ॥
अनुयुक्तैर्वारणस्य भृत्यैरिव वशानुगैः ।
कलभैर्धेनुकाभिश्च पोतैश्च प्रियदर्शनैः ॥
संकीर्णमृगदं(?) मन्देर्नरं नरपतिर्यथा ।
यच्च युद्धेष्वनेकेषु निर्जित्य प्रतिवारणान् ॥
गजयूथाधिपत्यं च स्पर्शस्त्वास्वादितो महान् ।
२करेण सुकुमारेण स्पर्शातिशयभाजिना ॥
कामाग्नेर्चित्तमयैर्विक्षोभ्य जघनार्णवम् ॥
वस्त्राणां भटमृतरसस्पर्शांकृत्वाऽऽर्द्रमहारसम् (?) ॥
कान्तवे(ये)प्सितसर्वात्मा हृदि मन्मथताडितः ।
कामैकहानहृदयो ध्यानहर्षपरायणः ॥
मन्दमन्मथलीलाभिर्गतिभिः ४क्रमते सदा ।
कर्कशोदाममदनः किंचित्कार्श्यमागतः ॥
यूथमध्यात्परित्यज्य नागकन्यां सुकेशिनीम् ।
मनोरमवनोद्देशमागत्य मदनातुराम् ॥
अनङ्गतप्तान्यङ्गानि भिया द्वेषु कुतोभयम् (?) ।
निर्वाप्यं यद्यनुकुरुते तच्च सर्वमफुल्लकं कयम् (?) ॥
- ‘करिण्योऽत्र’ इति भवेत् ॥ † पुस्तकद्वयेऽपि—‘कोकौभितौसौ पार्थिवमिव चित्या’ इति लिखितमुपलभ्यते ॥
१ क. संपूर्ण० । २ क. ख. ०रेणुसु० । ३ ख. ०स्पर्शा कृत्वा म० । ४ ख. ‘प्रतिक्रान्तः........’ ।
२०४ पालकाप्यमुनिविरचितों— [२ क्षुद्ररोगस्थाने-
(?)संछन्नं सरःसु विमलं जलं करेणुकरदत्तं हि ।
(?)पीतं यत्सुरभितोत्तरे विस्मरञ्जलमादत्ते ॥
काममोहाभिसंतप्तः कृतान्तविधिनोचितम् ।
स्वयूथमिव मातङ्गो दृष्ट्वा ग्राम्या नु धेनुकाः ॥
सहसा ग्राममानीतो वारुणः पदवासिकैः । (?)
प्रतिबद्धस्तु पाशेन नष्टचित्तोपलक्ष्यते ॥
एवं वनेषु बहुधा क्रीडितानामनुस्मरन् ।
रोमपाद महाराज न जीवति मतङ्गजः ॥
क्षुधितोऽप्यधिकं दृष्टः पूर्वाबद्धो मतङ्गजः ।
न चात्ति किंचिदाहारं मनः सीदन्स्मरन्वनम् ।
*शोचते मनसस्तापान्कोष्ठे व्यापद्यतेऽनिलः ॥
ततो व्यापन्नमदनः पूर्वावद्धो न जीवति ।
ऋते मोक्षान्न तस्यास्ति मनसः संप्रसादनम् ॥
प्रत्याख्येयो गजस्तस्मात्पूर्वाबद्धश्चिकित्सकैः ।
अधर्मश्चातिहानिं च वृथा चापि परिश्रमः ॥
प्राप्तेश्वर्यस्य नागस्य ग्रहणं न प्रशस्यते ।
प्रकृष्टपतने चापि तस्य दोषो महान्भवेत् ॥
प्राजापत्येषु सर्वेषु ब्राह्मणैः पठ्यते गजः ।
($प्राणा)बाधं गजानां तु रक्षेत्सर्वात्मना नृपः ॥
इह चान्यत्र च श्रेयो गजानां परिपालनात् ।
तथा सात्म्यं गजो बद्धो यत्नेन परिपालयेत् ॥
(?)कर्मार्हा यो न लक्षण्योपेतानग्राह्यान्नपरिवर्जयेत् ॥
तत्र श्लोकौ भवतः—
पूर्वाबद्धो मानसो व्याधिरेष प्रत्याख्येयः साधनं तस्य नास्ति ।
आगन्तुर्वा दोषजो वाऽपि रोगः ❊साध्वीरोपः सद्यते सोपहर्ता ॥
वाग्भांश्चत्राभिर्गीतवादित्रशब्दैः(?) ⁺सद्यते तु मानं स मानुषाणाम् ।
- 'शोचतो मनसस्तापात्' इति भवेत् । ⁺ 'हानिश्च' इति भवेत् । $ खपु-
स्तके नास्ति । * 'शारीरो यः साध्यते सोपहर्त्री' इति भवेत् । * 'श्चित्रैर्गीत' इति
भवेत् । ⁺ 'साध्यं तद्वै मानसं मानुषाणाम्' इति भवेत् ।
१ क. साध्यं । २ ख. ०र्याद्यापोनलक्षणोपेता० ।
१४ विसर्पाध्यायः ] हस्त्यायुर्वेदः । २०५
आरण्यानां शङ्किनां वारणानां संतप्तानां नास्ति चित्तप्रसादः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
पूर्वावद्धो नाम त्रयोदशोऽध्यायः ॥ १३ ॥
अथ चतुर्दशोऽध्यायः ।
अङ्गो हि राजा चम्पायां विनीतात्मा महायशाः ।
उपागम्याऽऽश्रमं रम्यं पालकाप्यं स्म पृच्छति ॥
ये त्वया संग्रहाध्याये विसर्पाः पञ्च कीर्तिताः ।
तेषां हृतं यतो भूतं भगवन्वक्तुमर्हसि ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ।
प्रोवाच भगवान्प्रीतो हस्तिचारी महायशाः ॥
तस्मै शुश्रूषमाणाय रोमपादाय धीमते ।
श्वयथुः सर्पनियतः प्रस्थितो येन सर्वशः ॥
स्फोटितोद्युतत्वाच्च‡ .... .... .... .... .... .... ।
विसर्पमेतैर्जानीयाद्रुजं तं परमातुरम् ।
मारुताद्याः प्रकुपिता विशन्ति धमनीं ततः ॥
मांसशोणितमागम्य शोकं कुर्वन्ति भैरवम् ।
स चाङ्गानि यथा गच्छेद्वैलशोथोऽनवस्थितः ॥
तदा भवेद्विसर्पश्च तस्य स्थानानि मे शृणु ।
संदानभा(*गे कूर्मे च प्रायो विष्के गले तथा ॥
अष्टाङ्गे वक्रसंस्थश्च तत्पले, जनये तथा ।
भागेष्वेतेषु नागानां श्वयथुः सर्वतोऽपि वा ॥
आशीविषस्येव गतिर्लक्ष्यते पावकस्य च ।
तद्वच्च समुदीर्णस्य विसर्पस्य समन्ततः ॥
†संसव्यं प्रतिसंहर्तुं
(?)सोक्ष्मां इवत्यक्षवंतह्या द्विसर्पे इति रूपः ।
आदानं च निदानं च तस्याणीन्वििनबोध मे ॥
(?)रूक्षछाया कटुकाभं पानवायो निषेवते ।
प्रकृतिर्वातिकी यस्य वस्य वायुः प्रकुप्यति ॥
शिराभिः कुपितश्चापि शरीरं विप्रधावति ।
गात्रमन्यतमं प्राप्य विसर्पं कुरुते ततः ॥
मृदुश्लक्ष्णः शिरानद्धो$ .... .... .... .... .... .... ।
प्रकुर्वन्वृद्धिमाप्नोति पिटकाभिः समन्वितः ॥
श्रा(स्त्रा)वमत्यर्थमल्पं च स्फोटाः स्फटिकसंनिभाः ।
तेऽकस्मात्पुरुषभावि स्वरन्तो भेदमागताः ।
उष्णानि सविदाहानि साम्लानि च निषेवते ।
प्रकृतिः पैत्तिकी यस्य तस्य पित्तं प्रकुप्यति ॥
शिराभिः कुपितं चापि शरीरे विप्रधावति ।
गात्रमन्यतमं प्राप्य विसर्पायोपकल्पते ॥
अंग्रदग्धोपमः स्फोटैः श्वयथुः श्रीयते ततः ॥
सदाहैः† .... .... .... समहातीव्रवेदनैः ।
मांक्षछापन्नसंकाशैः शिखिकण्ठनिभोऽपि च ।
भिन्नाञ्जननिभः सा च प्रियङ्गुसदृशोऽपि वा ॥
निःस्रवेद्यस्य गात्रेषु न स शक्यश्चिकित्सितुम् ।
अग्नेः समानकर्मत्वात्पित्तदोषसमन्वितम् ।
कांचदाम्रविसर्पं तु पृथगाचक्षते जनाः ॥
यः स्निग्धमधुरं भोज्यं शीतामिक्षुं च सेवते ।
प्रकृतिः कफजा यस्य श्लेष्मा यस्य प्रकुप्यति ॥
शिराभिः कुपितं चापि शरीरं विप्रधावति ।
गात्रमन्यतमं प्राप्य शोफं कुर्वन्ति दन्तिनः ॥
मन्दस्वेदप्रस्रवणः कण्डूमानथ शीतलम् ।)
स्वल्परोगो घनस्पर्शः शीतकाले विवर्धते ॥
चिरात्प्रच्यवते चापि चिराच्चैव प्रसिच्यते ।
महास्फोटसमायुक्तो विसर्पः श्लैष्मिकः स्मृतः ॥
$ अत्रोपि पाठत्रुटितः । †इतोऽग्रे पाठो भ्रष्टः ॥
१५ हृदयस्फाल्याध्यायः ] हस्त्यायुर्वेदः । २०७
स्वैः स्वैस्तु कारणैर्दोषा युगपत्कुपिता नृप ।
दर्शयन्ति स्वलिङ्गानि तस्य शेषाणि लक्षयेत् ॥
विसर्पो मर्मजः सर्वो ह्यसाध्यः कीर्तितो बुधैः ।
संनिपातहृतो भूतसाध्याचैसततौ(?) स्मृतौ ॥
तत्र श्लोकः—
संसर्गलिङ्गानि कफस्य वायोः पित्तस्य रक्तस्य च संनिपातम् ।
दोषोत्थितं चापि तथा विदित्वा क्रियां यथावद्विहितां हि कुर्यात् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
चतुर्दशो विसर्पाध्यायः ॥ १४ ॥
अथ पञ्चदशोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ।
कीदृशो हृदयस्फा(*ली भगवन्वक्तुमर्हसि ॥ १ ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
अल्पसत्त्वस्य नागस्य भयादुद्विग्नचेतसः ॥ २ ॥
हृदयस्फाल)नो व्याधिर्हृदयस्थान उच्यते ॥
अपूर्वाणां च रूपाणां गत्वा न त्वमदीयते(?) ॥ ३ ॥
द्विविधानां च घोषाणां भयात्सद्यः प्रणश्यति ॥
अरण्याद्ग्राममानीतो दृष्ट्वा रूपाणि वारणः ॥ ४ ॥
सहसा वधबन्धाभ्यामकामाशनभोजनात् ॥
भीतो भवति मातङ्गो विदीर्णहृदयस्ततः ॥ ५ ॥
सान्त्वेमानोऽपि बहुधा संवीजत्येव राजिता ॥
उद्विग्नचित्तो विमना हन्ति हस्तेन मेदिनीम् ॥ ६ ॥
अद्य धावति संतापः सर्वाङ्गे चास्य जायते ॥
नखेभ्यश्चैव सर्वेभ्यो भयाद्रक्तं प्रवर्तते ॥ ७ ॥
(?) ग्रहन्मन(?) इवाकोरं प्रठ्या(रूपा)ति गुरुमक्षिकः ॥
न वेत्ति द्विरदः संज्ञां दीनहष्टिरवाङ्मुखः ॥ ८ ॥
- धनुराकारमध्यस्थो भ्रष्टः पाठः कपुस्तकात् । † 'सान्त्व्यमानोऽपि' इति भवेत् ।
१ क. स्वैः स्वका० । २ ख. ०च वपवो स्मृ० । ३ क. ०ते ॥ दुःखे० ।
४ क. ०कारप्र० ।