गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
बहुनात्र किमुक्तेन जल्पितेनापि सुन्दरि ॥ २८ ॥
वागीशं स्पर्धते वाक्यैः सर्वज्ञो भुवि जायते ।
मूको भवति वागीशो वाचस्पतिरिवापरः ॥ २९ ॥
१ शिवचन्द्रौ समुद्धृत्य कामव्योमपुरन्दरान् ।
उद्धरेत् परमेशानि लज्जाबीजं ततः प्रिये ॥ ३० ॥
कामराजमिदं भद्रे षड्वर्गा सर्वशोभितम् ।
† चन्द्रः कामस्तथेन्द्रश्च महामाया ततः परम् ॥ ३१ ॥
शक्तिबीजं वरारोहे वेदाक्षरसमन्वितम् ।
त्रिकूटेयं महाविद्या महात्रिपुरसुन्दरी ॥ ३२ ॥
सर्वतीर्थम(ये?यी) देवी सर्वदेवस्वरूपिणी ।
सर्वशास्त्रमयी शुद्धा सर्वदोषविवर्जिता ॥ ३३ ॥
चतुर्वेदमयी साक्षात् सर्वसौभाग्यदायिनी ।
कामराजाख्यविद्येयं भोगमोक्षफलप्रदा ॥ ३४ ॥
अनया सदृशी विद्या त्रिषु लोकेषु दुर्लभा ।
एतस्या एव विद्यायाः शक्तिं तुर्यं च पार्वति ॥ ३५ ॥
हित्वा मुखे शिवेन्दुभ्यां लोपामुद्रा प्रकाशिता ।
§ मारबीजं ततो योनिः कामः (शु?श)क्रं तथेश्वरी ॥ ३६ ॥
१ 'र्द्ध' क पाठ । २ 'यदॆव' क पाठ. ।
† शिव ह चन्द्र स काम. क व्योम ह पुरन्दर ल लज्जा ह्री इति कामराजकूटम् ।
‡ चन्द्र स काम क इन्द्र ल महामाया ह्री इति शक्तिकूटम् ।
- उक्ताया एव विद्याया वाग्भवादौ शक्तितुर्ये एई विहाय शिव ह् इन्दुः स इत्येतत्
द्वयमादौ नियोज्य लोपामुद्रोपासिता विद्या भवति ।
§ मार. क योनि ए काम क शक्र ल ईश्वरो ही इति वाग्भवकूटस्थाने विन्यस्य
पूर्ववत्कामराजशक्तियोगात् शाम्भवी विद्या ।
द्वितीयः पटलः । १३
पूर्ववत् कामराजं च शक्तिकूटं तथैव च ।
सवीर्या सिद्धिदा विद्या त्रैलोक्यवशकारिणी ॥ ३७ ॥
तव स्नेहान्महेशानि मयेयं तु प्रकाशिता ।
एतच्छांभवमुद्दिष्टं शृणु शाक्तमतः परम् १ ॥ ३८ ॥
† शक्तिर्महेशः कामश्च इन्द्रबीजमतः परम् ।
महामाया ततः पश्चात् पूर्ववदपरं ततः ॥ ३६ ॥
विद्यात्रयमिदं भद्रे दुर्लभं भुवनत्रये ।
देव्युवाच
षोडशार्णां महाविद्यां त्रैलोक्यवशदायिनीम् ॥ ४० ॥
अधुना कथयेशान यद्यहं तव वल्लभा ।
ईश्वर उवाच
शृणु देवि महाविद्यां षोडशाक्षररूपिणीम् ॥ ४१ ॥
एतस्या एव विद्याया यद्याद्ये भुवनेश्वरी ।
तदेयं परमेशानि षोडशाक्षररूपिणी ॥ ४२ ॥
मायास्थाने (वा?२) माबीजं दत्त्वान्या ‡ षोडशी भवेत् ।
वरदा सिद्धिदा विद्या३ कुबेरास्पददायिनी ॥ ४३ ॥
चिन्तामणिरियं विद्या त्रैलोक्ये चापि दुर्लभा । •
वेदादिमण्डिता चान्या विद्या मोक्षप्रदायिनी ॥ ४४ ॥
तथैव हि महाँबीजं रमाबीजं तथैव च ।
१ 'र' क पाठ । २ 'द्यात्' क पाठ । ३ माया' ख पाठ ।
† शक्ति स महेश ह काम क इन्द्र ल महामाया ह्रीँ इति प्रागुक्तविद्याया वाग्-
भवे नियोज्य शाक्ती विद्या सपद्यते ।
‡ भुवनेश्वरी ही तदादियुता पूर्वोक्ता विद्या षोडशार्णा । अथवाद्यौ रमाबीजोपेता तथा
भवति ।
पञ्चदशाक्षरीविद्यां तथैव च समुद्धरेत् ॥ ४५ ॥
सेयं <sup>†</sup>सप्तदशी विद्या साक्षात् जाग्रत्स्वरूपिणी ।
देव्युवाच
ततः कथय देवेश राजराजेश्वरीं पराम् ॥ ४६ ॥
षोडशार्णां महाविद्यां त्रैलोक्यवशदायिनीम् ।
जननीं सर्वमन्त्राणां परब्रह्मस्वरूपिणीम् ॥ ४७ ॥
ईश्वर उवाच
राजराजेश्वरीं विद्यां तथास्याः कवचं प्रिये ।
यो जानाति महीपृष्ठे स देवो नतु मानुषः ॥ ४८ ॥
राजराजेश्वरी विद्या कथ्यते शृणु पार्वति ।
रमाबीजं समुद्धृत्य मायाबीजं नियोजयेत् ॥ ४६ ॥
कामबीजं समालिख्य वाग्बीजं तदनन्तरम् ।
चतुर्दशस्वरोपेतं चन्द्रं बिन्दुयुगान्वितम् ॥ ५० ॥
प्रणवं भुवनेशानीं रमां चैव महेश्वरि ।
पञ्चदशाक्षरीं पश्चादुद्धरेत् परमेश्वरि ॥ ५१ ॥
व्युत्क्रमात् परमेशानि पूर्वोक्तबीजपञ्चकम् ।
आलिख्य संपुटीकुर्याद् विद्येयं ह्यष्टकूटका । ॥ ५२ ॥
तुरीयेयं महाविद्या केवलात्मस्वरूपिणी ।
षोडशार्णा महाविद्या श्रीविद्या कथिता परा ॥ ५३ ॥
<sup>†</sup> समनन्तरोक्ता पञ्चदशाक्षरी मायारमाभ्या ह्रीं श्रीं इत्याभ्यामाद्ययोजिता सप्तद-
शाक्षरी विद्या भवति ।
<sup>‡</sup> रमा श्री माया ही कामबीज क्लीं वाग्बीज ऐं चतुर्दशस्वरोपेत सविसर्गश्चन्द्रः
सौः प्रणव ओङ्कार भुवनेशानी ह्रीं रमा श्री तत पञ्चदशाक्षरी व्युत्क्रमैः बीजपञ्च-
कैश्च सपुटिता षोडशकटा तुरीया विद्या भवति ।
वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि ।
वर्णितुं नैव शक्येयं श्रीविद्या षोडशाक्षरी ॥ ५४ १॥
षोडशार्णा महाविद्या सर्वतन्त्रेषु गोपिता ।
तव स्नेहान्महेशानि गन्धर्वे वै प्रकाशिता ॥ ५५ ॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे विद्याभेदोद्धारनिरूपणं
नाम द्वितीयः पटलः ॥ २ ॥
१ 'शक्येऽह श्रीविद्या षोडशाक्षरीम्' ख पाठः ।
तृतीयः पटलः ।
देव्युवाच
देवदेव जगन्नाथ भक्तानामार्तिनाशन ।
पञ्चपञ्चाक्षरीं विद्यां पञ्चमीं सर्वकामदाम् ॥ १ ॥
अधुना कथयेशान समग्रां पापनाशिनीम् ।
ईश्वर उवाच
दुर्लभा पञ्चमी विद्या पञ्चकूटात्मिका शुभा ॥ २ ॥
भुक्तिमुक्तिप्रदा शुद्धा सुखदा दुःखनाशिनी ।
शृणु देवि प्रवच्यामि¹ यथा सा चिन्त्यते परा ॥ ३ ॥
गुरुभक्तेन शुद्धेन साधकेन सुबुद्धिना ।
देवी पञ्चात्मकं सर्वं जगदेतच्चराचरम् ॥ ४ ॥
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।
पृथिवी ब्राह्मणी शक्तिर्जलं नारायणी तथा ॥ ५ ॥
तेजो रुद्रस्य रुद्राणी वायुरीशस्य चेश्वरी ।
माहेश्वरी तथाकाशं शक्तिर्महेश्वरस्य च ॥ ६ ॥ -
पञ्चदेवात्मकं पञ्च पञ्चमीपञ्चशक्तयः ।
या शक्तिः सर्वभूतानां जगच्चैतन्यरूपिणी ॥ ७ ॥
सा * एव पञ्चमीविद्या जगदाधाररूपिणी ।
सा एव हि जगत्सर्वं सा एव परमा कला ॥ ८ ॥
१ 'ख्या' ख पाठ ।
- सन्धेरभाव ऽप्येष. एवमग्रेपि बोध्यम् ।
तृतीयः पटलः । १७
नान्यत् परतरं देवि विद्यते तद्वहिष्कृते ।
पञ्चविंशतितत्त्वेन कूटके पञ्च देवताः ॥ ९ ॥
आदौ कामेश्वरी ज्ञेया ततो वज्रेश्वरी शुभा ।
तृतीया भगमाला च तुर्या त्रिपुरसुन्दरी ॥ १० ॥
श्रीमत्त्रिपुरसुन्दर्याश्चिन्तनीया परा कला ।
सा एव पञ्चमी शक्तिः परब्रह्मस्वरूपिणी ॥ ११ ॥
परमानन्दरूपं यज्जगतां कारणं महत् ।
तस्या देव्यास्तु तद्रूपमुदयास्तविवर्जितम् ॥ १२ ॥
स्थूलत्वे स्थूलरूपा सा सूक्ष्मत्वे सूक्ष्मरूपिणी ।
स्थूलसूक्ष्मप्रभेदेन जगत्कारणरूपिणी ॥ १३ ॥
योऽसौ विश्वेश्वरो देवो विश्वं व्याप्य स्थितश्च यः ।
सैव विश्वेश्वरी देवी व्यापकत्वेन संस्थिता ॥ १४ ॥
नित्या सा सुखरूपा च महासुखशुभप्रदा ।
तत्स्वरूपानन्दमयी परमानन्दरूपिणी ॥ १५ ॥
किं पुनः शक्तिरूपेण परब्रह्मस्वरूपिणी ।
तस्याः पुनः पुनः सृष्टिर्जायते लीयते सदा ॥ १६ ॥
तस्माच्छक्तिः प्रधाना च शक्त्या व्याप्तमिदं जगत् ।
सर्वदानन्दहृदयश्चाद्वैतानन्दपारगः ॥ १७ ॥
समयाचारसंपन्नो भोगी भोगपरायणः ।
सदा ज्ञानविशुद्धात्मा गुरुभक्तो जितेन्द्रियः ॥ १८ ॥
गन्धर्वरूपवान् भूत्वा पञ्चमीं समुपासयेत् ।
पृथिव्यां मान (वो?वः) श्रेष्ठो यदि जानाति पञ्चमीम् ॥ १९ ॥
१८ गन्धर्वतन्त्रे ।
शापभ्रष्टेन गन्धर्वो न नरो दैवयोगतः ।
यो जानाति महाविद्यां पञ्चकूटात्मिकां पराम् ॥ २० ॥
स भवेत् खचरो देवि षण्मासान्नात्र संशयः ।
सदा ज्ञानविशुद्धात्मा मोक्षभागी भवेन्नरः ॥ २१ ॥
भोगेन लभते मुक्तिं यदि जानाति पञ्चमीम् ।
पञ्चपञ्चाक्षरीं विद्यां योऽसौ जानाति साधकः ॥ २२ ॥
स पूज्यः सर्वलोकेषु स देवो नतु मानुषैः¹ ।
त्रिकूटमेवं² कूटेषु कूटमेकं त्रिपञ्चकम् ॥ २३ ॥
पञ्चपञ्चाक्षरी विद्या त्रिकूटा पञ्चकूटकैः ।
पञ्चविंशतितत्त्वेन वर्णरूपेण संस्थिता ॥ २४ ॥
एकवर्णे त्रिकूटे च त्रिकूटे पञ्च देवताः ।
एकवर्णे पञ्चदश देवताः परिकीर्तिताः ॥ २५ ॥
पञ्चविंशतितत्त्वेन त्रिकूटे पञ्चसंख्यया ।
पञ्चसप्ततिपूर्वाणि तेन तासां शतत्रयम् ॥ २६ ॥
पञ्चकूटान्विता विद्या परा सौभाग्यसुन्दरी ।
वर्णरूपेण सा देवी जगदाधाररूपिणी ॥ २७ ॥
अक्षरात् सर्वमुत्पन्नं जगदेतच्चराचरम् ।
नित्यमेकाक्षरं ब्रह्म अक्षरं परमं पदम् * ॥ २८ ॥
जप्यमेकाक्षरं ब्रह्म आदिकूटान्तमध्यगम् ।
जप्त्वा तत्साधयेत् सर्वं बहुजप्तेनं³ किं फलम् ॥ २९ ॥
तदेव परमं गुह्यं महासौभाग्यदायकम् ।
१ 'मानव' ख पाठः । २ 'क' क पाठः । ३ 'जाप्येन' ख पाठः ।
- सकृज्जप्त्वाक्षर मन्त्रं ब्रह्मभूयाय कल्पते । इत्यधिक. ख पाठः ।
तृतीयः पटलः । १६
तदेव पञ्चकूटं तु पञ्चतत्त्वेन पञ्चमी ॥ ३० ॥
† कामं विष्णुयुतं शक्तिर्माया शक्रश्च पार्वति ।
पश्चाद् देवि महामायाबीजं चान्ते नियोजयेत् ॥ ३१ ॥
‡ शिवबीजं समुद्धृत्य शक्तिबीजं तदन्तरम् ।
तदधः कामबीजं तु भूर्व्योमानलसंयुक्तम् ॥ ३२ ॥
चतुर्थस्वरसंयुक्तमर्द्धेन्दुबिन्दुभूषितम् ।
प्रथमं कामराजस्य कूटं त्रैलोक्यपूजितम् ॥ ३३ ॥
मध्यकूटं प्रवक्ष्यामि कामराजस्य मध्यगम् ।
अतिगुह्यतरं देवि स्नेहाद् वक्ष्यामि केवलम् ॥ ३४ ॥
✠ वियद्विष्णुयुतं देवि मादनं तदनन्तरम् ।
तदधो हंसबीजं तु इन्द्रबीजं समुद्धरेत् ॥ ३५ ॥
विष्णोः पदं वह्नियुतं मायाबीजं समुद्धरेत् ।
मध्यकूटमिदं प्रोक्तं महासौभाग्यदायकम् ॥ ३६ ॥
तुरीयं तु प्रवक्ष्यामि शृणु देवि सुदुर्लभम् ।
§ कामबीजं महेशानि शिवबीजं ततः परम् ॥ ३७ ॥
तदधो वायुबीजं तु इन्द्रबीजं नियोजयेत् ।
वियद् वह्निसमायुक्तं चतुर्थस्वरभूषितम् ॥ ३८ ॥
† काम. क विष्णुयुतोऽकारोपेत., शक्ति. ए माया ई शक्रो ल महामाया ह्री
इत्येतत्पञ्चमीविद्याया प्रथम वग्भवकूटम् ।
‡ मध्यकूटत्रय कामराजस्य । तत्र शिव ह शक्ति. स कामः क भू ल व्योमानलेत्या-
दिना ह्रीँ, इति कामराजस्य प्रथम कूटम् ।
✠ वियत् ह विष्णुयुतमकारोपेतम् । मादन क हस. ह इन्द्र. ल विष्णोः पदमि-
त्यादिना ह्रीं, इति कामराजस्य मध्यम कूटम् ।
§ काम. क शिव. ह वायु. य इन्द्र ल वियदित्यादिना ह्री, इति कामराजस्य
तृतीय कूटम् ।
अर्द्धेन्दुबिन्दुसंयुक्तं चतुर्थं कूटमुत्तमम् ।
शक्तिकूटं प्रवक्ष्यामि शृणु देवि सुदुर्लभम् ॥ ३६ ॥
यच्छ्रुत्वा साधकाः सर्वे लभन्ते मुक्तिमुत्तमाम् ।
- प्राणबीजं समुद्धृत्य कामबीजं समुद्धरेत् ॥ ४० ॥
इन्द्रबीजं तथा दे(वि?वी) क्रमेण विनियोजयेत् ।
सान्तं वह्निसमायुक्तं चतुर्थस्वरसंयुतम् ॥ ४१ ॥
नादबिन्दुकलायुक्तं शक्तिकूटं समुद्धरेत् ।
फलं चास्या विशेषेण साधनं च वरानने ॥ ४२ ॥
कथितव्यं मया देवि¹ संक्षेपात् कथ्यतेऽधुना ।
एषा विद्या महाविद्या गुह्याद् गुह्यतमा प्रिये ॥ ४३ ॥
भोगदा मोक्षदा चैव सर्वकामार्थसिद्धिदा ।
वाग्भवं प्रथमं कूटं शक्तिकूटं तु पञ्चमम् ॥ ४४ ॥
मध्यकूटत्रयं देवि काम(बी?रा)जं मनोहरम् ।
काम(बी?रा)जं प्रवक्ष्यामि कूटभेदेन तच्छृणु ॥ ४५ ॥
ज्ञात्वा तत्साधयेद् देवि असाध्यमपि भूतले ।
सौभाग्यं प्रथमं कूटं महासौभाग्यदायकम् ॥ ४६ ॥
त्रिकूटमेककूटेन काम(बी?रा)जं महत्पर²म् ।
एवं कूटत्रयेणैव नित्या सौभाग्यसुन्दरी ॥ ४७ ॥
एकत्र पञ्चकूटेन नित्यं कूटत्रयान्विता ।
दुर्लभा सर्वलोकेषु महासौभाग्यसुन्दरी ॥ ४८ ॥
एतस्या एव विद्याया मध्यकूटस्य मध्यमम् । - प्राणो ह काम क इन्द्र ल देवी स सान्तमित्यादिना ह्रीं इति शक्तिकूटम् ।
१ 'महादेवि' क पाठ । २ 'दम्' क पाठ ।
तृतीयः पटलः । ०२१
जप्त्वाऽनन्दमयो भूत्वा सर्वकाममुपालभेत् ॥ ४६ ॥
इयं स्वप्नावती नाम्ना विद्या त्रैलोक्यविश्रुता ।
आकर्षणकरी विद्या जगदाह्लादकारिणी ॥ ५० ॥
साधनं च प्रवक्ष्यामि यस्मादाकर्षणं भवेत् ।
स्वर्गे म(र्ते?र्त्ये) च पाताले नारीणां पुरुषस्य च ॥ ५१ ॥
नार्यो वश्या विशेषेण वशं (जा?या)ति जगत्त्रयम् ।
भोगदा मोक्षदा चैषा विद्या गन्धर्वसेविता ॥ ५२ ॥
महाभोगवती विद्या महदैश्वर्यदायिनी ।
तथा मधुमतीसिद्धिर्जायतेऽस्याः प्रसादतः ॥ ५३ ॥
बृहत्त्वं च लघुत्वं च दर्शनादर्शने तथा ।
प्रवेशं परकायस्य कामरूपो भवेद् ध्रुवम् ॥ ५४ ॥
पुंसां रूपं स्त्रियो रूपं यच्चान्यद्रूपमुत्तमम् ।
सर्वं तत् परमं रूपं तस्या एव न संशयः ॥ ५५ ॥
कान्तिस्तुष्टिस्तथा पुष्टिः श्रद्धा लज्जा दया घृणा ।
धृतिः शान्तिस्तथा ऋद्धिः सिद्धिर्बुद्धिर्मतिः क्षमा ॥ ५६ ॥
महामाया महाबुद्धिर्महाविद्या महोदया ।
महामहत्करी विद्या ब्रह्मविद्यैव केवला ॥ ५७ ॥
महाभूतदिने नक्तं श्मशाने यदि साधकः ।
सहस्रैकप्रमाणेण किं न सिध्यति भूतले ॥ ५८ ॥
यो जपेत् पञ्चमीं विद्यां परां त्रैलोक्यमातृकाम् ।
स नरो देवदेवेशो महादेव इवापरः ॥ ५९ ॥
भोगारमा लभते भुक्तिं नानाभोगेन केवलम् ।
भुनक्ति बहुलान् भोगान् रसान्नानाविधानपि ॥ ६० ॥
यद् ब्रुवन्त्यक्षरं लोके भुनक्ति बहुलं सुखम् ।
शून्यागारे विहारे च चिन्त(येन्नो?यन्त्यो) जपेत्पराम् ॥६१॥
आकर्षणं भवेत्तस्य सर्वकामं ततो लभेत् ।
प्रथमानन्दहृदयो द्वितीय(म?मु)पभोगवान् ॥ ६२ ॥
तृतीयमुपभोगेन चतुर्थमपि कामयेत् ।
पञ्चमं प्रथमं पुण्यं मन्त्रसिद्धिकरं परम् ॥ ६३ ॥
पञ्चमं तु विशेषेण भोगयेत् कामयेत् सदा ।
पञ्चमाभ्यसनाद्धीरः पूजाया लभते फलम् ॥ ६४ ॥
कुण्डगोलोद्भवैर्द्रव्यैः स्वयम्भूकुसुमेन च ।
रोचनाकुंकुमाभ्यां च जपमालां प्रलेपयेत् ॥ ६५ ॥
कर्पूरागुरुकस्तूरीरोचनाकुंकुमेन च ।
जपमालामुपस्कृत्य प्रतिष्ठां विधिवच्चरेत् ॥ ६६ ॥
तद्द्रवै रचताञ्छुद्वान् सं(श्रा?स्रा)व्य च पुनः पुनः ।
वारिणा शोधितं कृत्वा सिन्दूरे निक्षिपेत् ततः ॥ ६७ ॥
पटे चित्रमये शुद्धे नक्तं यः पूजयेन्नरः ।
जप्त्वा विद्यां च मालायां सर्वकाममुपालभेत् ॥ ६८ ॥
आनीय कन्यकां दिव्यां प्रमदां यौवनोन्नताम् ।
उचितां मूलमन्त्रेण सुशीलां चारुहासि(हीं?नीम् ) ॥६६॥
सर्वदानन्दहृदयां घृणालज्जाविवर्जिताम् ।
गुरुभक्तां सुवेशां च देवतापूजने रताम् ॥ ७० ॥
तस्या गात्रे न्यसेन्मन्त्री पञ्चकामाञ् शरानपि ।
तृतीयः पटलः । • २३
पञ्चकूटं न्यसेन्मन्त्री पञ्चाशन्मातृकां न्यसेत् ॥ ७१ ॥
दिव्यमालां समादाय साधको विजितेन्द्रियः ।
सहस्रैकप्रमाणे न जपेत् स्वप्नावतीं ततः ॥ ७२ ॥
अनेनैव विधानेन भवेदाकर्षणं महत् ।
तस्यास्तु मदनागारे पूजयेत् परमेश्वरीम् ॥ ७३ ॥
- सर्वसंक्षोभिणीं मुद्रां बद्ध्वा योनिं प्रचालयेत् ।
कामेश्वरीस्वरूपां तां चिन्तयेत् साधकोत्तमः ॥ ७४ ॥
कामेश्वरस्वरूपं च आत्मानमपि भावयन् ।
स्वयमक्षोभितो भूत्वा साधकः पञ्चमं चरन् ॥ ७५ ॥
तस्याः पुष्पं स्वयं यावद् १ रक्षणीयं प्रयत्नतः ।
ताम्बूलगन्धपुष्पैश्च प्रत्यहं पूजयेच्च ताम् ॥ ७६ ॥
नानारसान्नपानेन तृप्तिमाचर्य यत्नतः ।
वस्त्रालंकारभूषाद्यैस्तस्याः सन्तोषमानयेत् ॥ ७७ ॥
यथाकाले तथा पुष्पं स्वयं तद्गोप्यरूपतः ।
गृहीत्वा तु प्रयत्नेन स्वयंभूकुसुमं हि तत् ॥ ७८ ॥
स्वयंभूकुसुमं दिव्यं त्रैलोक्येष्वपि दुर्लभम् ।
प्राप्नोति साधकश्रेष्ठो दुर्लभं साधयेद्भुवि ॥ ७९ ॥
स्वयंभूपुष्पयोगेन साक्षतेन सदार्चयेत् ।
विद्यां स्वप्नावतीं जप्त्वा क्षिप्रमाकर्षणं भवेत् ॥ ८० ॥
देवताश्च ग्रहा नागा दानवा राक्षसाश्च ये ।
- तल्लक्षणं-यथा मध्यमामध्यगे कृत्वा कनिष्ठाङ्गुष्ठरोधितै । तर्जन्यौ दण्डवत् कृत्वा
मध्यमोपर्यनामिके । क्षोभाभिधाना मुद्रेयं सर्वसंक्षोभकारिणी ॥ इति ।
१ 'प्राग्वत्' ख पाठ ।
राजानश्च स्त्रियः सर्वा नित्यं वश्या भवन्ति हि ॥ ८१ ॥
स्वयंभूकुसुमैः पूजां प्रत्यहं यः समाचरेत् ।
जप्त्वा वै दिव्यमालायां सर्वकाममुपालभेत् ॥ ८२ ॥
पार्वत्युवाच
पुराप्येकादशी विद्या भवता कथिता मयि ।
नाराधिता मया यस्मात्तस्मान्मृत्युवशं गता ॥ ८३ ॥
सारात्सारतरां विद्यां श्रोतुमिच्छामि सांप्रतम् ।
ईश्वर उवाच
एकादशाक्षरी विद्या भैरव्याः कथिता पुरा ॥ ८४ ॥
इदानीं तव प्रीत्यर्थं कथयामि तथा पराम् ।
ꕤमादनं गोत्रभि(च्छा?त्सा)न्तो रेफमायार्धचन्द्रवान् ।८५।
नादबिन्दुसमायुक्तो वाग्भवः परमेश्वरि ।
ब्रह्मा च गगनं शक्रो नकुलीशोऽनलः शशी ॥ ८६ ॥
माया बिन्दुः सनादेन काम(बी?रा)जं समुद्धरेत् ।
शक्तिर्मादनशक्रश्च हरो वह्नीन्दुमायया ॥ ८७ ॥
कलानादसमाक्रान्तः कथितः कामदो मनुः ।
यस्मै कस्मै न दातव्यो बान्धवाय च पार्वति ॥
मनुर्विमृ(ष्य?श्य)दातव्यो ज्येष्ठपुत्राय धीमते ॥ ८८ ॥
──────── ○ ────────
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे पञ्चमीविद्योद्धारप्रयोगादि-
निरूपणं नाम तृतीयः पटलः ॥ ३ ॥
ꕤ मादन क गोत्रभित् ल सान्तेत्यादिना ह्रीं, इति वाग्भवम् । ब्रह्मा क गगन ह शक्र ल नकु-
लीश इत्यादिना ह्रीं, इति कामराजम् । शक्ति स मादन क शक्र ल हर इत्यादिना ह्रीं, इति
शक्तिकूटम् । इयमेकादशाक्षरी भैरवी विद्या ।
चतुर्थः पटलः ।
——————
पार्वत्युवाच
देवदेव महादेव लोकानां हितकारक ।
यत्सूचितं पुरा नाथ किमर्थं न प्रकाशितम् ॥ १ ॥
राजराजेश्वरीदेव्यास्त्रिपुरायाः शुभावहम् ।
कवचं यदि मे प्रीतः कथयस्व वृषध्वज ॥ २ ॥
ईश्वर उवाच
लक्षवारसहस्राणि वारितासि पुनःपुनः १।
स्त्रीस्वभावान्महादेवि पुनस्त्वं परिपृच्छसि ॥ ३ ॥
अत्यन्तं दुर्लभं गुह्यं कवचं सर्वकामदम् ।
तथापि कथयाम्यद्य तव प्रीत्या वरानने ॥ ४ ॥
त्रैलोक्यमोहनं नाम त्रिषु लोकेषु दुर्लभम् ।
सर्वसौभाग्यजननं भोगमोक्षफलप्रदम् ॥ ५ ॥
यद्धृत्वा दानवान् विष्णुर्निजघान सुदारुणान् ।
लोकान् वितनुते ब्रह्मा संहर्त्ताहं यतः प्रिये ॥ ६ ॥
धनाधिपः कुबेरोऽपि यतः सर्वे दिगीश्वराः³।
नैतत्परतरं गुह्यं प्रतिजाने हि² पार्वति ॥ ७ ॥
वेदशास्त्रपुराणेषु सारमेतद्वरानने ।
पुत्रदारादिसहितं शिरो देयं कथंचन ॥ ८ ॥
न देयं कवचं गुह्यं प्राणैः कण्ठगतैरपि ।
१ 'र' क पाठ । २ 'जानीहि' क पाठ । ३ 'वो' क. पाठ. ।
शृणु सर्वाङ्गसुभगे दिव्यं कवचमुत्तमम् ॥ ९ ॥
राजराजेश्वरीदेव्याः कवचस्य ऋषिः शिवः ।
छन्दो विराड् देवता च महात्रिपुरसुन्दरी ॥ १० ॥
हंसः शक्तिः परा बीजं रमाबीजं च कीलकम् ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ ११ ॥
त्रिपुरा त्रिविधा पातु मम सर्वार्थसिद्धये ।
ऐंक्लींसौः वदने बाला पातु सर्वार्थसिद्धिदा ॥ १२ ॥
हेंस्त्रैं-हसकलरी-हस्रौः कण्ठे पातु महादेवी श्रीमत्त्रिपुरभैरवी
हृदयेऽव्यान्महेशानी महात्रिपुरसुन्दरी ॥ १३ ॥
राजराजेश्वरीविद्या षोडशी या महोदया ।
ब्रह्मरन्ध्रे सदा पातु कमला परमेश्वरी ॥ १४ ॥
गिरिराजसुता देवी पातु नित्यं च शीर्षके ।
कामबीजं ललाटेऽव्याद्वाग्बीजं कण्ठदेशके ॥ १५ ॥
सौः पातुं मे तथा पार्श्वे प्रणवो बाहुमूलके ।
शंभुप्रिया सदा पातु बाह्वोर्दक्षिणसव्ययोः ॥ १६ ॥
विष्णुप्रिया सदा पातु मणिबन्धद्वये तथा ।
पार्वतीशः करे पातु नेत्रे नक्षत्रवल्लभः ॥ १७ ॥
श्रोत्रे रतिप्रियः पातु घ्राणे शक्रः सदावतु ।
पृष्ठदेशे सदा पातु पार्वती परमेश्वरी ॥ १८ ॥
हँसौः श्वासे चैव निःश्वासे पातां परमसिद्धिदौ ।
कामः कामे सदा पातु पिनाकी लिङ्गगोचरे ॥ १९ ॥
१ ‘हैंस्त्र’ ‘हेस्रौ क पाठ । २ ‘तुन’ ख पाठ.। ३ ‘हुद’ ख पाठः । ४ ‘हेसो,’ क, पाठ.।
चतुर्थः पटलः । २७
पृथ्वी सर्वा(श?स)के पातु हृल्लेखा हृदयेऽवतु ।
स्तनौ विष्णुप्रिया पातु कुचौ च स पुरान्तकः ॥ २० ॥
नेत्रे वज्रधरः पातु माया वै जठरेऽवतु ।
पदद्वन्द्वे च सौः पातु ऐं जिह्वानिलयेऽवतु ॥ २१ ॥
ह्रींकारः सर्वदा पातु दन्तोष्ठयोर्वरानने ।
शीर्षादिपादपर्यन्तं सर्वाङ्गं भुवनेश्वरी ॥ २२ ॥
रक्षाहीनं च यत् स्थानं वर्जितं कवचेन तु ।
तत्सर्वं परमेशानि पातु नित्यं हरिप्रिया ॥ २३ ॥
आधारे वाग्भवः पातु कामराजो हृदि प्रिये ।
शक्तिकूटं तथा पातु भ्रुवोर्मध्ये च पार्वति ॥ २४ ॥
शीर्षे कूटत्रयं पातु ललाटे सर्वमन्त्रकः ।
अष्टाविंशतिवर्णोयं मुखवृत्ते सदावतु ॥ २५ ॥
षोडशीयं महाविद्या ब्रह्मविद्यैव केवला ।
भोगमोक्षप्रदा देवी केवलात्मस्वरूपिणी ॥ २६ ॥
कामेश्वरी ललाटेऽव्यान्मुखे तु भगमालिनी ।
दक्षनेत्रे सदा पातु नित्यं (दीक्षा?क्लिन्ना) महोदया ॥ २७॥
भीरुण्डा वामनेत्रेऽव्यात् कर्णौ वै वह्निवासिनी ।
महा(विद्ये?वज्रे)श्वरी पातु वामकर्णप्रदेशके ॥ २८ ॥
दक्षनासापुटे पातु शिवदूती महेश्वरी ।
वामनासापुटे पातु त्वरिता सर्वसिद्धिदा ॥ २६ ॥
दक्षगण्डे सदा पातु नित्यं मां कुलसुन्दरी ।
१ ‘ति’ ख पाठः ।
त्रैलोक्यविमला पातु वामगण्डप्रदेशके ॥ ३० ॥
ओष्ठे॑ नीलपताकाव्याद् अधरे विजयावतु ।
ऊर्ध्वदन्ते सदा पातु देवी मां सर्वमङ्गला ॥ ३१ ॥
अधोदन्तप्रदेशेऽव्यानित्यं ज्वालांशुमालिनी ।
विचित्रा सर्वदा पातु नित्यं मूर्धनि पार्वति ॥ ३२ ॥
आसां प्रधानभूता या महात्रिपुरसुन्दरी ।
षोडशी सा सदा पातु मुखे वै परमेश्वरी ॥ ३३ ॥
पृष्ठदेशे सदा पान्तुं गुरवस्त्रिविधाश्च ते ।
पादयोः सर्वदा पातु त्रिपुरा परमेश्वरी ॥ ३४ ॥
जानुदेशे सदा पातु देवी मां त्रिपुरेश्वरी ।
ऊरुद्वये सदा पातु देवी त्रिपुरसुन्दरी ॥ ३५ ॥
त्रिपुरवासिनी देवी कटिदेशे सदावतु ।
त्रिपुराश्रीश्च मां नित्यं गुह्यदेशे सदावतु ॥ ३६ ॥
मूलाधारे सदा पातु देवी त्रिपुरमालिनी ।
नाभौ त्रिपुरसिद्धाव्यात् त्रिपुरा(च?म्बा) सदा हृदि ॥३७
ब्रह्मरन्ध्रे सदा पातु महात्रिपुरसुन्दरी ।
आसां तु मन्त्रबीजानि प्रोक्तस्थानेषु विन्यसेत् ॥ ३८
पाषाण्डगणमध्ये तु बुद्धो मां परिरक्षतु ।
ब्रह्माव्याद् ब्रह्मसंघांते शिवो मां योगसिद्धये ॥ ३६ ॥
ज्ञाने मां भास्करः पातु मोक्षे नारायणः प्रभुः ।
या शक्तिः सर्वभूतानां विद्याविद्येति गीयते ॥ ४० ॥
सा शक्तिः सर्वदा पातु स्त्रीपुत्रधनसंपदि ।
चतुर्थः पटलः । • २६
अणिमा पश्चिमे पातु लघिमा चोत्तरेऽवतु ॥ ४१ ॥
पूर्वतः पातु महिमा ईशिता दक्षिणेऽवतु ।
वशिताँ वायुनिलये ईशे प्राकाम्यसिद्धिदा ॥ ४२ ॥
भुक्तिसिद्धिस्तथाग्नेये पात्विच्छासिद्धी राक्षसे ।
अधः पातु प्राप्तिसिद्धिर्मोक्षसिद्धिस्तथोर्ध्वके ॥ ४३ ॥
ब्रह्माणी संध्ययोः पातु माहेश्वरी दिवावतु ।
मध्याह्ने पातु कौमारी रात्रौ च शक्रवल्लभा ॥ ४४ ॥
ब्राह्मे मुहूर्त्तके पातु वैष्णवी सर्वसिद्धिदा ।
निशीथे पातु वाराही चामुण्डा श(क्र?त्रु)विग्रहे ॥ ४५ ॥
महोत्साहे महालक्ष्मीः पातु नित्यं महेश्वरी ।
शीर्षे संक्षोभिणी पातु (तारि?द्रावि)णी हृदयेऽवतु ॥४६॥
आकर्षिणी शिखायां तु कवचे पातु वश्यदा ।
उन्मादिनी तथा नेत्रे सर्वगात्रे महाङ्कुशा ॥ ४७ ॥
त्रिखण्डा भुजयोः पातु बीजे बीजस्वरूपिणी ।
खेचरी पादयोः पातु योनिमुद्रा च सर्वतः ॥ ४८ ॥
(स?का)माकर्षणरूपाव्यात् सर्दाकर्षणकर्मणि !
बुद्ध्याकर्षणरूपांऽव्यात् परबुद्धिविकर्षणे ॥ ४६ ॥
अहंकारे सदा पातु अहंकारविकर्षणी ।
शब्दाकर्षणरूपाव्याच्छब्दाकर्षणकर्मणि ॥ ५० ॥
स्पर्शाकर्षणरूपा मां पातु स्पर्शनकर्मणि ।
रूपाकर्षणरूपाव्यात् पररूपविकर्षणे ॥ ५१ ॥
१ ‘स्वा’ क पाठ. । २ ‘स्वा’ क. पाठ । ३ ‘कामा’ ख पाठः ।
रसाकर्षणरूपाव्याद् रसे वै परमेश्वरी ।
गन्धाकर्षणरूपा मां पातु गन्धे च सर्वदा ॥ ५२ ॥
चित्ताकर्षणरूपा मां पायादाकृष्टिकर्मणि ।
धैर्याकर्षणरूपा तु पातु धैर्यविधौ सदा ॥ ५३ ॥
स्मृत्याकर्षणरूपाव्याज्ज्ञानाकर्षणकर्मणि ।
नामाकर्षणरूपाव्यान्नामव्याहरणे सदा ॥ ५४ ॥
बीजाकर्षणरूपा मां सर्वबीजप्ररोपणे ।
परजीवाकर्षणे पात्वात्माकर्षणरूपिणी ॥ ५५ ॥
अमृताकर्षिणी पातु अमृतीकरणे सदा ।
शरीराकर्षिणी पातु सदा शरीररक्षणे ॥ ५६ ॥
अनङ्गकुसुमा पातु पुरतः सर्वकर्मणि ।
अनङ्गमेखला पातु पृष्ठतः परमेश्वरी ॥ ५७ ॥
अनङ्गमदना पातु वामतो मे महेश्वरी ।
दक्षिणे सर्वदा पातु अनङ्गमदनातुरा ॥ ५८ ॥
नित्यं चानङ्गरेखाव्यादूर्ध्वं मम सदा प्रिये ।
अनङ्गवेगिनी पातु अधो मे परमेश्वरी ॥ ५९ ॥
तथानङ्गांकुशा नित्यं पातु मां दिक्षु सर्वदा ।
अनङ्गमालिनी पातु विदिक्षु मम सर्वदा ॥ ६० ॥
सर्वसंक्षोभिणी चोध्र्वे पातु मां जगदीश्वरी ।
सर्वविद्राविणी चाधो दिक्षु सर्वविकर्षणी ॥ ६१ ॥
सर्वाह्लादकरी शक्तिर्विदिक्षु परिरक्षतु ।
सर्वसंमोहिनी पातु समन्तात् परमेश्वरी ॥ ६२ ॥
अन्तर्बहिश्च मां पातु सर्वस्तम्भनकारिणी ।
तथैव पातु मां नित्यमाकाशे सर्वजृम्भणी ॥ ६३ ॥
पाताले चैव मां पातु सर्ववश्यकरी तथा ।
देवलोके सदा पातु सर्वरञ्जनकारिणी ॥ ६४ ॥
सर्वोन्मदनशक्तिर्मां भूतले परिरक्षतु ।
सर्वार्थसाधनी शक्तिः पायाद्भूतगणालये ॥ ६५ ॥
सिद्धानामालये पातु सर्वसंपत्तिपूरणी ।
राक्षसानां च यक्षाणां सर्वमन्त्रमयी गृहे ॥ ६६ ॥
असुराणां निवासे तु सर्वद्वन्द्वक्षयंकारी ।
सर्वसिद्धिप्रदा देवी पातु राजगृहे सदा ॥ ६७ ॥
सर्वसंपत्प्रदा पातु स्वगृहे सर्वसंपदि ।
सर्वप्रियङ्करी पातु सर्वलोकेषु सर्वदा ॥ ६८ ॥
सर्वमङ्गलकार्येऽव्यात् सर्वमङ्गलकारिणी ।
सर्वकामप्रदा देवी सर्वकार्येषु सर्वदा ॥ ६९ ॥
ऐश्वर्ये सर्वदा पातु सर्वैश्वर्यप्रदायिनी ।
सर्वमृत्युप्रशमनी पायान्नित्यं ममालये ॥ ७० ॥
सर्वारम्भे सदा पातु सर्वविघ्नविनाशिनी ।
देहसौन्दर्यकाले तु पातु सर्वाङ्गसुन्दरी ॥ ७१ ॥
सर्वसौभाग्यकाले तु सर्वसौभाग्यदायिनी ।
सर्वज्ञा च गृहे पातु सर्वशक्तिमयी रणे ॥ ७२ ॥
सर्वैश्वर्यप्रदा मार्गे सर्वज्ञानमयी जले ।
१ 'कर्मणि' क. पाठ. । २ 'सर्वदुःखविमोचिनी' क. पाठः ।