सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 101, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 101

अर्द्धेन्दुबिन्दुसंयुक्तं चतुर्थं कूटमुत्तमम् ।
शक्तिकूटं प्रवक्ष्यामि शृणु देवि सुदुर्लभम् ॥ ३६ ॥
यच्छ्रुत्वा साधकाः सर्वे लभन्ते मुक्तिमुत्तमाम् ।

  • प्राणबीजं समुद्धृत्य कामबीजं समुद्धरेत् ॥ ४० ॥
    इन्द्रबीजं तथा दे(वि?वी) क्रमेण विनियोजयेत् ।
    सान्तं वह्निसमायुक्तं चतुर्थस्वरसंयुतम् ॥ ४१ ॥
    नादबिन्दुकलायुक्तं शक्तिकूटं समुद्धरेत् ।
    फलं चास्या विशेषेण साधनं च वरानने ॥ ४२ ॥
    कथितव्यं मया देवि¹ संक्षेपात् कथ्यतेऽधुना ।
    एषा विद्या महाविद्या गुह्याद् गुह्यतमा प्रिये ॥ ४३ ॥
    भोगदा मोक्षदा चैव सर्वकामार्थसिद्धिदा ।
    वाग्भवं प्रथमं कूटं शक्तिकूटं तु पञ्चमम् ॥ ४४ ॥
    मध्यकूटत्रयं देवि काम(बी?रा)जं मनोहरम् ।
    काम(बी?रा)जं प्रवक्ष्यामि कूटभेदेन तच्छृणु ॥ ४५ ॥
    ज्ञात्वा तत्साधयेद् देवि असाध्यमपि भूतले ।
    सौभाग्यं प्रथमं कूटं महासौभाग्यदायकम् ॥ ४६ ॥
    त्रिकूटमेककूटेन काम(बी?रा)जं महत्पर²म् ।
    एवं कूटत्रयेणैव नित्या सौभाग्यसुन्दरी ॥ ४७ ॥
    एकत्र पञ्चकूटेन नित्यं कूटत्रयान्विता ।
    दुर्लभा सर्वलोकेषु महासौभाग्यसुन्दरी ॥ ४८ ॥
    एतस्या एव विद्याया मध्यकूटस्य मध्यमम् ।
  • प्राणो ह काम क इन्द्र ल देवी स सान्तमित्यादिना ह्रीं इति शक्तिकूटम् ।
    १ 'महादेवि' क पाठ । २ 'दम्' क पाठ ।