गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 103, कुल 446 में से
संदर्भ में पढ़ेंभुनक्ति बहुलान् भोगान् रसान्नानाविधानपि ॥ ६० ॥
यद् ब्रुवन्त्यक्षरं लोके भुनक्ति बहुलं सुखम् ।
शून्यागारे विहारे च चिन्त(येन्नो?यन्त्यो) जपेत्पराम् ॥६१॥
आकर्षणं भवेत्तस्य सर्वकामं ततो लभेत् ।
प्रथमानन्दहृदयो द्वितीय(म?मु)पभोगवान् ॥ ६२ ॥
तृतीयमुपभोगेन चतुर्थमपि कामयेत् ।
पञ्चमं प्रथमं पुण्यं मन्त्रसिद्धिकरं परम् ॥ ६३ ॥
पञ्चमं तु विशेषेण भोगयेत् कामयेत् सदा ।
पञ्चमाभ्यसनाद्धीरः पूजाया लभते फलम् ॥ ६४ ॥
कुण्डगोलोद्भवैर्द्रव्यैः स्वयम्भूकुसुमेन च ।
रोचनाकुंकुमाभ्यां च जपमालां प्रलेपयेत् ॥ ६५ ॥
कर्पूरागुरुकस्तूरीरोचनाकुंकुमेन च ।
जपमालामुपस्कृत्य प्रतिष्ठां विधिवच्चरेत् ॥ ६६ ॥
तद्द्रवै रचताञ्छुद्वान् सं(श्रा?स्रा)व्य च पुनः पुनः ।
वारिणा शोधितं कृत्वा सिन्दूरे निक्षिपेत् ततः ॥ ६७ ॥
पटे चित्रमये शुद्धे नक्तं यः पूजयेन्नरः ।
जप्त्वा विद्यां च मालायां सर्वकाममुपालभेत् ॥ ६८ ॥
आनीय कन्यकां दिव्यां प्रमदां यौवनोन्नताम् ।
उचितां मूलमन्त्रेण सुशीलां चारुहासि(हीं?नीम् ) ॥६६॥
सर्वदानन्दहृदयां घृणालज्जाविवर्जिताम् ।
गुरुभक्तां सुवेशां च देवतापूजने रताम् ॥ ७० ॥
तस्या गात्रे न्यसेन्मन्त्री पञ्चकामाञ् शरानपि ।