गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 107, कुल 446 में से
संदर्भ में पढ़ेंशृणु सर्वाङ्गसुभगे दिव्यं कवचमुत्तमम् ॥ ९ ॥
राजराजेश्वरीदेव्याः कवचस्य ऋषिः शिवः ।
छन्दो विराड् देवता च महात्रिपुरसुन्दरी ॥ १० ॥
हंसः शक्तिः परा बीजं रमाबीजं च कीलकम् ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ ११ ॥
त्रिपुरा त्रिविधा पातु मम सर्वार्थसिद्धये ।
ऐंक्लींसौः वदने बाला पातु सर्वार्थसिद्धिदा ॥ १२ ॥
हेंस्त्रैं-हसकलरी-हस्रौः कण्ठे पातु महादेवी श्रीमत्त्रिपुरभैरवी
हृदयेऽव्यान्महेशानी महात्रिपुरसुन्दरी ॥ १३ ॥
राजराजेश्वरीविद्या षोडशी या महोदया ।
ब्रह्मरन्ध्रे सदा पातु कमला परमेश्वरी ॥ १४ ॥
गिरिराजसुता देवी पातु नित्यं च शीर्षके ।
कामबीजं ललाटेऽव्याद्वाग्बीजं कण्ठदेशके ॥ १५ ॥
सौः पातुं मे तथा पार्श्वे प्रणवो बाहुमूलके ।
शंभुप्रिया सदा पातु बाह्वोर्दक्षिणसव्ययोः ॥ १६ ॥
विष्णुप्रिया सदा पातु मणिबन्धद्वये तथा ।
पार्वतीशः करे पातु नेत्रे नक्षत्रवल्लभः ॥ १७ ॥
श्रोत्रे रतिप्रियः पातु घ्राणे शक्रः सदावतु ।
पृष्ठदेशे सदा पातु पार्वती परमेश्वरी ॥ १८ ॥
हँसौः श्वासे चैव निःश्वासे पातां परमसिद्धिदौ ।
कामः कामे सदा पातु पिनाकी लिङ्गगोचरे ॥ १९ ॥
१ ‘हैंस्त्र’ ‘हेस्रौ क पाठ । २ ‘तुन’ ख पाठ.। ३ ‘हुद’ ख पाठः । ४ ‘हेसो,’ क, पाठ.।