सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 104, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 104

तृतीयः पटलः । • २३
पञ्चकूटं न्यसेन्मन्त्री पञ्चाशन्मातृकां न्यसेत् ॥ ७१ ॥
दिव्यमालां समादाय साधको विजितेन्द्रियः ।
सहस्रैकप्रमाणे न जपेत् स्वप्नावतीं ततः ॥ ७२ ॥
अनेनैव विधानेन भवेदाकर्षणं महत् ।
तस्यास्तु मदनागारे पूजयेत् परमेश्वरीम् ॥ ७३ ॥

  • सर्वसंक्षोभिणीं मुद्रां बद्ध्वा योनिं प्रचालयेत् ।
    कामेश्वरीस्वरूपां तां चिन्तयेत् साधकोत्तमः ॥ ७४ ॥
    कामेश्वरस्वरूपं च आत्मानमपि भावयन् ।
    स्वयमक्षोभितो भूत्वा साधकः पञ्चमं चरन् ॥ ७५ ॥
    तस्याः पुष्पं स्वयं यावद् १ रक्षणीयं प्रयत्नतः ।
    ताम्बूलगन्धपुष्पैश्च प्रत्यहं पूजयेच्च ताम् ॥ ७६ ॥
    नानारसान्नपानेन तृप्तिमाचर्य यत्नतः ।
    वस्त्रालंकारभूषाद्यैस्तस्याः सन्तोषमानयेत् ॥ ७७ ॥
    यथाकाले तथा पुष्पं स्वयं तद्गोप्यरूपतः ।
    गृहीत्वा तु प्रयत्नेन स्वयंभूकुसुमं हि तत् ॥ ७८ ॥
    स्वयंभूकुसुमं दिव्यं त्रैलोक्येष्वपि दुर्लभम् ।
    प्राप्नोति साधकश्रेष्ठो दुर्लभं साधयेद्भुवि ॥ ७९ ॥
    स्वयंभूपुष्पयोगेन साक्षतेन सदार्चयेत् ।
    विद्यां स्वप्नावतीं जप्त्वा क्षिप्रमाकर्षणं भवेत् ॥ ८० ॥
    देवताश्च ग्रहा नागा दानवा राक्षसाश्च ये ।

  • तल्लक्षणं-यथा मध्यमामध्यगे कृत्वा कनिष्ठाङ्गुष्ठरोधितै । तर्जन्यौ दण्डवत् कृत्वा
    मध्यमोपर्यनामिके । क्षोभाभिधाना मुद्रेयं सर्वसंक्षोभकारिणी ॥ इति ।
    १ 'प्राग्वत्' ख पाठ ।