गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 108, कुल 446 में से
संदर्भ में पढ़ेंचतुर्थः पटलः । २७
पृथ्वी सर्वा(श?स)के पातु हृल्लेखा हृदयेऽवतु ।
स्तनौ विष्णुप्रिया पातु कुचौ च स पुरान्तकः ॥ २० ॥
नेत्रे वज्रधरः पातु माया वै जठरेऽवतु ।
पदद्वन्द्वे च सौः पातु ऐं जिह्वानिलयेऽवतु ॥ २१ ॥
ह्रींकारः सर्वदा पातु दन्तोष्ठयोर्वरानने ।
शीर्षादिपादपर्यन्तं सर्वाङ्गं भुवनेश्वरी ॥ २२ ॥
रक्षाहीनं च यत् स्थानं वर्जितं कवचेन तु ।
तत्सर्वं परमेशानि पातु नित्यं हरिप्रिया ॥ २३ ॥
आधारे वाग्भवः पातु कामराजो हृदि प्रिये ।
शक्तिकूटं तथा पातु भ्रुवोर्मध्ये च पार्वति ॥ २४ ॥
शीर्षे कूटत्रयं पातु ललाटे सर्वमन्त्रकः ।
अष्टाविंशतिवर्णोयं मुखवृत्ते सदावतु ॥ २५ ॥
षोडशीयं महाविद्या ब्रह्मविद्यैव केवला ।
भोगमोक्षप्रदा देवी केवलात्मस्वरूपिणी ॥ २६ ॥
कामेश्वरी ललाटेऽव्यान्मुखे तु भगमालिनी ।
दक्षनेत्रे सदा पातु नित्यं (दीक्षा?क्लिन्ना) महोदया ॥ २७॥
भीरुण्डा वामनेत्रेऽव्यात् कर्णौ वै वह्निवासिनी ।
महा(विद्ये?वज्रे)श्वरी पातु वामकर्णप्रदेशके ॥ २८ ॥
दक्षनासापुटे पातु शिवदूती महेश्वरी ।
वामनासापुटे पातु त्वरिता सर्वसिद्धिदा ॥ २६ ॥
दक्षगण्डे सदा पातु नित्यं मां कुलसुन्दरी ।
१ ‘ति’ ख पाठः ।