सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 97, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 97

तृतीयः पटलः ।
देव्युवाच
देवदेव जगन्नाथ भक्तानामार्तिनाशन ।
पञ्चपञ्चाक्षरीं विद्यां पञ्चमीं सर्वकामदाम् ॥ १ ॥
अधुना कथयेशान समग्रां पापनाशिनीम् ।
ईश्वर उवाच
दुर्लभा पञ्चमी विद्या पञ्चकूटात्मिका शुभा ॥ २ ॥
भुक्तिमुक्तिप्रदा शुद्धा सुखदा दुःखनाशिनी ।
शृणु देवि प्रवच्यामि¹ यथा सा चिन्त्यते परा ॥ ३ ॥
गुरुभक्तेन शुद्धेन साधकेन सुबुद्धिना ।
देवी पञ्चात्मकं सर्वं जगदेतच्चराचरम् ॥ ४ ॥
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।
पृथिवी ब्राह्मणी शक्तिर्जलं नारायणी तथा ॥ ५ ॥
तेजो रुद्रस्य रुद्राणी वायुरीशस्य चेश्वरी ।
माहेश्वरी तथाकाशं शक्तिर्महेश्वरस्य च ॥ ६ ॥ -
पञ्चदेवात्मकं पञ्च पञ्चमीपञ्चशक्तयः ।
या शक्तिः सर्वभूतानां जगच्चैतन्यरूपिणी ॥ ७ ॥
सा * एव पञ्चमीविद्या जगदाधाररूपिणी ।
सा एव हि जगत्सर्वं सा एव परमा कला ॥ ८ ॥

१ 'ख्या' ख पाठ ।

  • सन्धेरभाव ऽप्येष. एवमग्रेपि बोध्यम् ।