गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यद् गुह्यं परमाद्भुतम् ॥ २६ ॥
न वक्तव्यं त्वया किंचिज्जनेषु कथितं मया ।
अपृथक्त्वशरीरत्वाद् वक्ष्यामि तव सुव्रते ॥ २७ ॥
यदुक्तं ते मया तन्त्रं त्रिविधं त्रिगुणात्मकम् ।
तामसं कुत्र संप्रोक्तं राजसं चापि कुत्रचित् ॥ २८ ॥
सात्त्विकं तत्र कुत्रापि धीमांस्तस्मात् तदुद्धरेत् ।
तामसं नरकायैव स्वर्गाय राजसं प्रिये ॥ २६ ॥
सात्त्विकं मोक्षदं प्राहुस्तुरीयं निष्फलं शिवे ।
शास्त्राणि चैव गिरिजे तामसानि निबोध मे ॥ ३० ॥
तामसानि पुराणानि तन्त्राणि तानि च प्रिये ।
स्वर्गमोक्षविहीनानि तानि यत्नाद्विवर्जयेत् ॥ ३१ ॥
इ(य?म) मर्थं पुरा देवि पृष्टवान् देवकीसुतः ।
मां प्रसाद्य तपस्तप्त्वा भोगेन मुक्तिसाधनम् ॥ ३२ ॥
तस्मै वापि मया प्रोक्तं संदेहोच्छेदकारकम् ।
ततस्तेनापि संप्रोक्तं ब्रह्मणे हंसरूपिणे ॥ ३३ ॥
नन्दिकेश्वर एतद्वै मयोक्तं पुनरेव हि ।
सोऽपि चाभूत्स्वयं कर्ता मम तुल्यो महामतिः ॥ ३८ ॥
पुष्पदन्ते ततः प्रोक्तं तन्त्रमेतद्वरानने ।
गन्धर्वेभ्यो ददौ तेन रहस्यं परमाद्भुतम् ॥ ३५ ॥
ब्रह्मणा च तथा प्राप्तं तस्मात् ते मुनयः प्रिये ।
पुरन्दरेणाङ्गिरसाद् भार्गवाद्दैत्यराट् प्रभुः ॥ ३६ ॥
प्रथमः पटलः । ५
पुलस्तेरपि पौलस्त्याः क्रमादेवं महीतले ।
नमुच्याद्या महादैत्याः पुरा स्वायंभुवान्तरे ॥ ३७ ॥
महाबलपरीवारा महावीर्या महौजसः ।
सर्वधर्मरताः शुद्धाः सर्वपापविवर्जिताः ॥ ३८ ॥
त्रयीधर्मरताः सर्वे भग्ना इन्द्रपुरोगमाः ।
तदाकर्ण्य महेशानि ब्रह्मा लोकपितामहः ॥ ३६ ॥
मदन्तिकं समासाद्य स्तुतिभिर्मां प्रसाद्य च ।
उवाचेदं वचश्चापि श्लक्ष्णं मधुरया गिरा ॥ ४० ॥
ब्रह्मोवाच
सर्वज्ञ सर्वलोकेश सर्वदुःखनिसूदन ।
भोगमोक्षप्रदे तन्त्रे त्वया प्रकाशिते प्रभो ॥ ४१ ॥
तदवाप्य महादेव नरराक्षसदानवाः ।
सिद्धिप्रदा भवेयुस्ते प्रभुनाम कथं चरेत् ॥ ४२ ॥
सर्वे ब्रह्मात्मना देव यदि यास्यन्ति विद्यया ।
कैव सृष्टिः किमत्रा१पि कार्यं स्याद् वद् शंकर ॥४३॥
इति विज्ञाप्य मां ब्रह्मा ययौ ब्रह्मसद२ः प्रति ।
ततोऽहं परमेशानि गत्वा मन्दरपर्वतम् ॥ ४४॥
तान् विप्रानथ संस्मृत्य मन्त्रयित्वा च तैः सह ।
नन्दिकेश्वरमाहूय द्वारि संस्थाप्य सत्वरम् ॥ ४५ ॥
रक्षितव्यस्त्वया भद्र वि(क्ष?घ्न) श्चेह समागतः ।
इत्यादिश्य प्रविष्टोऽहं निर्जनं परमं महत् ॥ ४६॥
मोहनार्थं परं तेषां दैत्यादीनां विशेषतः ।
१ 'त्रास्ति' क पाठ. । २ 'द' क पाठ ।
शास्त्राणि विविधान्यत्र संप्रोक्तानि द्विजैः सह ॥ ४७ ॥
येषां श्रवणमात्रेण पातित्यं ज्ञानिनामपि ।
यच्चिन्तनान्महादेवि गोतमो मुनिपुंगवः ॥ ४८ ॥
अक्षपाद इति ख्यातः प्रमत्तो मां विगर्हयन् ।
अनुभूय तदास्वादं मामेव शरणं ययौ ॥ ४६ ॥
तत् कृपालुरहं देवि स्वयमादिष्टवानिदम् ।
वैष्णवं तन्त्रमाचक्ष्व वि(ष्णुय?ष्ण्व्यं)स्तु सदा मुने ॥ ५० ॥
प्रसन्नको यदा विष्णुस्ततः सिद्धिमवाप्स्यसि ।
यदुक्तं ते मया तन्त्रं कृष्णस्य परमात्मनः ॥ ५१ ॥
अधीत्य नारदात् सर्वं सिद्धिमाप मुनिस्तदा ।
प्रथमं हि मयैवोक्तं शैवं पाशुपतादिकम् ॥ ५२ ॥
मच्छक्त्यावेशितैर्विप्रैः संप्रोक्तानि ततः परम् ।
कणादेन च संप्रोक्तं शास्त्रं वैशेषिकं महत् ॥ ५३ ॥
गोतमेन तथा न्यायं सांख्यं तु कपिलेन तु ।
धिषणेन तथा प्रोक्तं चार्वाकमतिगर्हितम् ॥ ५८ ॥
दैत्यानां नाशनाथाय विष्णुना बुद्धरूपिणा ।
बौद्धशास्त्रमसत् प्रोक्तं नग्ननीलपटादिकम् ॥ ५५ ॥
आपा(त्यं?र्थ्य) श्रुतिवाक्यानां दर्शयंल्लोकगर्हितम् ।
कर्मस्वरूपत्याज्यत्वमत्र वै प्रतिपाद्यते ॥ ५६ ॥
सर्वकर्मपरिभ्रष्ठांन् (वैकर्म सं?विकर्मासत् ) तदुच्यते ।
१ 'मया प्रोक्त' ख पाठ । २ 'वै शतै' क पाठ । ३ 'धिष' क पाठ ।
'स्त्र तथा' ख पाठ । ४ 'आपत्य' ख पाठ । ६ 'तादात्म्य' ख पाठ ।
'ष्ट कस्तप' ख पाठ ।
गौतमप्रोक्तशास्त्रार्थनिरताः सर्व एव हि ॥ ५७ ॥
सार्गालीं योनिमापन्नाः सं (धि?दि) ग्धाः सर्वकर्मसु ।
सर्वस्य जगतोऽप्यत्र मोहनार्थं पुरा शिवे ॥ ५८॥
वेदार्थवन्महाशास्त्रं मायावादमवैदिकम् ।
मयैव कथितं देवि जगतां नाशकारणात् ॥ ५६ ॥
द्विजन्मना जैमिनिना पूर्वं वेदमपार्थतः ।
निरीश्वरेण वादेन कृतं शास्त्रं महत्तरम् ॥ ६० ॥
तत्रैवाहं महामन्त्रान् संदूष्य दोषविस्तरैः ।
कृत(वान्त?वांस्त)न्त्रविस्तारं ससंदेहपदान्वितम् ॥ ६१ ॥
अथ देवाश्च देव्यश्च दूषिते मन्त्रविग्रहे ।
अभवन् दूषिताः सर्वे हीनवीर्य्यपराक्रमाः ॥ ६२ ॥
निर्बलास्त्वङ्गहीनाश्च अथ सर्वे दिवौकसः ।
विष्णुलोकं समासाद्य व्यसनं तन्न्यवेदयन् ॥ ६३ ॥
विदित्वा व्यसनं विष्णुस्तत्तत् तेषां दिवौकसाम् ।
वैनतेयं समारुह्य नन्दिकेश्वरसंनिधौ ॥ ६४ ॥
आगतो वारितस्तेन मद्दर्शनसमुत्सुकः ।
तत्र स्थित्वा महेशानि भगवाञ्जगदीश्वरः ॥ ६५ ॥
वर्धयितुं शरीरं च वैनतेयं समादिशत् ।
प्रवृद्धस्य खगेन्द्रस्य स्थित्वा तस्योत्तमाङ्गके ॥ ६६ ॥
स दृष्ट्वा समुपाविष्टमिदमाह स्मिताननः ।
श्रीभगवानुवाच
अकालं प्रलयैः कस्मात् क्रियते भवताधुना ॥ ६७ ॥
१ 'सर्ववेद' ख पाठ । २ 'वर्द्ध' क पाठ । ३ य' क पाठ ।
न युज्यते महादेव कर्तुमेवं न सांप्रतम् ।
ईश्वर उवाच
दूषिता ब्रह्मणो मन्त्राः सौराश्चाग्निसमुद्भवाः ॥ ६८ ॥
तथा वै दूषिता यौन्याः श्रियश्चापीह केचन ।
सरस्वत्या महामन्त्रा वैष्णवा अपि केचन ॥ ६६ ॥
वैनायका महामन्त्राः प्रायेण दूषिता मया ।
शक्तितन्त्रेषु ये केचित् ससंदेहपदान्विताः ॥ ७० ॥
श्रीभगवानुवाच
जगद्वन्द्य कलाधीश सर्वभूतोपकारक ।
निवर्त्तस्व महादेव मद्वाक्यशासनादिभिः ॥ ७१ ॥
ईश्वर उवाच
विरतोऽहं तदा तस्य विष्णोरमिततेजसः ।
वचनात् परमेशस्य शंखचक्रगदाभृतः ॥ ७२ ॥
तान्यधीत्यैव ते सर्वे मोहिता विष्णुमायया ।
भविष्यन्ति च संदिग्धा वालिशेत्वादनास्थया ॥ ७३ ॥
विवदिष्यन्ति संमूढा हेतुवादपरायणाः ।
हे(ति?तु)साध्येतिवाक्याच्च भविष्यन्ति पराङ्मुखाः ॥७४॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे तन्त्रप्रस्तावनानिरूपणं
नाम प्रथमः पटलः ॥ १ ॥
१ 'व' ल० पाठ । २ 'वाली' ख० पाठ ।
द्वितीयः पटलः ।
पार्वत्युवाच
शक्तितन्त्रं महादेव संदेहरहितं कुरु ।
तथा कथय देवेश भोगेन मुक्तिसाधनम् ॥ १ ॥
ईश्वर उवाच
निःसंदेहं महातन्त्रं श्रूयतां खलु सांप्रतम् ।
गोपितव्यं पशोरग्रे पूर्णचन्द्रनिभानने ॥ २ ॥
परात्मजीवयोरैक्यं मयात्र प्रतिपाद्यते ।
ब्रह्मणोऽपि परं रूपं निर्गुणं वक्ष्यते मया ॥ ३ ॥
श्रूयतां विमले भद्रे आत्मानमात्मना पुनः ।
प्रणमामि महादेवीं तुरीयां ब्रह्मरूपिणीम् ॥ ४ ॥
यस्या स्मरणमात्रेण भवाब्धौ न निमज्जते ।
अस्याश्चाराधनं कृत्वा नान्यैस्याराधनं चरेत् ॥ ५ ॥
अन्यस्य स्मरणाद् दुःखं योगिनीशापमालभेत् ।
अपमृत्युर्भवेत् तस्य मृते च नरकं व्रजेत् ॥ ६ ॥
एनामुपास्य देवेशि किं न सिध्यति भूतले ।
सकृदेनामुपास्यैव न मातुः स्तनपो भवेत् ॥ ७ ॥
तस्माद् देवि शुभे भद्रे तुरीयां समुपाश्रयेत् ।
आदौ कामेश्वरी ज्ञेया द्वितीया भगमालिनी ॥ ८ ॥
१ 'तस्या' क. पाठ । २ 'नान्यदा' ख. पाठ. । ३ 'देवि ख पाठ ।
वज्रेश्वरी तृतीया च तुर्या त्रिपुरसुन्दरी ।
त्रयाणामपि देवानां प्रचोदिकों त्रिपादिका ॥ ९ ॥
त्रिपुरेति समाख्याता कामदा सौँ कामेश्वरी ।
त्रीन् यस्मात् पुरतो दद्याद् दुर्गा सा परमेश्वरी ॥ १० ॥
त्रिपुरेति समाख्याता सौन्दर्यातिशयात् तथा ।
मयापि चिन्यते सा तु तत्प्रसादादहं प्रभुः ॥ ११ ॥
जगतामीश्वरत्वं च लब्धं तदनुकम्पया ।
ब्रह्मत्वं ब्रह्मणा प्राप्तं विष्णुत्वं विष्णुना तथा ॥ १२ ॥
सुरासुरमुनीन्द्राणां महत्त्वं तत्प्रसादतः ।
तेनेयं महती विद्या दुर्लभा भुवनत्रये ॥ १३ ॥
देव्युवाच
भगवन् सर्वमन्त्राश्च भवता मे प्रकाशिताः ।
महात्रिपुरसुन्दर्या मन्त्रा ये पूर्वसूचिताः ॥ १४ ॥
तांस्तानेवाधुना नाथ संदेहरहितान् कुरु ।
ईश्वर उवाच
सर्वकार्येषु सर्वत्र तान्त्रिके वैदिके तथा ॥ १५ ॥
अविश्वासो महान् दोषो यत्नतस्तं विवर्जयेत् ।
संसिद्धेः कारणं देवि विश्वासः समुदाहृतः ॥ १६ ॥
विदित्वा रत्नणं यत्तु सगुणं वीर्यवर्धनम् ।
रत्नेषु कीलकं यद्वद् ग्रन्थिर्मलयसंभवे ॥ १७ ॥
आस्तिकोऽथ शुचिर्दान्तो द्वैतहीनो जितेन्द्रियः ।
१ 'एषणा' क पाठ. । २ 'दिता' ख. पाठ । ३ 'साहि' क पाठ. । ४ 'ता' क पाठ । ५ 'वर्द्ध' क पाठ । ६ 'दत्तो' ख पाठ. ।
द्वितीयः पटलः । ११
ब्रह्मिष्ठो ब्रह्मवादी च ब्रह्मी ब्रह्मपरायणः ॥ १८ ॥
सर्वहिंसाविनिर्मुक्तः सर्वप्राणिहिते रतः ।
सोऽस्मिन् शास्त्रेऽधिकारी स्यात् तदन्यो श्रमसाधकः॥१९॥
नास्तिकाय कुशीलाय दाम्भिकाय कदाचन ।
न वक्तव्यं पशोरग्रे कुटिले चुम्बके तथा ॥ २० ॥
शृणु देवि महत् गुह्यं मन्त्रोद्धारं वरानने ।
आदौ पञ्चदशी विद्या कथ्यते वीरवन्दिते ॥ २१ ॥
❄ कामदेवस्ततो योनिस्तुर्य्यस्वरपुरन्दरौ ।
भुवनेशी ततः पश्चात् पञ्च (रङ्गैँ?वर्णै) विभूषितः ॥ २२ ॥
अयं स वाग्भवो देवि वागीशत्वप्रदायकः ।
एतज्जप्त्वा महाबीजं किं न सिध्यति भूतले ॥ २३ ॥
बालकस्य तु जिह्वायां त्रिदिनाभ्यन्तरे न्यसेत् ।
मधुना श्वेतदूर्वाभिः सुवर्णास्य शलाकया ॥ २४ ॥
इदं वाग्भवकूटं तु लिखेद्वै जननान्तरे ।
स एव पण्डितो भूयान्नै तु मूर्खो भवेद् ध्रुवम् ॥ २५ ॥
एतद्वाग्भवकूटं तु बालिशस्यापि मूर्धनि ।
हस्तं दत्त्वा पठेत् सिद्धमष्टोत्तरशतं प्रिये ॥ २६॥
सोऽपि श्लोकान्महेशानि करोत्येव न संशयः ।
सतर्कपदवाक्यार्थशब्दालंकारसारवित् ॥ २७ ॥
जिह्वायां न्यसनाद्देवि मूकोऽपि सुकविर्भवेत् ।
१ 'ता' क पाठ । २ 'तदन्यत्र न साधक ' ख पाठ । ३ 'स्तू' क पाठ ।
४ 'वक्त्र' ख पाठ । ५ 'भूत्वा' ख पाठः । ६ 'इद' ख पाठ. ।
❄ काम क योनि. ए तुर्य्येश्वर ई पुरन्दर ल भुवनेशी ह्रीं इति वाग्भवकूटम् ।
बहुनात्र किमुक्तेन जल्पितेनापि सुन्दरि ॥ २८ ॥
वागीशं स्पर्धते वाक्यैः सर्वज्ञो भुवि जायते ।
मूको भवति वागीशो वाचस्पतिरिवापरः ॥ २९ ॥
१ शिवचन्द्रौ समुद्धृत्य कामव्योमपुरन्दरान् ।
उद्धरेत् परमेशानि लज्जाबीजं ततः प्रिये ॥ ३० ॥
कामराजमिदं भद्रे षड्वर्गा सर्वशोभितम् ।
† चन्द्रः कामस्तथेन्द्रश्च महामाया ततः परम् ॥ ३१ ॥
शक्तिबीजं वरारोहे वेदाक्षरसमन्वितम् ।
त्रिकूटेयं महाविद्या महात्रिपुरसुन्दरी ॥ ३२ ॥
सर्वतीर्थम(ये?यी) देवी सर्वदेवस्वरूपिणी ।
सर्वशास्त्रमयी शुद्धा सर्वदोषविवर्जिता ॥ ३३ ॥
चतुर्वेदमयी साक्षात् सर्वसौभाग्यदायिनी ।
कामराजाख्यविद्येयं भोगमोक्षफलप्रदा ॥ ३४ ॥
अनया सदृशी विद्या त्रिषु लोकेषु दुर्लभा ।
एतस्या एव विद्यायाः शक्तिं तुर्यं च पार्वति ॥ ३५ ॥
हित्वा मुखे शिवेन्दुभ्यां लोपामुद्रा प्रकाशिता ।
§ मारबीजं ततो योनिः कामः (शु?श)क्रं तथेश्वरी ॥ ३६ ॥
१ 'र्द्ध' क पाठ । २ 'यदॆव' क पाठ. ।
† शिव ह चन्द्र स काम. क व्योम ह पुरन्दर ल लज्जा ह्री इति कामराजकूटम् ।
‡ चन्द्र स काम क इन्द्र ल महामाया ह्री इति शक्तिकूटम् ।
- उक्ताया एव विद्याया वाग्भवादौ शक्तितुर्ये एई विहाय शिव ह् इन्दुः स इत्येतत्
द्वयमादौ नियोज्य लोपामुद्रोपासिता विद्या भवति ।
§ मार. क योनि ए काम क शक्र ल ईश्वरो ही इति वाग्भवकूटस्थाने विन्यस्य
पूर्ववत्कामराजशक्तियोगात् शाम्भवी विद्या ।
द्वितीयः पटलः । १३
पूर्ववत् कामराजं च शक्तिकूटं तथैव च ।
सवीर्या सिद्धिदा विद्या त्रैलोक्यवशकारिणी ॥ ३७ ॥
तव स्नेहान्महेशानि मयेयं तु प्रकाशिता ।
एतच्छांभवमुद्दिष्टं शृणु शाक्तमतः परम् १ ॥ ३८ ॥
† शक्तिर्महेशः कामश्च इन्द्रबीजमतः परम् ।
महामाया ततः पश्चात् पूर्ववदपरं ततः ॥ ३६ ॥
विद्यात्रयमिदं भद्रे दुर्लभं भुवनत्रये ।
देव्युवाच
षोडशार्णां महाविद्यां त्रैलोक्यवशदायिनीम् ॥ ४० ॥
अधुना कथयेशान यद्यहं तव वल्लभा ।
ईश्वर उवाच
शृणु देवि महाविद्यां षोडशाक्षररूपिणीम् ॥ ४१ ॥
एतस्या एव विद्याया यद्याद्ये भुवनेश्वरी ।
तदेयं परमेशानि षोडशाक्षररूपिणी ॥ ४२ ॥
मायास्थाने (वा?२) माबीजं दत्त्वान्या ‡ षोडशी भवेत् ।
वरदा सिद्धिदा विद्या३ कुबेरास्पददायिनी ॥ ४३ ॥
चिन्तामणिरियं विद्या त्रैलोक्ये चापि दुर्लभा । •
वेदादिमण्डिता चान्या विद्या मोक्षप्रदायिनी ॥ ४४ ॥
तथैव हि महाँबीजं रमाबीजं तथैव च ।
१ 'र' क पाठ । २ 'द्यात्' क पाठ । ३ माया' ख पाठ ।
† शक्ति स महेश ह काम क इन्द्र ल महामाया ह्रीँ इति प्रागुक्तविद्याया वाग्-
भवे नियोज्य शाक्ती विद्या सपद्यते ।
‡ भुवनेश्वरी ही तदादियुता पूर्वोक्ता विद्या षोडशार्णा । अथवाद्यौ रमाबीजोपेता तथा
भवति ।
पञ्चदशाक्षरीविद्यां तथैव च समुद्धरेत् ॥ ४५ ॥
सेयं <sup>†</sup>सप्तदशी विद्या साक्षात् जाग्रत्स्वरूपिणी ।
देव्युवाच
ततः कथय देवेश राजराजेश्वरीं पराम् ॥ ४६ ॥
षोडशार्णां महाविद्यां त्रैलोक्यवशदायिनीम् ।
जननीं सर्वमन्त्राणां परब्रह्मस्वरूपिणीम् ॥ ४७ ॥
ईश्वर उवाच
राजराजेश्वरीं विद्यां तथास्याः कवचं प्रिये ।
यो जानाति महीपृष्ठे स देवो नतु मानुषः ॥ ४८ ॥
राजराजेश्वरी विद्या कथ्यते शृणु पार्वति ।
रमाबीजं समुद्धृत्य मायाबीजं नियोजयेत् ॥ ४६ ॥
कामबीजं समालिख्य वाग्बीजं तदनन्तरम् ।
चतुर्दशस्वरोपेतं चन्द्रं बिन्दुयुगान्वितम् ॥ ५० ॥
प्रणवं भुवनेशानीं रमां चैव महेश्वरि ।
पञ्चदशाक्षरीं पश्चादुद्धरेत् परमेश्वरि ॥ ५१ ॥
व्युत्क्रमात् परमेशानि पूर्वोक्तबीजपञ्चकम् ।
आलिख्य संपुटीकुर्याद् विद्येयं ह्यष्टकूटका । ॥ ५२ ॥
तुरीयेयं महाविद्या केवलात्मस्वरूपिणी ।
षोडशार्णा महाविद्या श्रीविद्या कथिता परा ॥ ५३ ॥
<sup>†</sup> समनन्तरोक्ता पञ्चदशाक्षरी मायारमाभ्या ह्रीं श्रीं इत्याभ्यामाद्ययोजिता सप्तद-
शाक्षरी विद्या भवति ।
<sup>‡</sup> रमा श्री माया ही कामबीज क्लीं वाग्बीज ऐं चतुर्दशस्वरोपेत सविसर्गश्चन्द्रः
सौः प्रणव ओङ्कार भुवनेशानी ह्रीं रमा श्री तत पञ्चदशाक्षरी व्युत्क्रमैः बीजपञ्च-
कैश्च सपुटिता षोडशकटा तुरीया विद्या भवति ।
वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि ।
वर्णितुं नैव शक्येयं श्रीविद्या षोडशाक्षरी ॥ ५४ १॥
षोडशार्णा महाविद्या सर्वतन्त्रेषु गोपिता ।
तव स्नेहान्महेशानि गन्धर्वे वै प्रकाशिता ॥ ५५ ॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे विद्याभेदोद्धारनिरूपणं
नाम द्वितीयः पटलः ॥ २ ॥
१ 'शक्येऽह श्रीविद्या षोडशाक्षरीम्' ख पाठः ।
तृतीयः पटलः ।
देव्युवाच
देवदेव जगन्नाथ भक्तानामार्तिनाशन ।
पञ्चपञ्चाक्षरीं विद्यां पञ्चमीं सर्वकामदाम् ॥ १ ॥
अधुना कथयेशान समग्रां पापनाशिनीम् ।
ईश्वर उवाच
दुर्लभा पञ्चमी विद्या पञ्चकूटात्मिका शुभा ॥ २ ॥
भुक्तिमुक्तिप्रदा शुद्धा सुखदा दुःखनाशिनी ।
शृणु देवि प्रवच्यामि¹ यथा सा चिन्त्यते परा ॥ ३ ॥
गुरुभक्तेन शुद्धेन साधकेन सुबुद्धिना ।
देवी पञ्चात्मकं सर्वं जगदेतच्चराचरम् ॥ ४ ॥
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।
पृथिवी ब्राह्मणी शक्तिर्जलं नारायणी तथा ॥ ५ ॥
तेजो रुद्रस्य रुद्राणी वायुरीशस्य चेश्वरी ।
माहेश्वरी तथाकाशं शक्तिर्महेश्वरस्य च ॥ ६ ॥ -
पञ्चदेवात्मकं पञ्च पञ्चमीपञ्चशक्तयः ।
या शक्तिः सर्वभूतानां जगच्चैतन्यरूपिणी ॥ ७ ॥
सा * एव पञ्चमीविद्या जगदाधाररूपिणी ।
सा एव हि जगत्सर्वं सा एव परमा कला ॥ ८ ॥
१ 'ख्या' ख पाठ ।
- सन्धेरभाव ऽप्येष. एवमग्रेपि बोध्यम् ।
तृतीयः पटलः । १७
नान्यत् परतरं देवि विद्यते तद्वहिष्कृते ।
पञ्चविंशतितत्त्वेन कूटके पञ्च देवताः ॥ ९ ॥
आदौ कामेश्वरी ज्ञेया ततो वज्रेश्वरी शुभा ।
तृतीया भगमाला च तुर्या त्रिपुरसुन्दरी ॥ १० ॥
श्रीमत्त्रिपुरसुन्दर्याश्चिन्तनीया परा कला ।
सा एव पञ्चमी शक्तिः परब्रह्मस्वरूपिणी ॥ ११ ॥
परमानन्दरूपं यज्जगतां कारणं महत् ।
तस्या देव्यास्तु तद्रूपमुदयास्तविवर्जितम् ॥ १२ ॥
स्थूलत्वे स्थूलरूपा सा सूक्ष्मत्वे सूक्ष्मरूपिणी ।
स्थूलसूक्ष्मप्रभेदेन जगत्कारणरूपिणी ॥ १३ ॥
योऽसौ विश्वेश्वरो देवो विश्वं व्याप्य स्थितश्च यः ।
सैव विश्वेश्वरी देवी व्यापकत्वेन संस्थिता ॥ १४ ॥
नित्या सा सुखरूपा च महासुखशुभप्रदा ।
तत्स्वरूपानन्दमयी परमानन्दरूपिणी ॥ १५ ॥
किं पुनः शक्तिरूपेण परब्रह्मस्वरूपिणी ।
तस्याः पुनः पुनः सृष्टिर्जायते लीयते सदा ॥ १६ ॥
तस्माच्छक्तिः प्रधाना च शक्त्या व्याप्तमिदं जगत् ।
सर्वदानन्दहृदयश्चाद्वैतानन्दपारगः ॥ १७ ॥
समयाचारसंपन्नो भोगी भोगपरायणः ।
सदा ज्ञानविशुद्धात्मा गुरुभक्तो जितेन्द्रियः ॥ १८ ॥
गन्धर्वरूपवान् भूत्वा पञ्चमीं समुपासयेत् ।
पृथिव्यां मान (वो?वः) श्रेष्ठो यदि जानाति पञ्चमीम् ॥ १९ ॥
१८ गन्धर्वतन्त्रे ।
शापभ्रष्टेन गन्धर्वो न नरो दैवयोगतः ।
यो जानाति महाविद्यां पञ्चकूटात्मिकां पराम् ॥ २० ॥
स भवेत् खचरो देवि षण्मासान्नात्र संशयः ।
सदा ज्ञानविशुद्धात्मा मोक्षभागी भवेन्नरः ॥ २१ ॥
भोगेन लभते मुक्तिं यदि जानाति पञ्चमीम् ।
पञ्चपञ्चाक्षरीं विद्यां योऽसौ जानाति साधकः ॥ २२ ॥
स पूज्यः सर्वलोकेषु स देवो नतु मानुषैः¹ ।
त्रिकूटमेवं² कूटेषु कूटमेकं त्रिपञ्चकम् ॥ २३ ॥
पञ्चपञ्चाक्षरी विद्या त्रिकूटा पञ्चकूटकैः ।
पञ्चविंशतितत्त्वेन वर्णरूपेण संस्थिता ॥ २४ ॥
एकवर्णे त्रिकूटे च त्रिकूटे पञ्च देवताः ।
एकवर्णे पञ्चदश देवताः परिकीर्तिताः ॥ २५ ॥
पञ्चविंशतितत्त्वेन त्रिकूटे पञ्चसंख्यया ।
पञ्चसप्ततिपूर्वाणि तेन तासां शतत्रयम् ॥ २६ ॥
पञ्चकूटान्विता विद्या परा सौभाग्यसुन्दरी ।
वर्णरूपेण सा देवी जगदाधाररूपिणी ॥ २७ ॥
अक्षरात् सर्वमुत्पन्नं जगदेतच्चराचरम् ।
नित्यमेकाक्षरं ब्रह्म अक्षरं परमं पदम् * ॥ २८ ॥
जप्यमेकाक्षरं ब्रह्म आदिकूटान्तमध्यगम् ।
जप्त्वा तत्साधयेत् सर्वं बहुजप्तेनं³ किं फलम् ॥ २९ ॥
तदेव परमं गुह्यं महासौभाग्यदायकम् ।
१ 'मानव' ख पाठः । २ 'क' क पाठः । ३ 'जाप्येन' ख पाठः ।
- सकृज्जप्त्वाक्षर मन्त्रं ब्रह्मभूयाय कल्पते । इत्यधिक. ख पाठः ।
तृतीयः पटलः । १६
तदेव पञ्चकूटं तु पञ्चतत्त्वेन पञ्चमी ॥ ३० ॥
† कामं विष्णुयुतं शक्तिर्माया शक्रश्च पार्वति ।
पश्चाद् देवि महामायाबीजं चान्ते नियोजयेत् ॥ ३१ ॥
‡ शिवबीजं समुद्धृत्य शक्तिबीजं तदन्तरम् ।
तदधः कामबीजं तु भूर्व्योमानलसंयुक्तम् ॥ ३२ ॥
चतुर्थस्वरसंयुक्तमर्द्धेन्दुबिन्दुभूषितम् ।
प्रथमं कामराजस्य कूटं त्रैलोक्यपूजितम् ॥ ३३ ॥
मध्यकूटं प्रवक्ष्यामि कामराजस्य मध्यगम् ।
अतिगुह्यतरं देवि स्नेहाद् वक्ष्यामि केवलम् ॥ ३४ ॥
✠ वियद्विष्णुयुतं देवि मादनं तदनन्तरम् ।
तदधो हंसबीजं तु इन्द्रबीजं समुद्धरेत् ॥ ३५ ॥
विष्णोः पदं वह्नियुतं मायाबीजं समुद्धरेत् ।
मध्यकूटमिदं प्रोक्तं महासौभाग्यदायकम् ॥ ३६ ॥
तुरीयं तु प्रवक्ष्यामि शृणु देवि सुदुर्लभम् ।
§ कामबीजं महेशानि शिवबीजं ततः परम् ॥ ३७ ॥
तदधो वायुबीजं तु इन्द्रबीजं नियोजयेत् ।
वियद् वह्निसमायुक्तं चतुर्थस्वरभूषितम् ॥ ३८ ॥
† काम. क विष्णुयुतोऽकारोपेत., शक्ति. ए माया ई शक्रो ल महामाया ह्री
इत्येतत्पञ्चमीविद्याया प्रथम वग्भवकूटम् ।
‡ मध्यकूटत्रय कामराजस्य । तत्र शिव ह शक्ति. स कामः क भू ल व्योमानलेत्या-
दिना ह्रीँ, इति कामराजस्य प्रथम कूटम् ।
✠ वियत् ह विष्णुयुतमकारोपेतम् । मादन क हस. ह इन्द्र. ल विष्णोः पदमि-
त्यादिना ह्रीं, इति कामराजस्य मध्यम कूटम् ।
§ काम. क शिव. ह वायु. य इन्द्र ल वियदित्यादिना ह्री, इति कामराजस्य
तृतीय कूटम् ।
अर्द्धेन्दुबिन्दुसंयुक्तं चतुर्थं कूटमुत्तमम् ।
शक्तिकूटं प्रवक्ष्यामि शृणु देवि सुदुर्लभम् ॥ ३६ ॥
यच्छ्रुत्वा साधकाः सर्वे लभन्ते मुक्तिमुत्तमाम् ।
- प्राणबीजं समुद्धृत्य कामबीजं समुद्धरेत् ॥ ४० ॥
इन्द्रबीजं तथा दे(वि?वी) क्रमेण विनियोजयेत् ।
सान्तं वह्निसमायुक्तं चतुर्थस्वरसंयुतम् ॥ ४१ ॥
नादबिन्दुकलायुक्तं शक्तिकूटं समुद्धरेत् ।
फलं चास्या विशेषेण साधनं च वरानने ॥ ४२ ॥
कथितव्यं मया देवि¹ संक्षेपात् कथ्यतेऽधुना ।
एषा विद्या महाविद्या गुह्याद् गुह्यतमा प्रिये ॥ ४३ ॥
भोगदा मोक्षदा चैव सर्वकामार्थसिद्धिदा ।
वाग्भवं प्रथमं कूटं शक्तिकूटं तु पञ्चमम् ॥ ४४ ॥
मध्यकूटत्रयं देवि काम(बी?रा)जं मनोहरम् ।
काम(बी?रा)जं प्रवक्ष्यामि कूटभेदेन तच्छृणु ॥ ४५ ॥
ज्ञात्वा तत्साधयेद् देवि असाध्यमपि भूतले ।
सौभाग्यं प्रथमं कूटं महासौभाग्यदायकम् ॥ ४६ ॥
त्रिकूटमेककूटेन काम(बी?रा)जं महत्पर²म् ।
एवं कूटत्रयेणैव नित्या सौभाग्यसुन्दरी ॥ ४७ ॥
एकत्र पञ्चकूटेन नित्यं कूटत्रयान्विता ।
दुर्लभा सर्वलोकेषु महासौभाग्यसुन्दरी ॥ ४८ ॥
एतस्या एव विद्याया मध्यकूटस्य मध्यमम् । - प्राणो ह काम क इन्द्र ल देवी स सान्तमित्यादिना ह्रीं इति शक्तिकूटम् ।
१ 'महादेवि' क पाठ । २ 'दम्' क पाठ ।
तृतीयः पटलः । ०२१
जप्त्वाऽनन्दमयो भूत्वा सर्वकाममुपालभेत् ॥ ४६ ॥
इयं स्वप्नावती नाम्ना विद्या त्रैलोक्यविश्रुता ।
आकर्षणकरी विद्या जगदाह्लादकारिणी ॥ ५० ॥
साधनं च प्रवक्ष्यामि यस्मादाकर्षणं भवेत् ।
स्वर्गे म(र्ते?र्त्ये) च पाताले नारीणां पुरुषस्य च ॥ ५१ ॥
नार्यो वश्या विशेषेण वशं (जा?या)ति जगत्त्रयम् ।
भोगदा मोक्षदा चैषा विद्या गन्धर्वसेविता ॥ ५२ ॥
महाभोगवती विद्या महदैश्वर्यदायिनी ।
तथा मधुमतीसिद्धिर्जायतेऽस्याः प्रसादतः ॥ ५३ ॥
बृहत्त्वं च लघुत्वं च दर्शनादर्शने तथा ।
प्रवेशं परकायस्य कामरूपो भवेद् ध्रुवम् ॥ ५४ ॥
पुंसां रूपं स्त्रियो रूपं यच्चान्यद्रूपमुत्तमम् ।
सर्वं तत् परमं रूपं तस्या एव न संशयः ॥ ५५ ॥
कान्तिस्तुष्टिस्तथा पुष्टिः श्रद्धा लज्जा दया घृणा ।
धृतिः शान्तिस्तथा ऋद्धिः सिद्धिर्बुद्धिर्मतिः क्षमा ॥ ५६ ॥
महामाया महाबुद्धिर्महाविद्या महोदया ।
महामहत्करी विद्या ब्रह्मविद्यैव केवला ॥ ५७ ॥
महाभूतदिने नक्तं श्मशाने यदि साधकः ।
सहस्रैकप्रमाणेण किं न सिध्यति भूतले ॥ ५८ ॥
यो जपेत् पञ्चमीं विद्यां परां त्रैलोक्यमातृकाम् ।
स नरो देवदेवेशो महादेव इवापरः ॥ ५९ ॥
भोगारमा लभते भुक्तिं नानाभोगेन केवलम् ।
भुनक्ति बहुलान् भोगान् रसान्नानाविधानपि ॥ ६० ॥
यद् ब्रुवन्त्यक्षरं लोके भुनक्ति बहुलं सुखम् ।
शून्यागारे विहारे च चिन्त(येन्नो?यन्त्यो) जपेत्पराम् ॥६१॥
आकर्षणं भवेत्तस्य सर्वकामं ततो लभेत् ।
प्रथमानन्दहृदयो द्वितीय(म?मु)पभोगवान् ॥ ६२ ॥
तृतीयमुपभोगेन चतुर्थमपि कामयेत् ।
पञ्चमं प्रथमं पुण्यं मन्त्रसिद्धिकरं परम् ॥ ६३ ॥
पञ्चमं तु विशेषेण भोगयेत् कामयेत् सदा ।
पञ्चमाभ्यसनाद्धीरः पूजाया लभते फलम् ॥ ६४ ॥
कुण्डगोलोद्भवैर्द्रव्यैः स्वयम्भूकुसुमेन च ।
रोचनाकुंकुमाभ्यां च जपमालां प्रलेपयेत् ॥ ६५ ॥
कर्पूरागुरुकस्तूरीरोचनाकुंकुमेन च ।
जपमालामुपस्कृत्य प्रतिष्ठां विधिवच्चरेत् ॥ ६६ ॥
तद्द्रवै रचताञ्छुद्वान् सं(श्रा?स्रा)व्य च पुनः पुनः ।
वारिणा शोधितं कृत्वा सिन्दूरे निक्षिपेत् ततः ॥ ६७ ॥
पटे चित्रमये शुद्धे नक्तं यः पूजयेन्नरः ।
जप्त्वा विद्यां च मालायां सर्वकाममुपालभेत् ॥ ६८ ॥
आनीय कन्यकां दिव्यां प्रमदां यौवनोन्नताम् ।
उचितां मूलमन्त्रेण सुशीलां चारुहासि(हीं?नीम् ) ॥६६॥
सर्वदानन्दहृदयां घृणालज्जाविवर्जिताम् ।
गुरुभक्तां सुवेशां च देवतापूजने रताम् ॥ ७० ॥
तस्या गात्रे न्यसेन्मन्त्री पञ्चकामाञ् शरानपि ।
तृतीयः पटलः । • २३
पञ्चकूटं न्यसेन्मन्त्री पञ्चाशन्मातृकां न्यसेत् ॥ ७१ ॥
दिव्यमालां समादाय साधको विजितेन्द्रियः ।
सहस्रैकप्रमाणे न जपेत् स्वप्नावतीं ततः ॥ ७२ ॥
अनेनैव विधानेन भवेदाकर्षणं महत् ।
तस्यास्तु मदनागारे पूजयेत् परमेश्वरीम् ॥ ७३ ॥
- सर्वसंक्षोभिणीं मुद्रां बद्ध्वा योनिं प्रचालयेत् ।
कामेश्वरीस्वरूपां तां चिन्तयेत् साधकोत्तमः ॥ ७४ ॥
कामेश्वरस्वरूपं च आत्मानमपि भावयन् ।
स्वयमक्षोभितो भूत्वा साधकः पञ्चमं चरन् ॥ ७५ ॥
तस्याः पुष्पं स्वयं यावद् १ रक्षणीयं प्रयत्नतः ।
ताम्बूलगन्धपुष्पैश्च प्रत्यहं पूजयेच्च ताम् ॥ ७६ ॥
नानारसान्नपानेन तृप्तिमाचर्य यत्नतः ।
वस्त्रालंकारभूषाद्यैस्तस्याः सन्तोषमानयेत् ॥ ७७ ॥
यथाकाले तथा पुष्पं स्वयं तद्गोप्यरूपतः ।
गृहीत्वा तु प्रयत्नेन स्वयंभूकुसुमं हि तत् ॥ ७८ ॥
स्वयंभूकुसुमं दिव्यं त्रैलोक्येष्वपि दुर्लभम् ।
प्राप्नोति साधकश्रेष्ठो दुर्लभं साधयेद्भुवि ॥ ७९ ॥
स्वयंभूपुष्पयोगेन साक्षतेन सदार्चयेत् ।
विद्यां स्वप्नावतीं जप्त्वा क्षिप्रमाकर्षणं भवेत् ॥ ८० ॥
देवताश्च ग्रहा नागा दानवा राक्षसाश्च ये ।
- तल्लक्षणं-यथा मध्यमामध्यगे कृत्वा कनिष्ठाङ्गुष्ठरोधितै । तर्जन्यौ दण्डवत् कृत्वा
मध्यमोपर्यनामिके । क्षोभाभिधाना मुद्रेयं सर्वसंक्षोभकारिणी ॥ इति ।
१ 'प्राग्वत्' ख पाठ ।