गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 92, कुल 446 में से
संदर्भ में पढ़ेंद्वितीयः पटलः । ११
ब्रह्मिष्ठो ब्रह्मवादी च ब्रह्मी ब्रह्मपरायणः ॥ १८ ॥
सर्वहिंसाविनिर्मुक्तः सर्वप्राणिहिते रतः ।
सोऽस्मिन् शास्त्रेऽधिकारी स्यात् तदन्यो श्रमसाधकः॥१९॥
नास्तिकाय कुशीलाय दाम्भिकाय कदाचन ।
न वक्तव्यं पशोरग्रे कुटिले चुम्बके तथा ॥ २० ॥
शृणु देवि महत् गुह्यं मन्त्रोद्धारं वरानने ।
आदौ पञ्चदशी विद्या कथ्यते वीरवन्दिते ॥ २१ ॥
❄ कामदेवस्ततो योनिस्तुर्य्यस्वरपुरन्दरौ ।
भुवनेशी ततः पश्चात् पञ्च (रङ्गैँ?वर्णै) विभूषितः ॥ २२ ॥
अयं स वाग्भवो देवि वागीशत्वप्रदायकः ।
एतज्जप्त्वा महाबीजं किं न सिध्यति भूतले ॥ २३ ॥
बालकस्य तु जिह्वायां त्रिदिनाभ्यन्तरे न्यसेत् ।
मधुना श्वेतदूर्वाभिः सुवर्णास्य शलाकया ॥ २४ ॥
इदं वाग्भवकूटं तु लिखेद्वै जननान्तरे ।
स एव पण्डितो भूयान्नै तु मूर्खो भवेद् ध्रुवम् ॥ २५ ॥
एतद्वाग्भवकूटं तु बालिशस्यापि मूर्धनि ।
हस्तं दत्त्वा पठेत् सिद्धमष्टोत्तरशतं प्रिये ॥ २६॥
सोऽपि श्लोकान्महेशानि करोत्येव न संशयः ।
सतर्कपदवाक्यार्थशब्दालंकारसारवित् ॥ २७ ॥
जिह्वायां न्यसनाद्देवि मूकोऽपि सुकविर्भवेत् ।
१ 'ता' क पाठ । २ 'तदन्यत्र न साधक ' ख पाठ । ३ 'स्तू' क पाठ ।
४ 'वक्त्र' ख पाठ । ५ 'भूत्वा' ख पाठः । ६ 'इद' ख पाठ. ।
❄ काम क योनि. ए तुर्य्येश्वर ई पुरन्दर ल भुवनेशी ह्रीं इति वाग्भवकूटम् ।