गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 88, कुल 446 में से
संदर्भ में पढ़ेंगौतमप्रोक्तशास्त्रार्थनिरताः सर्व एव हि ॥ ५७ ॥
सार्गालीं योनिमापन्नाः सं (धि?दि) ग्धाः सर्वकर्मसु ।
सर्वस्य जगतोऽप्यत्र मोहनार्थं पुरा शिवे ॥ ५८॥
वेदार्थवन्महाशास्त्रं मायावादमवैदिकम् ।
मयैव कथितं देवि जगतां नाशकारणात् ॥ ५६ ॥
द्विजन्मना जैमिनिना पूर्वं वेदमपार्थतः ।
निरीश्वरेण वादेन कृतं शास्त्रं महत्तरम् ॥ ६० ॥
तत्रैवाहं महामन्त्रान् संदूष्य दोषविस्तरैः ।
कृत(वान्त?वांस्त)न्त्रविस्तारं ससंदेहपदान्वितम् ॥ ६१ ॥
अथ देवाश्च देव्यश्च दूषिते मन्त्रविग्रहे ।
अभवन् दूषिताः सर्वे हीनवीर्य्यपराक्रमाः ॥ ६२ ॥
निर्बलास्त्वङ्गहीनाश्च अथ सर्वे दिवौकसः ।
विष्णुलोकं समासाद्य व्यसनं तन्न्यवेदयन् ॥ ६३ ॥
विदित्वा व्यसनं विष्णुस्तत्तत् तेषां दिवौकसाम् ।
वैनतेयं समारुह्य नन्दिकेश्वरसंनिधौ ॥ ६४ ॥
आगतो वारितस्तेन मद्दर्शनसमुत्सुकः ।
तत्र स्थित्वा महेशानि भगवाञ्जगदीश्वरः ॥ ६५ ॥
वर्धयितुं शरीरं च वैनतेयं समादिशत् ।
प्रवृद्धस्य खगेन्द्रस्य स्थित्वा तस्योत्तमाङ्गके ॥ ६६ ॥
स दृष्ट्वा समुपाविष्टमिदमाह स्मिताननः ।
श्रीभगवानुवाच
अकालं प्रलयैः कस्मात् क्रियते भवताधुना ॥ ६७ ॥
१ 'सर्ववेद' ख पाठ । २ 'वर्द्ध' क पाठ । ३ य' क पाठ ।