सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पञ्चत्रिंशः पटलः । ३११
मांसं मत्स्यं तथा मुद्रां विधाय पुरतः शिवे ॰१।
अर्घ्यपात्रं तदा वह्निसूर्यसोमामृतं स्मरेत् ॥ २१ ॥
सिन्दूरेण ललाटेऽस्याः कृत्वा तिलकमद्रिजे ।
साध्यं च विलिखेत्तत्र मूलविद्याविदर्भितम् ॥ २२ ॥
गन्धैः पुष्पैस्तथा माल्यैर्भूषयित्वा तु तां पुनः ।
कृत्वा धूपेन सौगन्ध्यं दीपानुज्ज्वल्य पार्वति ॥ २३ ॥
नाभेश्चरणपर्यन्तं वाग्भवं कूटमुत्तमम् ।
हृदयान्नाभिपर्यन्तं कामबीजं प्रविन्यसेत् ॥ २४ ॥
शिरसो हृत्प्रदेशान्तं तदीयं परिभावयेत् ।
सर्वदेवमयं देहं सर्वमन्त्रमयं वपुः ॥ २५ ॥
चिन्तयेत्साधकः शक्तिं साक्षात् कामेश्वरीं पुरः ।
हृदि हस्तं समादाय जपेदष्टोत्तरं शतम् ॥ २६ ॥
आत्मानं चिन्तयेत्कामं शक्तिं कामेश्वरीं पराम् ।
मुहुर्मुहुः पिबेन्मद्यं शक्तिजिह्वावलोडितम् ॥ २७ ॥
मन्त्रशुद्धं पिबेन्मद्यं निःशब्दं हास्यवर्जितः ।
भोजनान्ते विषं पानं पानान्ते भोजनं विषम् ॥ २८ ॥
अमृतं तद्विजानीयाद् यदन्नं सुरया सह ।
विष्णुना च पुरा पीतौ३ शंकरेण ततः परम् ॥ १६ ॥
शक्रेण च तथा पीता पुष्पदन्तेन चैव हि ।
शुक्रेण च पुरा पीता दत्तात्रेयेण सेविता ॥ ३० ॥
श्रीमता बलरामेण समानीताथ भूतले ।
तस्मादिमां सुरां पुण्यां भक्त्या तां च पिबाम्यहम् ॥ ३१ ॥
१ 'सघोर' क पाठ. । २ 'दृदृहा' ख पाठ. । ३ 'त' क पाठ ।

३१२ गन्धर्व्वतन्त्रे ।
पशुपशविनाशाय दिव्यज्ञानोपलब्धये ।
इदं पवित्रममृतं पिबामि भवभेषजम् ॥ ३२ ॥
मद्यं मांसं तथान्यत्तु यत्किंचित् कुलभूषणम् ।
शक्त्यै दत्त्वा पुनः शेषमात्मन्येव नियोजयेत् ॥ ३३ ॥
पाययित्वा पुनः पानं तन्मुखादमृतं पिबेत् ।
ततश्च शोधयेद्दीपं दीपो भवति नान्यथा ॥ ३४ ॥
आनन्दोदयपर्य्यन्तं साधकश्च पिवेन्मधु ।
कर्पूर (स ? श) कलोन्मिश्रताम्बूलपूरिताननः ॥ ३५ ॥
मदिराघूर्णनयनो दिग्वासाः कुलभूषणः ।
वदेत् सविनयं वाक्यं सिद्धिदे परमेश्वरि ॥ ३६ ॥
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ।
इति प्रसादमासाद्य कारयेत्तां दिगम्बरीम् ॥ ३७ ॥
त्रिकोणावद्भगं ज्ञात्वा सर्वसिद्धिप्रदायकम् ।
कूटत्रयात्मकं स्मृत्वा सर्वानन्दमयं स्मरेत् ॥ ३८ ॥
आत्मानं देवतारूपमद्वैतं परिचिन्तयन् ।
पूर्णचन्द्रनिभं वक्त्रं पू (र्णेर्शीं ? र्णांदिं) चुम्बनैर्यजेत् ॥ ३६ ॥
जालन्धरं महापीठं स्तनद्वयमुदीरितम् ।
अपानमूरुयुगलं कामरूपमतः परम् ॥ ४० ॥
यत्पीठं ब्रह्मणो वक्त्रं गुह्यं सर्वसुखावहम् ।
यतो देवाश्च देव्यश्च मुनयश्चैव भौवजाः ॥ ४१ ॥
सर्वेऽप्याविर्भवन्त्येते तेन गुह्यं महीतले ।
द्विविधं चैव तत्पीठं गुह्यं व्यक्तं महेश्वरि ॥ ४२ ॥
१ 'रीम्' क पाठ । २ 'मानव' ख पाठ ।

पञ्चत्रिंशः पटलः । ३१३
व्यक्ताद्भुतं महापुण्यं दुरापं पशुभिः प्रिये ।
गुप्तं सर्वत्र देवेशि लभ्यते कुलपूजकैः ॥ ४३ ॥
यत्र तत्र यजेद्देवीमुपचारैस्तथाविधैः ।
लिङ्गेनाकर्षयेद्योनिं मुखे जिह्वामृतं पिबेत् ॥ ४४ ॥
नखदन्तक्षतान्यत्र पुष्पाणि विहितानि च ।
आलिङ्गनं तु कस्तूरीकर्पूरागुरुचन्दनम् ॥ ४५ ॥
चुम्बनं स्तवनं देवि मथनं ह(र?व)नं शिवे ।
त्रिभिः कूटैस्त्रिघातं स्यात् त्रिघातैर्जपमेकतः ॥ ४६ ॥
एवं कृत्वा महेशानि स च कामेश्वरो भवेत् ।
मद्यं मांसं विना देवि कुलपूजां यथा चरेत् ॥ ४७ ॥
जन्मान्तरसहस्रस्य सुकृतं तस्य नश्यति ।
निवृत्तिकाले च पुनर्भावपूर्णामृतैर्निजम् ॥ ४८ ॥
मुखं बिन्दुवदाकारं तदधः कु(ल?च)युग्मकम् ।
सर्वविद्यामृतैः पूर्णं सर्ववाग्विभवप्रदम् ॥ ४९ ॥
सर्वार्थसाधकं देवि सर्वरञ्जनकारणम् ।
तदधः परमेशानि स्वदेहं परिचिन्तयेत् ॥ ५० ॥
सर्वज्ञानसुसंपन्नं सर्ववश्यप्रदायकम् ।
ध्यात्वा यष्टाथवा देवि भवेत्कामकलान्वितः ॥ ५१ ॥
कुलस्य विविधं रूपं ज्ञात्वा तत्परिचिन्त्य च ।
कुलीनो जायते यस्मात् कथं तत्तु प्रकाशयेत् ॥ ५२ ॥
एवमभ्यासयोगेन सिद्धो भवति नान्यथा ।
मासेनाकर्षणी सिद्धिस्त्रिमासैर्वाक्पतिर्भवेत् ॥ ५३ ॥


१ 'खैजि' क पाठ । २ 'र्षा सिद्धि' क पाठ ।

३१४ गन्धर्वतन्त्रे ।
एवं चतुष्टये मासि भवेद्दिक्पालगोचरः ।
पञ्चमे पञ्चकामः स्यात् षष्ठे रुद्रो न संशयः ॥ ५४ ॥
चिन्तनं योषिता सार्धं पूजनं च तयैव हि ।
तया विरहितो मन्त्री न सिध्यति कदाचन ॥ ५५ ॥
भावयेद्योषिता सार्धं जुहुयाच्च तयैव हि ।
तया विरहितो मन्त्री न सिध्यति कदाचन ॥ ५६ ॥
स्त्रियो देवाः स्त्रियः प्राणाः स्त्रिय एव हि भूषणम् ।
स्त्रीसङ्गिना सदा भाव्यमन्यथा स्वस्त्रिया अपि ॥ ५७ ॥
रात्रौ पर्यटनं कार्यं रात्रौ च शक्तिपूजनम् ।
रात्रौ कुलकथालापं रात्रौ चान्यत् समापयेत् ॥ ५८ ॥
प्रातः स्नानं ततो देवि देवान्पितॄन्नृणांस्तथा ।
तर्पयित्वा यजेद्देवीमुपचारैर्यथाविधि ॥ ५९ ॥
पूर्वाह्नविहितां पूजां गृह्णाति परदेवता ।
मध्याह्नविहितां देवि गृह्णन्ति योगिनीगणाः ॥ ६० ॥
अपराह्नकृता पूजा नीयते यक्षराक्षसैः ।
पूर्वाह्णे दीयते यच्चैदमृतं समुदीरितम् ॥ ६१ ॥
मध्याह्ने तत्तु देवेशि शोणितं च परं स्मृतम् ।
तस्मात् सर्वप्रयत्नेन बाह्यपूजां महेश्वरि ॥
प्रातरेव सदा कुर्याद्गृहस्थो गृहिणीयुतः ॥ ६२ ॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे काम्यपू-
जादिविधिनिरूपणं नाम पञ्चत्रिंशः पटलः ॥ ३५ ॥


१ 'बाण.' ख पाठ । २ 'म' ख पाठ । ३ 'तुन्न' क पाठ ।

षट्त्रिंशः पटलः ।
—:():*():—
ईश्वर उवाच
शक्त्यन्तरं प्रवक्ष्यामि सविकल्पस्य सुन्दरि ।
स्वशक्त्या परशक्तिं च यथानयति साधकः ॥ १ ॥
अदीक्षिताङ्गनासङ्गात् सिद्धिहानिर्भवेच्छिवे ।
तस्मात् सर्वप्रयत्नेन दीक्षयेन्निजकौलिनीम् ॥ २ ॥
गुरुसैवैकमात्रेण यथा सिद्धिर्भवेन्नृणाम् ।
महापद्मवनध्यानाद् यथा सिद्धीश्वरो भवेत् ॥ ३ ॥
त्रिपुराध्यानमात्रेण जीवन्मुक्तो यथा भवेत् ।
गङ्गास्मरणमात्रेण निष्पापो जायते यथा ॥ ४ ॥
योषित्स्मरणमात्रेण तथैयं वरदायिनी ।
न स्नानं न तथा पूजा न ध्यानं न्यासं एव वा ॥ ५ ॥
मन्त्रस्मरणमात्रेण योषितां वरदायिनी ।
निजकान्तां समानीय सुशीलां सुयशस्विनीम् ॥ ६ ॥
कुलभक्तं गुरुं प्राप्य दीक्षयेत् कुलविद्यया ।
दीक्षयित्वा गुरुस्तां तु निजपुत्रीवदाचरेत् ॥ ७ ॥
अद्य प्रभृति पुत्रि त्वं कुलपूजारता भव ।
यथोपदिष्टविधिना स्वामिनं वश्यमानय ॥ ८ ॥
१ 'समेव' क पाठ । २ 'मिवश्य समानय' क पाठ ।

३१६ गन्धर्वतन्त्रे ।
हररूपस्य त्वत्पत्युर्न^१चान्यं मनसा स्मर ।
इत्याज्ञां^२ च गुरोर्लब्ध्वा प्रणमेद्दण्डवद्भुवि ॥ ६ ॥
त्वत्पदाम्भोरुहच्छायां मूर्ध्नि देहि यशोधन ।
दीक्षिता नच योषा चेत् कथं स्यात्कुलपूजनम् ॥ १० ॥
कुलपूजा न चेद्देवि कुलविद्या पराङ्मुखी ।
दिवसं प्राप्य भौतं च निर्जने पशुवर्जिते ॥ ११ ॥
अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि ।
आनीय यत्नतः शुद्धं सिन्दूरं च मनोहरम् ॥ १२ ॥
तेन चक्रं समालिख्य सुरेखं परमोज्ज्वलम् ।
षट्कोणं पद्मगर्भस्थं शरावे दाहवर्जिते ॥ १३ ॥
तन्मध्ये प्रतिमां देवि सिन्दूरेण समालिखेत् ।
कपोले साध्यमालिख्य मूलमन्त्रविदर्भितम् ॥ १४ ॥
कामबीजं ततो देवि लिखेत् सर्वाङ्गसंधिषु ।
पुष्पासवं मुखे दत्त्वा वसन्तसुन्दरीं जपेत् ॥ १५ ॥
꩜कामामिन्द्रं तुरीयं च बिन्दुनादसमन्वितम् ।
बीजं तद्भुवनेशाम्या द्वादशस्वरबिन्दुकम् ॥ १६ ॥
ततस्तु नीलसुभगे हिलिहिलि ततः परम् ।
विच्चे स्वाहापदं दद्याद्विद्या वसन्तसुन्दरी ॥ १७ ॥
ध्यानं कृत्वा तु सुन्दर्या जीवन्यासं च कारयेत् ।
संविदानन्दहृदयः साधकः स्थिरमानसः ॥ १८ ॥
संविदासवयोर्मध्ये संविदेव गरीयसी ।
संवि(यां ? दं) योजयेद्देवि स्वयं चापि कुलेषु च ॥ १६ ॥
१ 'नान्य मनसा सस्मर' क पाठ । २ 'ज्ञा कुलगुरो' क पाठ ।
꩜ काम क इन्द्र ल तुरीयं बिन्दुनादादियुक्त ई भुवनेशी ह्री एव क्लीं ह्रीं नीलसुभगे
हिलि हिलि विच्चे स्वाहा-इति वसन्तसुन्दरी ॥

षट्त्रिंशः पटलः । ३१७
ताम्बूलपूरितमुखो रक्ताभरणभूषितः ।
रक्तासनोपविष्टस्तु स्वकुलं तूलिकोपरि ॥ २० ॥
वामभागे समासीनं रक्तवस्त्रविभूषितम् ।
सर्वशृङ्गारवेशाढ्यं स्फुरच्चकितलोचनम् ॥ २१ ॥
जितामितकुचद्वन्द्वविशालकरिकुम्भेकम् ।
तत्स्कन्धे बाहुमाधाय भङ्ग्या धृतकुचाञ्चले ॥ २२ ॥
प्रतिमायां ततो देवि पूर्ववन्न्यासमाचरेत् ।
पूर्वोक्तविधिना पूजा कर्तव्या वीरवन्दिते ॥ २३ ॥
ताम्बूलपूरितमुखं कुशं तदभिसं(ज्ञि?हि)तम् ।
ध्यानयोगेन मनसा लक्षमेकं तदा जपेत् ॥ २४ ॥
शतयोजनसंस्थानां नदीपर्वतमध्यगाम् ।
दीपान्तरसहस्रेषु रक्षितां निगडादिभिः ॥ २५ ॥
पयोधरभारक्षुब्धगमनां श्यामलोचनाम् ।
नितम्बबिम्बविध्वस्तैर्गुरुजघनमण्डनाम् ॥ २६ ॥
साधकाद्धि(त?ष्ट)हृदयां विवरान्तःप्रसर्पिणीम् ।
कवाटलोहसंबद्धप्राकारविविधान्तरे ॥ २७ ॥
कुलाकुलजपं कृत्वा समानयति साधकः ।
होमान्तरं प्रवक्ष्यामि येन ब्रह्ममयो भवेत् ॥ २८ ॥
शिवशक्तिमयं विद्धि चेतनाचेतनं जगत् ।
मम ज्ञानप्रभावेन दृष्टं यत् कथयामि ते ॥ २९ ॥
निर्जने शुद्धदेशे च शुद्धनाडीगणः शिवे ।
सम आसन आसीनः समकायो यथासुखम् ॥ ३० ॥
१ 'स्तुकम्' क पाठ । २ 'स्ता' क पाठ. । ३ 'हिता' क. पाठ ।

३१८ गन्धर्वतन्त्रे ।
पद्मासनसमासीनः साधकः शुद्धचेतनः ।
प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकैः ॥ ३१ ॥
हस्तावाच्छाद्य आधारयोगदण्डावलम्बिनौ ।
नयने नासिकाप्रान्ते निमेषोन्मेषवर्जिते ॥ ३२ ॥
भ्रुवोर्मध्ये स्थितश्चात्मा दन्तैर्दन्तांस्तु संस्पृशेत् ।
ओष्ठेन चाधरं चैव जिह्वया चाथ तालुकम् ॥ ३३ ॥
एषा तु सुन्दरीमुद्रा सुन्दरीमोददायिनी ।
सहस्रारे परे पद्मे आधारोत्थेन वायुना ॥ ३४ ॥
कुलदीपशिखाकारं संक्षोभ्यामृतमण्ड (नं ? लम् ) ।
सुधाधारां स्मरेद् भूयः पतितां मूलपङ्कजे ॥ ३५ ॥
एवं च सप्तधा कुर्याद्देवीसांनिध्यहेतवे ।
मूलेन ध्यानयोगेन स्मृत्वा ब्रह्ममयीं पराम् ॥ ३६ ॥
हृदये पद्ममध्ये तु बाणलिङ्गे तु तेजसि ।
तत्राचां पूजयेद्देवीं हृदये कामरूपिणीम् ॥ ३७ ॥
पूरकेन समावाह्य संस्थाप्य कुम्भकेन तु ।
देहचक्रं समापाद्य दद्यात् पाद्यादिकं मुदा ॥ ३८ ॥
कुण्डलीपात्रसंस्थेन परमामृतवारिणा ।
पाद्यं चरणयोर्दद्यात् पुनश्चार्घ्यं प्रदापयेत् ॥ ३९ ॥
सहस्रदलभृङ्गा (या ? र्याः) लुलितालुलिताच्च्युतम् ।
परमामृतपानीयं दद्यादाचमनं मुखे ॥ ४० ॥
षट्त्रिंशत्तत्त्वरूपं तु गन्धं दद्याद्विचक्षणः ।
अहिंसा परमं पुष्पं पुष्पमस्तेयमेव च ॥ ४१ ॥
१ 'हृद्या' क पाठ । २ 'च्च्युतिम्' क पाठ. ।

षट्त्रिंशः पटलः । ३१६
दया पुष्पं क्षमा पुष्पं पुष्पमिन्द्रियनिग्रहम् ।
अमोहं चाप्यमात्सर्यमविद्वेषं तथैव च ॥ ४२ ॥
अरागं च तथा सत्यं पुष्पाण्येवं विदुर्बुधाः ।
एतानि भावपुष्पाणि सदैव विनिवेदयेत् ॥ ४३ ॥
वायुं च धूपकं दद्यात्तेजो दीपं निवेदयेत् ।
सुराम्बुधिं तथा दद्याद्दद्याच्च मांसपर्वतम् ॥ ४४ ॥
सूर्यं च दर्पणं दद्याच्चन्द्रं च च्छत्रमुत्तमम् ।
आनन्दाभरणं दद्यादम्बरं चामरं तथा ॥ ४५ ॥
अनाहतध्वनिमयीं घण्टामेतां निवेदयेत् ।
ततश्च साधकश्रेष्ठः शृङ्गारादिरसोद्भवैः ॥ ४६ ॥
नृत्यगीतैश्च वाद्यैश्च तोषयेत्परमेश्वरीम् ।
ध्वनिना शब्दभेदेन तेजश्राकाशसंकुले ॥ ४७ ॥
सहस्रदलमध्ये तु चिन्तयेत्सुन्दरीं पराम् ।
भैरवानन्दलिङ्गं तु तन्मध्ये योनिसंयुतम् ॥ ४८ ॥
एकी (कार्य?भावं) तयोः कृत्वा अमृतं (श्रा?स्त्रा)वयेत्ततः ।
जिह्वया गलं संयोगात् पिबेत्तदमृतं तदा ॥ ४६ ॥
योगिभिः पीयते तत्तु न मद्यं गौडपैष्टिकम् ।
पृथिव्यन्तर्गता आपस्तदन्तः शून्यमद्रिजे ॥ ५० ॥
शून्यमध्ये वसेद्वायुर्वाय्वन्तर्ध्वनिरीश्वरि ।
तदन्तर्नाद एवासौ नादान्तर्बिन्दुरीश्वरः ॥ ५१ ॥
तन्मध्ये तु परं ज्योतिः शिखा सूक्ष्मा परात्परा ।
विद्यु(च्चान?द्योत)नसंकाशा सहस्रादित्यभास्वरा ॥ ५२ ॥
१ 'नाल' ग्व पाठ ।

३२० गन्धर्वतन्त्रे ।
सुनयनातिसूक्ष्मा च निराकारा निरालया ।
परानन्दमयी पूर्णा सा भवेत् सुन्दरी परा ॥ ५३ ॥
पार्थिवे पार्थिवानां च लयैः¹ कार्यः समाधिना ।
अप्सु चापां लयः कार्यः शून्ये शून्यस्य वै तथा ॥ ५४ ॥
लयो वायौ च वायूनां ध्वनौ ध्वनिं समर्पयेत् ।
ज्योतिषां च लयस्तत्र ब्रह्मरायेवं² मनोलयः ॥ ५५ ॥
मनः करोति पापानि मनः पापेषु लिप्यते ।
मनसि³ चोन्मनीभूते न धर्मो न च पातकम् ॥ ५६ ॥
एवं भावनया हृष्टः परमानन्दनिर्भरः ।
संसारसागरं धीरो गोष्पदीकुरुते शिवे ॥ ५७ ॥
भुक्तिमुक्ती⁴ करे तस्य मम तुल्यो भवेद्भुवि ।
पूजा ज्ञानमयी प्रोक्ता न तु होमस्तु तादृशः ॥ ५८ ॥
तद्रूपं विद्धि कुण्डस्य बिन्दुत्रिवलयात्मकम् ।
आनन्दमेखलारम्यं मात्रायोनिविभूषितम् ॥ ५९ ॥
तद्ब्रह्म परमं ध्यात्वा सर्वज्ञानविजृम्भिते ।
दीपितेऽग्नौ हुनेद्देवि प्रपञ्चहविरुत्तमम् ॥ ६० ॥
शब्दाख्या मातृका रूपमक्षरं⁵ तु विराजितम् ।
अक्षरं च हुतं चात्र निःशब्दं ब्रह्म जायते ॥ ६१ ॥
पुण्यपापे हविर्देवि कृत्याकृत्ये हविः शिवे ।
संकल्पश्च विकल्पश्च धर्माधर्मौ हविस्तथा ॥ ६२ ॥
धर्माधर्महविर्दीप्ते आत्माग्नौ मनसा स्रुचा ।
सुषुम्नावर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहम् ॥ ६३ ॥
१ 'य कार्ये' क पाठ । २ 'पो' क पाठः । ३ 'स्युन्म' क पाठः ।
४ 'यावि' ख पाठः । ५ 'म' क पाठ । ६ 'मौ' क पाठ ।

षट्त्रिंशः पटलः । ३२१
प्रकाशाकाशहस्ताभ्यामव(लोक्यो?लम्ब्यो)न्मनास्स्रुचैम् ।
धर्माधर्मकलास्नेहपूर्णां वह्नौ जुहोम्यहम् ॥ ६४ ॥
वह्निजायान्वितं प्रान्ते मन्त्राभ्यां होमयेच्छिवे ।
निष्प्रपञ्चो यदा देवि जायते मन्त्रवित्तमः ॥
तदा स चिन्मयः साक्षात्केवलं ब्रह्म साधकः ॥ ६५ ॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे शक्त्यानयन-
पूजातत्त्वनिरूपणं नाम षट्त्रिंशः पटलः ॥ ३६ ॥
१ 'मर्श' क पाठ. । २ 'चा' ख पाठ. । ३ 'र्गा' क-पाठ.

सप्तत्रिंशः पटलः ।
───=० ❀ ०=───
देव्युवाच
परदारपरिष्वङ्गात् तथा नीचाभिसंगमात् ।
प्रतिलोमाभिसङ्गाच्च पातकी जायते नरः ॥ १ ॥
शक्त्यासक्तः कथं देव मुक्तः स्यात्परमेश्वरै ।
वेदशास्त्रपुराणेषु सैव मुक्तिविरोधिनी ॥ २ ॥
शक्तिर्हि जगतो मूलं सैव जगत्स्वरूपिणी ।
स्त्रियं त्यक्त्वा जगत्त्यक्तं जगत्त्यक्त्वा सुखी भवेत् ॥ ३ ॥
सर्वा सर्वत्र देवेश गर्हिता सर्वकर्मसु ।
कथं तदुपयोग्यं स्यादिति वेदविदां स्थितिः ॥ ४ ॥
ईश्वर उवाच
इदं पुनर्महेशानि पुरैव प्रतिपादितम् ।
सूक्ष्मा गतिस्तु धर्मस्य मूढैस्तन्नावबुध्यते ॥ ५ ॥
ज्ञानाद्धि निर्मलं विश्वमज्ञानात् समलं प्रिये ।
वह्निरयं महादेवि सर्वगः सर्वभोजनः ॥ ६ ॥
स कथं देवतायज्ञे वेदविद्भिर्निर्देशितः ।
जलं चापि तथा प्रोक्तं तत् पूतं कथमद्विजे ॥ ७ ॥


१ 'र' क पाठ ।

सप्तत्रिंशः पटलः । ३२३
भृङ्गोपभुक्तपुष्पाणि मक्षिकोच्चिष्टकं मधु । १
दूषणीयं सुरापानं कथं यज्ञे निदेशितम् ॥ ८ ॥
गोरसं च गवां सारं (म?तै)ल च बीजसंभवम् ।
कथं तद्विहितं दैवे पित्र्ये कर्मणि पार्वति ॥ ९ ॥
बीजनाशादनेकस्य विनाशं विद्धि सुव्रते ।
जायासु चैव सर्वासु तथा जातो जनिष्यते३ ॥ १० ॥
स सकृद्वैदिकैर्मन्त्रैः पूतो भवति पावकः ।
वैदिकैस्तान्त्रिकैः शुद्धा पवित्रियं तथा सुरा ॥ ११ ॥
दूषणं नास्ति देवेशि महाविद्याप्रसाधने ।
यस्मिन् यत्र य आचारस्तत्र धर्मस्तु तादृशः ॥ १२ ॥
अत्र भ्रमो महान् दोषस्तस्माद्भ्रान्तिं त्यज प्रिये ।
अद्वैतभावरहितो द्वन्द्वचित्तोऽथ कामुकः ॥ १३ ॥
देवताभावरहितो लौल्यभावेन वा पुनः
परशक्तिं समागच्छेत् स भवेद्गुरुतल्पगः ॥ १४ ॥
संसाराम्बुनिधेः पारं करोति विधिना च सा ।
नरकाम्बुनिधौ शक्तिः क्षिपत्यविधिना शिवे ॥ १५ ॥
विना शक्तिं विना मद्यमद्वैतभावनां विना ।
महाविद्याक्रमो यद्ध्यज्ञो घृतविवर्जितः ॥ १६ ॥
द्वैतभावे महेशानि वर्णजातिविकल्पना ।
अद्वैतभावमापन्ने लीने मनसि ब्रह्मणि ॥ १७ ॥
कः कामः को भवेदिन्द्रः को ब्रह्मा को जनार्दनः ।
को देवः कोऽसुरो यक्षः पिशाचः कोऽमरः शिवे ॥ १८ ॥
१ 'ष्टामदं मधु' क पाठ । २ 'पै' क पाठ । ३ 'ति' क पाठ ।
४ 'म' क पाठ । ५ 'ज्ञ' क पाठ । ६ 'तम्' क पाठ ।

३२४ गन्धर्वतन्त्रे ।
को द्विजः कोऽथवा शूद्रः को म्लेच्छः कोऽधमः शिवे ।
किं रूपं किं विरूपं वा को रोगी कोऽप्यनामयः ॥ १६ ॥
किं च मेध्यममेध्यं वा किं वा वस्त्वप्यवस्तु च ।
किं मित्रं किममित्रं च को वध्योऽवध्य एव वा ॥ २० ॥
किं च भक्ष्यमभक्ष्यं वा किं वा तव ममेति च ।
अविद्याकल्पितं चैतद्विद्यया च्छिन्दि संशयम् ॥ २१ ॥
स्त्रियं मम परां विद्यामिति जानीहि पार्वति ।
एकैस्या बहुधा कृत्यमेकैस्या बहुविग्रहम् ॥ २२ ॥
बहुरूपाणि देहांश्च एकस्यैा एव निश्चितम् ।
अद्वैतानन्दसंदोहो विद्ययैव प्रकाश्यते ॥ २३ ॥
शक्तियोगेषु यन्मांसं तन्मांसममृतोपमम् ।
पशुघातस्तदर्थं तु तद्विना ब्रह्महा भवेत् ॥ २४ ॥
द्वैतान् पशून्विजानीयादद्वैतान् ब्राह्मणान्विदुः ।
अतैज्ञ्ज्ञः स्तेयपापेन भुनक्ति बहुकिल्विषम् ॥ २५ ॥
मद्यपानं तु यज्ञेषु तद्विना पातकी भवेत् ।
पवित्रं सकलं भद्रे वासना यद्यकुत्सिता ॥ २६ ॥
ब्रह्मादिस्तम्बपर्यन्तं जगत् स्थावरजङ्गमम् ।
शरीरं दृश्यते यद्यत्तत्कर्म प्राकृतं शिवे ॥ २७ ॥
प्रकृत्या क्रियते कर्म साक्षी पुरुष उच्यते ।
तन्मायामोहितः सोऽथ कर्ताहमिति मन्यते ॥ २८ ॥
न कर्ता पुरुषो देवि कर्त्री प्रकृतिरुच्यते ।
पुरुषे करणं नास्ति निर्गुणत्वात् सदा प्रिये ॥ २६ ॥


१ ‘मम तरा’ क पाठ । २ ‘काया’ क पाठ । ३ ‘काया’ क पाठ ।
४ ‘काया’ क पाठ । ५ ‘यो’ क पाठ । ६ ‘तन्त्रस्य’ क पाठ ।

सप्तत्रिंशः पटलः । ३२५
तथा कैरणकर्तृत्वं¹ सगुणायां प्रतिष्ठितम् ।
यदिदं पुरुषे देवि कर्तृत्वमुपलक्ष्यते ॥ ३० ॥
स्फटिके² निर्मले देवि (यवा? जपा) रागमिवानघे ।
अहमाकाशवत्सर्वं बहिरन्तर्गतोऽच्युतः ॥ ३१ ॥
सदा सर्वसमः शुद्धो निसङ्गो निर्मलोऽचलः ।
सत्यं ज्ञानमनन्तं यत्परब्रह्माहमेव तत् ॥ ३२ ॥
ब्रह्मण्यधाय चित्तं तु कुर्वन् कर्म न लिप्यते ।
उभाभ्यामपि शक्यं स्यात्तर्तुं भवपयोनिधिम् ॥ ३३ ॥
दक्षिणेनापि कौलेन दुःखेनापि सुखेन च ।
कुम्भसंस्तरगैस्तर्तुं पोतवर्येण वाम्बुधिम् ॥ ३४ ॥
तस्मा(दिमं न? दयं व)रः कौलो दक्षिणादपि सुव्रते ।
कुलज्ञानं विना देवि नैव मुक्तिः कदाचन ॥ ३५ ॥
माया बलवती ह्येषा शक्तिर्गुणमयी³ तु या ।
प्रकृतिर्गीयते सा तु सांख्ययोगविशारदैः ॥ ३६ ॥
विद्याविद्येति सा प्रोक्ता वेदतत्त्वार्थदर्शिभिः ।
महाविद्येति सा कैश्चिन्महामायेति चापरैः ॥ ३७ ॥
शक्तिः सा सर्वभूतानामिति कैश्चिदुपास्यते ।
˙समुपासते⁴ सर्वे तां ब्रह्मविष्णुमहेश्वराः ॥ ३८ ॥
तस्या एव न मे भेदो विष्णोर्ब्रह्मण एव वा ।
योगभोगतपःक्लेशैरानम्रैरभिनन्दिता ॥ ३६ ॥
आराधिता सैव नृणां भोगस्वर्गापवर्गदा ।
परितोष्य विधानेन येन तेनैव साधकः ॥ ४० ॥


१ 'का' क पाठ । २ 'स्फा' क पाठ । ३ 'केर्गु' क पाठ । ४ 'सर्वे तां समुपासन्ति' क ख.पाठ ।

संसारनिगडैर्बद्धः पुमान् विमुच्यते तया ।
तस्यास्तोषं विना देवि विमुक्तिर्नैव विद्यते ॥ ४१ ॥
तन्निगृहीतचित्तानां पुंसां पुरुषपूजिते ।
अतस्तां च प्रयत्नेन पुरुषा मुक्तिलिप्सवः ॥ ४२ ॥
समाश्रयन्ति योगाद्यैर्नित्यानन्दस्वरूपिणीम् ।
ब्रह्मा विष्णुस्तथा चाहमात्मवत्समुपास्महे ॥ ४३ ॥
तपःक्लेशैश्च तां देवि पशुभावे स्थितो विधिः ।
संतोष्य परया भक्त्या सावित्रीं वेदमातरम् ॥ ४४ ॥
इच्छाशक्तिं च वागीशीं लब्ध्वा सृष्टिमचीकरत् ।
तनयां जगृहे मोहाद्ब्रह्मा पशुरादरधीः ॥ ४५ ॥
तज्जुगुप्सितमन्याय्यमद्यापि न निवर्तते ।
परशक्तिं पशुस्तस्मान्मनसापि न संस्मरेत् ॥ ४६ ॥
तद्भावमाश्रिता विप्रास्तामेव समुपासते ।
मित्राणां सर्वभूतानां तेषां मद्यं घृतं पयः ॥ ४७ ॥
अपूपं पिष्टकं मांसं गृह्णीयुः शक्तिदापितम् ।
अपिवा संविदासक्ता भवेयुः शक्तिमाश्रिताः ॥ ४८ ॥
दिव्यभावस्थितो विष्णुर्जगत्पालन्यरूपिणीम् ।
मधुमैरेयभोगाद्यैः संतोष्यानन्दरूपिणीम् ॥ ४९ ॥
ज्ञानशक्तिमयीं लक्ष्मीं जगदाधाररूपिणीम् ।
लब्ध्वा तु जगतः सोऽयं पालकोऽभून्निराकुलः ॥ ५० ॥
तद्भावमाश्रिता भूपास्तथैव तामुपासते ।
अथ देवाश्च दैत्याश्च मुनयो मानुषाः परे ॥ ५१ ॥

सप्तत्रिंशः पटलः । ३२७
विष्णुमेव हि सततं भजन्ते भावसिद्धये ।
स च भावविशुद्धात्मा तद्भावं तु जुगोप ह ॥ ५२ ॥
ये (नि?न)न्दन्ति च तद्भावं गोपयन्ति च सर्वदा ।
ते वै प्रियतमाः सर्वे शङ्खचक्रगदाभृतः ॥ ५३ ॥
तद्भावाद्दिमुखान् कर्तुं लोकांल्लोकेश्वरो हरिः ।
इदमादिष्टवान् देवि मामेव जगदीश्वरः ॥ ५४ ॥
भगवानुवाच
सर्वे दिव्या भविष्यन्ति मद्भावे हि प्रकाशिते ।
पशुभावं पुरस्कुर्वन् मद्भावं च विनिन्दकः ॥ ५५ ॥
आगमैः कल्पितैर्देव मद्भावाद्दिमुखान् कुरु ।
ईश्वर उवाच
तदाज्ञां शिरसि धृत्वा विष्णोरमिततेजसः ॥ ५६ ॥
तथैवाहं महेशानि कृतवांस्तन्त्रविस्तरम् ।
गोपयन्दिव्यभावं च पुरस्कुर्वन् पशोर्मतम् ॥ ५७ ॥
अत एव महेशानि वैष्णवे दर्शने खलु ।
पूजितः पशुभावश्च शक्तिनिन्दा च वि(स्मृ?स्तृ)ता ॥ ५८ ॥
या शक्तिः सर्वभूतानां द्विधा भवति सा पुनः ।
स्थूलरूपा च सा देवी सूक्ष्मरूपा च पार्वति ॥ ५९ ॥
स्थूलरूपेण सा देवी सर्वमेतज्जगत्त्रयम् ।
मोहयित्वा जनान्सर्वान् बहुरूपौ सुखेच्छया ॥ ६० ॥
संस्थिता परमेशानि लीलाकलितविग्रहा ।
स्वभावतो न जानन्ति तन्मायामोहिता जनाः ॥ ६१ ॥
१ 'पान्' क पाठ ।

३२८ गन्धर्वतन्त्रे ।
क्वचित्तां तु प्रहाराद्यैः कटूक्तिभाषणैस्तथा ।
ताडयन्ति च वै मूढा जना निरयगामिनः ॥ ६२ ॥
क्वचित्तां भूषणाच्छाद्यैः संभोगैरपि सेवया ।
पूजयन्ति हि ते धीराश्चतुर्वर्गप्रसाधकाः ॥ ६३ ॥
तेषां विप्रियकर्त्तारः पतिष्यन्ति सुनिश्चितम् ।
सूक्ष्मरूपां च तां विद्धि सर्वेषा (न्तमद?मन्त) रस्थिताम्। ६४
त्रैलोक्यजननीं देवीं मुख्येन ब्रह्मवर्त्मना ।
योजयित्वा परानन्दे परमानन्दरूपिणीम् ॥ ६५ ॥
तयोर्योगाद्यदमृतं तर्पयेत्तेन योगिनीम् ।
प्राणधारणया देवि शुद्धनाडीमनौः सुधीः ॥ ६६ ॥
प्राणान्प्रवेशयेन्नाड्या तन्मुखे चैव तान् हुनेत् ।
तद्वक्त्रे वायुना भिन्ने याति चोध्वं परेश्वरी ॥ ६७ ॥
तस्मादाकृष्य तद्वायुं कुम्भयित्वा तु संचयेत् ।
संचितैर्वायुभिस्तां च कुलवर्त्मविहारिणीम् ॥ ६८ ॥
सहस्रारे महापद्मे सितदीधितिमण्डले ।
समुन्नीय परे हंसे तयोरैक्यं धिया स्मरेत् ॥ ६९ ॥
होमाद्यं विहितं तत्र चन्द्रसूर्यात्मकं तयोः ।
स्रुक्स्रुवौ च समादाय जुहुयादव्ययं हविः ॥ ७० ॥
मूलाधारे परे चक्रे शक्तिर्या कुण्डली शुभा ।
तद्रन्ध्रमावर्ततोऽयं च बहिर्याति दिने दिने ॥ ७१ ॥
दिनेशाङ्गुलिमानेन तदर्धं चोपवासतः ।
द्विगुणं रतिकाले स्यात् त्रिगुणं भोजनाद्वहिः ॥ ७२ ॥
१ 'च सुमुढा' क पाठ । २ 'न्द' ख पाठ । ३ 'न' क पठ । ४ 'क्याधि' क पाठ ।

सप्तत्रिंशः पटलः । ३२६
अत ऊर्ध्वं वहेद्देवि त्रिदिनं यदि मारुतः ।
न्यूनं वा तद्धः प्राणः शरीरं परिमुञ्चति ॥ ७३ ॥
यावत्कालं वहेदेतद्वायुश्च जगदीश्वरः ।
तावच्चलति देहोऽयं तद्दिना चाचलः स्मृतः ॥ ७४ ॥
निश्चलं पवनं कृत्वा योगी भवति साधकः ।
वायुना नीयते बाह्ये मनस्तु प्राणिनां शिवे ॥ ७५ ॥
वायौ च सुस्थिरीभूते मनोऽपि स्थिरतां वहेत् ।
तयोरद्वैतभावे तु निश्चलत्वं गते द्वयोः ॥ ७६ ॥
देहं निरामय विद्धि यथाकामविलासिनम् ।
इह स्थित्वा यथाकामं संत्यज्य च कलेवरम् ॥ ७७ ॥
अद्वैतभावमापन्नो न स पुनरिहाव्रजेत् ।
प्रसङ्गात् कथिता देवि देहसिद्धिरनुत्तमा ॥ ७८ ॥
येन तेन विधानेन परितुष्टा महेश्वरी ।
संसारनिगडैर्बद्धः पुमान्विमुच्यते तया ॥ ७९ ॥
तस्यास्तोषं विना देवि विमुक्तिर्नैव विद्यते ।
अनिग्रहीतचित्तस्य पुरुषस्य महेश्वरि ॥ ८० ॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे शक्तिमा-
हात्म्य-देहसिद्धिवर्णनं नाम सप्तत्रिंशः पटलः ॥ ३७ ॥
१ 'ना' क पाठ.। २ 'वेन' क पाठ.। ३ 'त्वगतेस्तयो' क पाठ । ४ 'अनेनैव' ख पाठ ।
५ 'तन्नि' क पाठ ।

अष्टात्रिंशः पटलः।
—❀❀❀❀—
ईश्वर उवाच
बहुकालं पूजिता तु तुष्टा स्यात्सूक्ष्मरूपिणी ।
यथा तुष्यति भोगेन तपायोगैश्च न तथा ॥ १ ॥
अतो भोगेन तां तोष्य तथा मुक्तो भवेत्सुखी ।
मया चापि पुरा देवि सेविता योगवर्त्मना ॥ २ ॥
परितुष्टा न मे देवी सूक्ष्मरूपान्तरस्थिता ।
शक्तिहीनं च मां वीक्ष्य वनिताविमुखं तथा ॥ ३ ॥
विषण्णवदनो ब्रह्मा हृदयेन विदूयता ।
चिन्तावशमुपाविष्टो ब्रह्मा लोकपितामहः ॥ ४ ॥
मामासाद्य तथा विष्णुं ययौ क्षीरपयोनिधिम् ।
क्षीरोदस्योत्तरे तीरे रत्नद्वीपे सुशोभिते ॥ ५ ॥
तत्र स्थित्वावयोर्मध्ये ब्रह्मा ध्यानपरोऽभवत् ।
हृत्पुण्डरीकमध्यस्थे देवीपादसरोरुहे ॥ ६ ॥
मनो निधाय योगात्मा देवीसूक्तं परं जगौ ।
व्यतीते बहुकालेऽथ देवी त्रिभुवनेश्वरी ॥ ७ ॥
१ ‘लपूजितैस्तु’ क पाठ । २ ‘पवि’ क पाठ ।