सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 399, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 399

३१८ गन्धर्वतन्त्रे ।
पद्मासनसमासीनः साधकः शुद्धचेतनः ।
प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकैः ॥ ३१ ॥
हस्तावाच्छाद्य आधारयोगदण्डावलम्बिनौ ।
नयने नासिकाप्रान्ते निमेषोन्मेषवर्जिते ॥ ३२ ॥
भ्रुवोर्मध्ये स्थितश्चात्मा दन्तैर्दन्तांस्तु संस्पृशेत् ।
ओष्ठेन चाधरं चैव जिह्वया चाथ तालुकम् ॥ ३३ ॥
एषा तु सुन्दरीमुद्रा सुन्दरीमोददायिनी ।
सहस्रारे परे पद्मे आधारोत्थेन वायुना ॥ ३४ ॥
कुलदीपशिखाकारं संक्षोभ्यामृतमण्ड (नं ? लम् ) ।
सुधाधारां स्मरेद् भूयः पतितां मूलपङ्कजे ॥ ३५ ॥
एवं च सप्तधा कुर्याद्देवीसांनिध्यहेतवे ।
मूलेन ध्यानयोगेन स्मृत्वा ब्रह्ममयीं पराम् ॥ ३६ ॥
हृदये पद्ममध्ये तु बाणलिङ्गे तु तेजसि ।
तत्राचां पूजयेद्देवीं हृदये कामरूपिणीम् ॥ ३७ ॥
पूरकेन समावाह्य संस्थाप्य कुम्भकेन तु ।
देहचक्रं समापाद्य दद्यात् पाद्यादिकं मुदा ॥ ३८ ॥
कुण्डलीपात्रसंस्थेन परमामृतवारिणा ।
पाद्यं चरणयोर्दद्यात् पुनश्चार्घ्यं प्रदापयेत् ॥ ३९ ॥
सहस्रदलभृङ्गा (या ? र्याः) लुलितालुलिताच्च्युतम् ।
परमामृतपानीयं दद्यादाचमनं मुखे ॥ ४० ॥
षट्त्रिंशत्तत्त्वरूपं तु गन्धं दद्याद्विचक्षणः ।
अहिंसा परमं पुष्पं पुष्पमस्तेयमेव च ॥ ४१ ॥
१ 'हृद्या' क पाठ । २ 'च्च्युतिम्' क पाठ. ।