गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 403, कुल 446 में से
संदर्भ में पढ़ेंसप्तत्रिंशः पटलः ।
───=० ❀ ०=───
देव्युवाच
परदारपरिष्वङ्गात् तथा नीचाभिसंगमात् ।
प्रतिलोमाभिसङ्गाच्च पातकी जायते नरः ॥ १ ॥
शक्त्यासक्तः कथं देव मुक्तः स्यात्परमेश्वरै ।
वेदशास्त्रपुराणेषु सैव मुक्तिविरोधिनी ॥ २ ॥
शक्तिर्हि जगतो मूलं सैव जगत्स्वरूपिणी ।
स्त्रियं त्यक्त्वा जगत्त्यक्तं जगत्त्यक्त्वा सुखी भवेत् ॥ ३ ॥
सर्वा सर्वत्र देवेश गर्हिता सर्वकर्मसु ।
कथं तदुपयोग्यं स्यादिति वेदविदां स्थितिः ॥ ४ ॥
ईश्वर उवाच
इदं पुनर्महेशानि पुरैव प्रतिपादितम् ।
सूक्ष्मा गतिस्तु धर्मस्य मूढैस्तन्नावबुध्यते ॥ ५ ॥
ज्ञानाद्धि निर्मलं विश्वमज्ञानात् समलं प्रिये ।
वह्निरयं महादेवि सर्वगः सर्वभोजनः ॥ ६ ॥
स कथं देवतायज्ञे वेदविद्भिर्निर्देशितः ।
जलं चापि तथा प्रोक्तं तत् पूतं कथमद्विजे ॥ ७ ॥
१ 'र' क पाठ ।