गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 393, कुल 446 में से
संदर्भ में पढ़ें३१२ गन्धर्व्वतन्त्रे ।
पशुपशविनाशाय दिव्यज्ञानोपलब्धये ।
इदं पवित्रममृतं पिबामि भवभेषजम् ॥ ३२ ॥
मद्यं मांसं तथान्यत्तु यत्किंचित् कुलभूषणम् ।
शक्त्यै दत्त्वा पुनः शेषमात्मन्येव नियोजयेत् ॥ ३३ ॥
पाययित्वा पुनः पानं तन्मुखादमृतं पिबेत् ।
ततश्च शोधयेद्दीपं दीपो भवति नान्यथा ॥ ३४ ॥
आनन्दोदयपर्य्यन्तं साधकश्च पिवेन्मधु ।
कर्पूर (स ? श) कलोन्मिश्रताम्बूलपूरिताननः ॥ ३५ ॥
मदिराघूर्णनयनो दिग्वासाः कुलभूषणः ।
वदेत् सविनयं वाक्यं सिद्धिदे परमेश्वरि ॥ ३६ ॥
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ।
इति प्रसादमासाद्य कारयेत्तां दिगम्बरीम् ॥ ३७ ॥
त्रिकोणावद्भगं ज्ञात्वा सर्वसिद्धिप्रदायकम् ।
कूटत्रयात्मकं स्मृत्वा सर्वानन्दमयं स्मरेत् ॥ ३८ ॥
आत्मानं देवतारूपमद्वैतं परिचिन्तयन् ।
पूर्णचन्द्रनिभं वक्त्रं पू (र्णेर्शीं ? र्णांदिं) चुम्बनैर्यजेत् ॥ ३६ ॥
जालन्धरं महापीठं स्तनद्वयमुदीरितम् ।
अपानमूरुयुगलं कामरूपमतः परम् ॥ ४० ॥
यत्पीठं ब्रह्मणो वक्त्रं गुह्यं सर्वसुखावहम् ।
यतो देवाश्च देव्यश्च मुनयश्चैव भौवजाः ॥ ४१ ॥
सर्वेऽप्याविर्भवन्त्येते तेन गुह्यं महीतले ।
द्विविधं चैव तत्पीठं गुह्यं व्यक्तं महेश्वरि ॥ ४२ ॥
१ 'रीम्' क पाठ । २ 'मानव' ख पाठ ।