सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 401, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 401

३२० गन्धर्वतन्त्रे ।
सुनयनातिसूक्ष्मा च निराकारा निरालया ।
परानन्दमयी पूर्णा सा भवेत् सुन्दरी परा ॥ ५३ ॥
पार्थिवे पार्थिवानां च लयैः¹ कार्यः समाधिना ।
अप्सु चापां लयः कार्यः शून्ये शून्यस्य वै तथा ॥ ५४ ॥
लयो वायौ च वायूनां ध्वनौ ध्वनिं समर्पयेत् ।
ज्योतिषां च लयस्तत्र ब्रह्मरायेवं² मनोलयः ॥ ५५ ॥
मनः करोति पापानि मनः पापेषु लिप्यते ।
मनसि³ चोन्मनीभूते न धर्मो न च पातकम् ॥ ५६ ॥
एवं भावनया हृष्टः परमानन्दनिर्भरः ।
संसारसागरं धीरो गोष्पदीकुरुते शिवे ॥ ५७ ॥
भुक्तिमुक्ती⁴ करे तस्य मम तुल्यो भवेद्भुवि ।
पूजा ज्ञानमयी प्रोक्ता न तु होमस्तु तादृशः ॥ ५८ ॥
तद्रूपं विद्धि कुण्डस्य बिन्दुत्रिवलयात्मकम् ।
आनन्दमेखलारम्यं मात्रायोनिविभूषितम् ॥ ५९ ॥
तद्ब्रह्म परमं ध्यात्वा सर्वज्ञानविजृम्भिते ।
दीपितेऽग्नौ हुनेद्देवि प्रपञ्चहविरुत्तमम् ॥ ६० ॥
शब्दाख्या मातृका रूपमक्षरं⁵ तु विराजितम् ।
अक्षरं च हुतं चात्र निःशब्दं ब्रह्म जायते ॥ ६१ ॥
पुण्यपापे हविर्देवि कृत्याकृत्ये हविः शिवे ।
संकल्पश्च विकल्पश्च धर्माधर्मौ हविस्तथा ॥ ६२ ॥
धर्माधर्महविर्दीप्ते आत्माग्नौ मनसा स्रुचा ।
सुषुम्नावर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहम् ॥ ६३ ॥
१ 'य कार्ये' क पाठ । २ 'पो' क पाठः । ३ 'स्युन्म' क पाठः ।
४ 'यावि' ख पाठः । ५ 'म' क पाठ । ६ 'मौ' क पाठ ।