सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 408, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 408

सप्तत्रिंशः पटलः । ३२७
विष्णुमेव हि सततं भजन्ते भावसिद्धये ।
स च भावविशुद्धात्मा तद्भावं तु जुगोप ह ॥ ५२ ॥
ये (नि?न)न्दन्ति च तद्भावं गोपयन्ति च सर्वदा ।
ते वै प्रियतमाः सर्वे शङ्खचक्रगदाभृतः ॥ ५३ ॥
तद्भावाद्दिमुखान् कर्तुं लोकांल्लोकेश्वरो हरिः ।
इदमादिष्टवान् देवि मामेव जगदीश्वरः ॥ ५४ ॥
भगवानुवाच
सर्वे दिव्या भविष्यन्ति मद्भावे हि प्रकाशिते ।
पशुभावं पुरस्कुर्वन् मद्भावं च विनिन्दकः ॥ ५५ ॥
आगमैः कल्पितैर्देव मद्भावाद्दिमुखान् कुरु ।
ईश्वर उवाच
तदाज्ञां शिरसि धृत्वा विष्णोरमिततेजसः ॥ ५६ ॥
तथैवाहं महेशानि कृतवांस्तन्त्रविस्तरम् ।
गोपयन्दिव्यभावं च पुरस्कुर्वन् पशोर्मतम् ॥ ५७ ॥
अत एव महेशानि वैष्णवे दर्शने खलु ।
पूजितः पशुभावश्च शक्तिनिन्दा च वि(स्मृ?स्तृ)ता ॥ ५८ ॥
या शक्तिः सर्वभूतानां द्विधा भवति सा पुनः ।
स्थूलरूपा च सा देवी सूक्ष्मरूपा च पार्वति ॥ ५९ ॥
स्थूलरूपेण सा देवी सर्वमेतज्जगत्त्रयम् ।
मोहयित्वा जनान्सर्वान् बहुरूपौ सुखेच्छया ॥ ६० ॥
संस्थिता परमेशानि लीलाकलितविग्रहा ।
स्वभावतो न जानन्ति तन्मायामोहिता जनाः ॥ ६१ ॥
१ 'पान्' क पाठ ।