गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 396, कुल 446 में से
संदर्भ में पढ़ेंषट्त्रिंशः पटलः ।
—:():*():—
ईश्वर उवाच
शक्त्यन्तरं प्रवक्ष्यामि सविकल्पस्य सुन्दरि ।
स्वशक्त्या परशक्तिं च यथानयति साधकः ॥ १ ॥
अदीक्षिताङ्गनासङ्गात् सिद्धिहानिर्भवेच्छिवे ।
तस्मात् सर्वप्रयत्नेन दीक्षयेन्निजकौलिनीम् ॥ २ ॥
गुरुसैवैकमात्रेण यथा सिद्धिर्भवेन्नृणाम् ।
महापद्मवनध्यानाद् यथा सिद्धीश्वरो भवेत् ॥ ३ ॥
त्रिपुराध्यानमात्रेण जीवन्मुक्तो यथा भवेत् ।
गङ्गास्मरणमात्रेण निष्पापो जायते यथा ॥ ४ ॥
योषित्स्मरणमात्रेण तथैयं वरदायिनी ।
न स्नानं न तथा पूजा न ध्यानं न्यासं एव वा ॥ ५ ॥
मन्त्रस्मरणमात्रेण योषितां वरदायिनी ।
निजकान्तां समानीय सुशीलां सुयशस्विनीम् ॥ ६ ॥
कुलभक्तं गुरुं प्राप्य दीक्षयेत् कुलविद्यया ।
दीक्षयित्वा गुरुस्तां तु निजपुत्रीवदाचरेत् ॥ ७ ॥
अद्य प्रभृति पुत्रि त्वं कुलपूजारता भव ।
यथोपदिष्टविधिना स्वामिनं वश्यमानय ॥ ८ ॥
१ 'समेव' क पाठ । २ 'मिवश्य समानय' क पाठ ।