गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
द्वात्रिंशः पटलः । २६३
होमयेत्संस्कृते वह्नौ सहस्रं हविषा तथा ।
तस्यां संपातयेद्देवि विधिनाहुतिशेषकम् ॥ १९ ॥
संमोहनीं समुद्दिश्य गृहीत्वाज्यं स्रुवेण तु ।
बीजत्रययुतां देवि मातृकां बिन्दुसंयुताम् ॥ २० ॥
वह्निभार्यान्वितां पश्चात् कृत्वा वै¹ होमयेत्ततः ।
मण्डले मातृकादेव्याः शिष्यं निवेश्य सादरम् ॥ २१ ॥
सुरास्त्वामिति मन्त्रैस्तु नवभिः कलशैः शुभैः ।
अभिषिच्य विनीताय दद्यात्तां मुद्रिकां गुरुः ॥ २२ ॥
इयं रक्षाकरी मुद्रा विषरोगविनाशिनी ।
व्यालचौरमृगादिभ्यो रक्षां कुर्याद्विशेषतः ॥ २३ ॥
सर्ववश्यकरी शुद्धा शुद्धिदाशुद्धिहारिणी ।
तर्जन्यां धारयेदेनां विधिना मनुजेश्वरः ॥ २४ ॥
युद्धे विजयमाप्नोति श्रिया परमया युतः ।
विभजेन्मातृकां देवि नववर्गांस्तथोदितान् ॥ २५ ॥
नववर्गसमुत्पन्ना नवरत्नेश्वरा ग्रहाः ।
अर्केन्दुवक्रज्ञगुरुभृगुमन्दाहिकेतवः ॥ २६ ॥
नवरत्नैर्महेशानि मुद्रां कुर्याद्यथेच्छया ।
तद्रत्नेषु² ग्रहान्सर्वान् पूजयित्वा विधानतः ॥ २७ ॥
आवाह्य पूजयेद्देवीं संमोहनीं परां तथा ।
जपहोमादिकं सर्वं कुर्यात्पूर्वोक्तवर्त्मना ॥ २८ ॥
यो मुद्रां धारयेदेनां तस्य स्युर्वशगा ग्रहाः ।
वर्धते तस्य सौभाग्यं लक्ष्मीरव्याहता भवेत् ॥ २९ ॥
१ 'न्या' क पाठ । २ 'तेषु रत्नेषु' क पाठ ।
२६४ गन्धर्वतन्त्रे ।
द्रोहिणस्तस्य नश्यन्ति नश्यन्ति सकलापदः ।
रक्षोभूतपिशाचाद्या ने ( द्य ? त्त ) न्ते तं भयातुराः ॥ ३० ॥
उपर्युपरि वर्धन्ते धनरत्नानि संपदः ।
विना प्रतिष्ठया मुद्रां धारयित्वा पतत्यधः ॥
नाप्नोति च फलं तस्माद्धारयेद्विधिना प्रिये ॥ ३१ ॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे मुद्राधारण-
विधिनिरूपणं नाम द्वात्रिंशः पटलः ॥ ३२ ॥
त्रयस्त्रिंशः पटलः ।
—=:◇·०·◇:=—
देव्युवाच
चक्रराजस्त्वया प्रोक्तः प्रतिष्ठा न प्रकाशिता ।
ईश्वर उवाच
चक्रे मूर्तौ तथा शिष्ये प्रतिष्ठा त्रिविधोच्यते ॥ १ ॥
प्रतिष्ठितस्तथा शिष्यो दीक्षया खलु पार्वति ।
१अर्चां रत्नमयीं कृत्वा हैमीं वा राजतीं प्रिये ॥ २ ॥
प्रतिष्ठां विधिवत् कुर्यात् संस्थाप्य च गृहे शुभे ।
मासि मासि चरेद्यात्रां महाविभव२विस्तरात् ॥ ३ ॥
चतुःषष्ट्युपचारैस्तु पूजां कुर्याद्दिने दिने ।
दीक्षोक्तविधिना पूर्वमधिवासादिकं चरेत् ॥ ४ ॥
वासोभूषणगन्धाद्यैः कार्यतत्त्वार्थविद्गुरुः
उक्तेन विधिना पूर्वं कृत्यं निर्वर्त्य ३देशिकः ॥ ५ ॥
पञ्चामृतैः पञ्चगव्यैः क्षालयेच्चक्रराजकम् ।
तथाविधे गृहे वेद्यां पूजयित्वा यथाविधि ॥ ६ ॥
नानाकुसुमसौरभ्यवासितेऽतिमनोहरे ।
सुषुम्नाव (र्तिने ? र्त्मना ) चक्रं पर्यङ्केऽथ निवेशयेत् ॥ ७ ॥
————————————————————————
१ 'अर्चा' क पाठ । २ 'राम्' ख पाठ । ३ 'दै' ख पाठ ।
२६६ गन्धर्वतन्त्रे ।
कुङ्कुमागुरुकस्तूरीकर्पूरैरथ चन्दनैः ।
विलिप्य विविधैर्गन्धैः कुङ्कुमैरपि योजयेत् ॥ ८ ॥
दिव्येन वाससाच्छाद्य कर्पूरैरधिवासयेत् ।
धूपैः सुधूपितं कृत्वा दीपैरुज्ज्वल्य पार्वति ॥ ९ ॥
कर्पूरवासितैस्तोयैः पूरितान् कलशान् शिवे ।
एकाशीतिपदे तत्र स्थापयेद्वस्त्रवेष्टितान् ॥ १० ॥
हेमगर्भांन्समाञ्छुद्धान् पुष्पमालाद्यलंकृतान् ।
एकाशीतिपदोपेतं चतुरस्रं तु मण्डलम् ॥ ११ ॥
ब्रह्मचारी गुरुस्तत्र सशिष्यश्चापि संविशेत् ।
प्रातरेव तु तत्सर्वं विनिर्वर्त्य विधानतः ॥ १२॥
पूर्वोक्तेन विधानेन प्रविशेन्मण्डपे गुरुः ।
पूर्ववदपरं कृत्वा आसनमुपविश्य च ॥ १३ ॥
तथासनं च निर्वर्त्य चक्रमुत्थापयेत् ततः ।
पञ्चामृतैः पञ्चगव्यैः क्षालयित्वा विधानतः ॥ १४ ॥
निधाय भद्रपीठे च तत्र देवीं विभावयेत् ।
क्षौद्राज्यदुग्धैः प्रथमं नारिकेलाम्भसा ततः ॥ १५ ॥
इक्षुरसैस्तथा तोयैरभिषिच्य समन्त्रकम् ।
तैरेव कलशैः सम्यगभिषिञ्चेद्यथाविधि ॥ १६ ॥
सर्वतीर्थाम्बुपूर्णेन भृङ्गारेणाभिषिच्य वै ।
चक्रं कराभ्यामुद्धृत्य स्थापयेद्धेमपीठके ॥ १७ ॥
ततो देवीं हृदि ध्यात्वा यथोक्तध्यानयोगतः ।
आवाह्य चक्रमध्ये च तथैवैकाग्रचित्तवान् ॥ १८ ॥
१ 'कराभ्यामुद्धृत्य तच्चक्र' क पाठ ।
त्रयस्त्रिंशः पटलः । २६७
निर्वर्त्य विधिना देवि चक्रं स्पृष्ट्वा करेण च ।
कुङ्कुमागुरुकस्तूरीरोचनाचन्दनेन्दुभिः ॥ १६ ॥
विलिप्यथ पुनश्चक्र सुवर्णस्य शलाकया ।
रेखोन्मीलनमापाद्य यजेदाधारपूर्वकम् ॥ २० ॥
प्राणप्रतिष्ठामन्त्रेण प्राणांस्तत्र निवेशयेत् ।
ॐक्षीरोदधिः सनादेन बिन्दुना परिमण्डितः ॥ २१ ॥
नकुलीशोऽग्निमारूढो मायानादेन्दुलाञ्छितः ।
कामदेवोऽग्निमारूढः सद्योजातेन भूषितः ॥ २२ ॥
नादबिन्दुकलायुक्तः सर्वप्राणप्रदायकः ।
बीजत्रयमिठं देवि शिवबीजं सचन्द्रकम् ॥ २३ ॥
तदन्ते परमेशानि (ख ? स) र्गवान् भृगुरव्ययः ।
ततो भू(यात्तु ? यस्तु) षष्ठ्यन्ता महात्रिपुरसुन्दरी ॥ २४ ॥
क्रमात्प्राणा इह प्राणास्तथा जीव इह स्थितः ।
अमुष्याः सर्वेन्द्रियाणि भूयोऽमुष्याश्च पार्वति ॥ २५ ॥
वाङ्मनोनयनश्रोत्रघ्राणप्राणास्तथैव च ।
पश्चादिहागत्य सुखं चिरं तिष्ठन्त्वग्निप्रिया ॥ २६ ॥
अयं प्राणमनुः ॐप्रोक्तः सर्वजीवप्रदायकः ।
अनेन मनुना देव्याः प्राणांस्तत्र निवेश्य च ॥ २७ ॥
स्पृशञ्जपेत् कराग्रेण श्रीचक्रं पूजयेत्ततः ।
उपचारैस्तथा प्रोक्तैस्त्रिसंध्यं त्रिदिनं यजेत् ॥ २८ ॥
ॐ सनादादि क्षीरोदधि आँ, रेफमारूढो नकुलीशो ह मायादिना ईबीजेन लाञ्छितः ।
कामदेव क अग्नि रेफ सद्योजात ओ तेन क्रौं, शिवबीज सचन्द्रकमिति हस, । तत
सर्गवानित्यादिना सोहमिति बीजोद्धार ।
ॐ आँह्रीँक्रौँहस सोह महात्रिपुरसुन्दर्या , प्राणा इह प्राणा १५ जीव इह स्थित १५
सर्वेन्द्रियाणि १५ वाङ्मनोनयनश्रोत्रघ्राणप्राणा इहागत्य सुख चिर तिष्ठन्तु स्वाहेति स्पष्टम् ।
१ 'न्मे' क पाठ ।
२६८ गन्धर्वतन्त्रे ।
तत्र तत्र महादेवीं होमयेद्विधिना तथा ।
अष्टोत्तरशतं देवि पायसैर्मधुराप्लुतैः ॥ २९ ॥
वाद्यैर्नानाविधैर्देवि नृत्यगीतपुरःसरैः ।
जयशब्दान्वितैः स्तोत्रैर्महोत्सवमुदान्वितः ॥ ३० ॥
कृत्वाथ गुरुवे दद्याद्दक्षिणां पूर्वसूचिताम् ।
प्रमदाः परितोष्याथ ब्राह्मणानपि तोषयेत् ॥ ३१ ॥
एवं देवि प्रतिष्ठायां देवीसांनिध्यकारकः ।
यन्त्रे मन्त्रे कुले चैव कुलालंकरणे तथा ॥ ३२ ॥
त्रैपुरे चास्त्रशस्त्रे च पूजयेद्वा तथात्मनि ।
प्रतिमायां तथा वह्नौ शिवलिङ्गे तथा गुरौ ॥ ३३ ॥
पूजाधाराणि देवेशि कथितानि मयानघे ।
नान्यत्र पूजयेद्देवीं यदिच्छेदात्मनो हितम् ॥ ३४ ॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे चक्रराज-
प्रतिष्ठानिरूपणं नाम त्रयस्त्रिंंशः पटलः ॥ ३३ ॥
१ 'शा' क पाठ. । २ 'दि' क पाठ ।
चतुस्त्रिंशः पटलः।
—=०४०=—
ईश्वर उवाच
कुलाचारं शृणु प्राज्ञे प्रकीर्णं कथ्यते मया ।
(अमा?विना मान्) दक्षिणां वामं नोपोष्या परमां यजेत् ॥ १॥
प्राणिहिंसां न कुर्वीत न चात्मानं प्रपीडयेत् ।
हेतुद्रव्यमनास्वाद्य न स्मरेत्सुन्दरीं शिवे ॥ २॥
विना मद्येन मांसेन परस्त्रीरमणं विना ।
यजनं तु महादेव्या अगव्यं भोजनं यथा ॥ ३॥
अनैन्दवमगत्यं च भोजनं मृतभोजनम् ।
उपवासव्रतं नैव कुर्यादिह कदाचन ॥ ४॥
दुर्गन्धवदनो वापि विरागवदनोऽपि च ।
अकौलभूषणो वापि रक्तपुष्पविवर्जितः ॥ ५॥
अविश्वासहृदा युक्तः शिवस्य पत्रधारकः ।
तथा नान्यमना भूत्वा सुन्दरीं समुपासयेत् ॥ ६॥
अतो न तुलसीपुष्पैस्तत्पत्रैर्न यजेत्पराम् ।
कन्यायोनिं न वीक्षेत³ बीभत्सं न विलोकयेत् ॥ ७॥
न नग्नां नान्ययोषां च न वीक्षेतप्रकटस्तनीम् ।
क्रीडाकुलकुमारीणां दर्शनाद्वन्दनं शिवे ॥ ८॥
१ 'नैवो' क पाठ. । २ 'च' क पाठ । ३ 'यु' क पाठ. ।
३०० गन्धर्वतन्त्रे ।
न दुष्यति मनो येन नारीणां तत्समाचरेत् ।
नारीणां विप्रियं कृत्वा सिद्धोऽपि नश्यति ध्रुवम् ॥ ९ ॥
नैकवारं समश्नीया(न्नहृत्य ? न्नाहार्य)पूतिगन्धयुक् ।
स्वयं हृद्यं स्थिरं स्वादु प्रशस्तं मधुरं तथा ॥ १० ॥
आहा(रं ? र्य) साधकेन्द्राणामल्पमल्पतरं शिवम् ।
कट्वम्ललवणानां च नातिप्रियतरं भवेत् ॥ ११ ॥
यद्भुक्ते जीर्यते शीघ्रं तदश्नीयान्न चाधिकम् ।
यदिच्छा जायते भोक्तुं तदश्नीयादपूर्णकम् ॥ १२ ॥
एकदाच्छादिते वह्नौ नैव वृद्धिं प्रयाति सः ।
तस्मात्सावहितो वह्निं व(न्ध ? र्ध)येद्भुक्तैमा(ज्ञ ? त्र)तः ॥ १३ ॥
समाने तु स्थिते वह्नौ शरीरं स्यान्निरामयम् ।
निरामये शरीरे तु सर्वकर्माणि साधयेत् ॥ १४ ॥
विषमस्थो यदा वह्निः शरीरं स्यान्निरर्थकम् ।
शरीरं तु मनुष्याणां पुरुषार्थैकसाधकम् ॥ १५ ॥
तस्मात् सर्वप्रयत्नेन (शु ? शो)धयेत्तन्निरामयम् ।
देवाँ अपि जयन्त्यत्र किं पुनर्मानवादयः ॥ १६ ॥
भवाब्धेस्तरणोपायं तरणी वर्ष्म चोच्यते ।
निर्गदेन शरीरेण सुखं तरति दुस्तरम् ॥ १७ ॥
सरुजा व(र्त्म ? र्म)णा देवि जीवनं विफलं शिवे ।
धूमागारे चान्धकारे चाज्ञाते पूजनं शिवे ॥ १८ ॥
नरकाय महादेवीः पूजनं विद्धि पार्वति ।
सत्ये चास्थिगताः प्राणास्त्रेतायां मांसगा मताः ॥ १९ ॥
१ 'शे' क पाठ । २ 'युक्तिमात्रतः' ख पाठ । ३ दैवात्त्वपि यज' क पाठ. ।
४ 'ने' क पाठ ।
चतुस्त्रिंशः पटलः । ३०१
द्वापरे त्वग्गताः प्राणाः कलावन्नगता मताः ।
निराहारव्रतं देवि कलौ तेन विवर्जितम् ॥ २० ॥
बलिदानं विना हिंसां कलौ नैवात्र कारयेत् ।
न स्वयं छेदयेद्देवि बलिं साधकसत्तमः ॥ २१ ॥
बलिदानं विना देव्याः प्रीतिर्नान्यैस्तथा भवेत् ।
प्रोक्षणे तु परो मन्त्रः सोऽयमेव प्रकीर्तितः ॥ २२ ॥
उत्बुध्यस्व पशो त्वं हि नापरस्त्वं शिवोऽसि हि ।
शिवोत्कृत्यमिदं पिण्डमतस्त्वं शिवतां व्रज ॥ २३ ॥
बहवो नैव हन्तव्या यदीच्छेदात्मनो हितम् ।
बहवो यत्र हन्यन्ते तत्र कृत्या क्षयंकारी ॥ २४ ॥
भवत्येवाचिरेणैव बन्धनोच्चाटनं शिवे ।
आत्मप्राणसमा देवि परेषामपि सा कथा ॥ २५ ॥
परहिंसाभवोऽधर्मः क्रमात् सर्व हरिष्यति ।
य इहात्मकृते देवि परान्निष्पीड्य जीवति ॥ २६ ॥
नेहापि लभते सिद्धिं परत्रापि कदाचन ।
यो वा विधिमनादृत्य जन्तून् हत्वा शिवां यजेत् ॥ २७ ॥
भवन्त्येव महोत्पाता (य ? स्त) त्र तस्य न संशयः ।
यज्ञादिषु महेशानि हिंसया दारुणाज्ञया ॥ २८ ॥
परहिंसाभवोऽधर्मः परिणामेऽतिदुःखदः ।
तथैव प्रतिजानेऽहं मोहात्किं वा न दृश्यते ॥ २६ ॥
कियत्कालसुखावाप्तिकाम्यया कामुकान् शिवे ।
हन्तीह परमो मोहः परमोहः सुदारुणः ॥ ३० ॥
१ 'शोस्तुष्टि नापरस्त' क पाठ । २ 'शिवायत्तमित्क पाठ ।
३ 'निष्पाद्य' क पाठ । ४ 'नीहि' ख पाठ । ५ 'प्ति' क पाठ ।
३०२ गन्धर्वतन्त्रे ।
ममत्व१समता देहे प्रिये चातिसुदुर्लभे ।
तस्मादेषु महद्दुःखं नान्यत्र खलु पार्वति ॥ ३१ ॥
देहत्यागे शुनो य(स्मा ? द्व)त्तथेन्द्रचन्द्रयोरपि ।
आव्रयोर्जायते प्रीतिः कामदा कामुकस्य च ॥ ३२ ॥
न शस्तं मारणं कर्म ब्रह्मासौ ब्रह्मसाधके ।
यदा सर्वाणि भूतानि स्वात्मैव परिपश्यति ॥ ३३ ॥
सर्वभूतमित्वात्मानं ब्रह्म संपद्यते तदा ।
शक्तिर्महेश्वरो ब्रह्म त्रयस्तुल्यार्थवाचकाः ॥ ३४ ॥
स्त्रीपुंनपुंसको भेदः शब्दतो न परार्थतः ।
अन्ते सिद्धिर्भवेत्पुंसां वशगा भोगमोक्षदा ॥ ३५ ॥
स्त्रीणामपीह पुरुषो वशगः सर्वसिद्धिदः ।
नपुंसकात्मकं तत्तु स्वयमेव प्रकाशते ॥ ३६ ॥
द्वयोरेकतरद्वैतयोगान्मत्तैकभावना ।
निष्ठीवनं२रवं छिक्कामधोवायुविसर्जनम् ॥ ३७ ॥
पूजामध्ये तु यः कुर्यात् स भवेद्योगिनीपशुः ।
देशानां व्यवहारा(णि ? दि)विज्ञाय मतिमान् सदा ॥ ३८ ॥
पञ्चमादिपराम(र्षः ? र्श)स्वतन्त्रो न भवेत् क्वचित् ।
यत्र देशे य३ आचारस्तत्र धर्मस्तु तादृशः ॥ ३६ ॥
अविरोधः सर्वभूतैः परिपन्थिषु निग्रहः ।
अनुग्रहः संश्रितेषु देववत् पुरुषेऽपि च ॥ ४० ॥
गुरुपुत्रकलत्रादि गुरुवदेव संश्रयेत् ।
पर्वसु च विशेषार्चां कुलवृक्षान्नपल्लवः ॥ ४१ ॥
१ 'त्व ममता' क पाठ । २ 'वूल वर शूका' क पाठ ।
३ 'च' क पाठ । ४ 'क्षौन्' क पाठ ।
चतुस्त्रिंशः पटलः । ३०३
अनिच्छा मिथ्यावचने परदारधनेषु च ।
स्वस्तुतौ परनि(न्देच?न्दायां)आनन्दंचापि न स्पृशेत् ॥ ४२॥
संभाष्याभिमुखीं शक्तिं नासंभाष्य व्रजेत् क्वचित् ।
स्त्रीणां समूहमालोक्य प्रणमेद्भावतत्परः ॥ ४३ ॥
पुण्ड्रेक्षुदण्डजातानि भक्षयेन्न कदाचन ।
प्राज्ञेनैव सदा कार्या पूजा सर्वसमृद्धिदा ॥ ४४ ॥
आगमोक्तविधौ दृष्ट्या त्यजेद्दोषं¹ तु पञ्चमे ।
स्नायात् सुगन्धिसलिलैः स्याद्देहो निर्मलो यथा ॥ ४५ ॥
निर्मलं धारयेद्वासः सर्वदा निर्मलः शुचिः ।
सुस्निग्धदेहवदनो न रूक्षः स्यात् कदाचन ॥ ४६ ॥
कृत्वा सुमङ्गलं देहं मृदुभाषणतत्परः ।
न बहु प्रलपेद्धीरो नैव रूक्षं कदाचन ॥ ४७ ॥
गन्धर्वरूपवान् भूत्वा वीणावादनतत्परः ।
मदिराघूर्णनयनो मदिराक्षीसमन्वितः ॥ ४८ ॥
सर्वदा देवताभावः संगीतरसपारगः ।
यतिर्वा भूपतिर्वापि प्रशस्तः साधकोत्तमः ॥ ४६ ॥
भूपतिर्व्यस्तसंभारैर्यतिरिन्द्रियनिग्रहैः ।
चतुराश्रमिणां मध्ये ह्यवधूताश्रमो महान् ॥ ५० ॥
खादन् मांसं पिबन् मद्यं विषयी विषयान्(यु?जु)षन् ।
रामारमो रमणीभिर्भूषिताभिर्विभूषितः ॥ ५१ ॥
तत्तदानन्दसंदोहैरानन्दितान्तरात्मवान् ।
निस्पन्देन्द्रियवान् यस्तु सोऽवधूतो यतिर्महान् ॥ ५२ ॥
१ 'पमप' क पाठ । २ 'चि' क पाठ ।
३०४ गन्धर्वतन्त्रे ।
स्रक् चन्दनं च वस्त्रादि भूषणं यद्विलेपनम् ।
यदृच्छयोपपन्नं यत् तदप्यन्यैर्निवेदितम् ॥ ५३ ॥
अगृध्नुदुपयुञ्जीत न चासक्तमना भवेत् ।
एकान्तविजने रम्ये सदा योगं समभ्यसेत् ॥ ५४ ॥
इन्द्रियाणि यदा भिक्षोश्चञ्चलानि महात्मनः ।
तदा पर्यटनं कार्यं तीर्थादिषु प्रयत्नतः ॥ ५५ ॥
विभूतिभूषणो भिक्षां कुर्वन्नैकत्रै संवसेत् ।
त्वं मातर्देहि मे भिक्षां कुण्डलीं तर्पयाम्यहम् ॥ ५६ ॥
विभूतिमतुलां प्राप्य न मत्तो नैव मत्सरी ।
संपत्तौ च निरानन्दः समरूपगुणान्वितः ॥ ५७ ॥
सर्वदानन्दहृदयो दानभोगपरायणः ।
प्रासादे चोत्तमे रम्ये लाक्षारुणसमप्रभे ॥ ५८ ॥
दिव्योपकरणैर्युक्ते मणिकाञ्चनभूषिते ।
परार्ध्यास्तरणे रम्ये रत्नसिंहासने शुभे ॥ ५९ ॥
नानाकुसुमसौरभ्यसुरभीकृतदिङ्मुखे ।
चन्दनागुरुकर्पूरधूपैः संमोदितान्तरे ॥ ६० ॥
कर्पूरज्वलितैर्दीपैरुज्ज्वले रत्नसंज्वले ।
शरच्चन्द्रनिभं छत्रं मुक्तामाणिक्यमण्डितम् ॥ ६१ ॥
हेमदण्डशिखालम्बिश्वेतचामरभूषितम् ।
निधायोर्ध्वं विशेत् तत्र कृतासनपरिग्रहः ॥ ६२ ॥
चन्दनागुरुकर्पूरमृगनाभिविलेपितः ।
सर्वशृङ्गारवेशाढ्यो रत्नभूषाविभूषितः ॥ ६३ ॥
१ 'न्न चिरं वसेत्' क पाठ । २ 'लीस्त' क पाठ । ३ 'र' क पाठ ।
चतुस्त्रिंशः पटलः । ३०५
स्रग्भिर्विचित्रभूषाभिर्भूषितोऽतिमनोहरः ।
कर्पूरशकलोन्मिश्रताम्बूलपूरिताननः ॥ ६४ ॥
निर्वृत्ताखिलचिद्वृत्तिर्मदिराघूर्णलोचनः ।
विधाय पुरतः शक्तिं सुवेशां सुमनोहराम् ॥ ६५ ॥
दुकूलक्षौमकौशेयैर्नानारत्नैर्विराजिताम् ।
निर्लेपं निर्गुणं शुद्धमात्मानं त्रिपुरामयम् ॥ ६६ ॥
आत्माभेदेन संचिन्त्य याति तन्मयतां नरः ।
भोगेन मोक्षमाप्नोति स्वयं त्रिपुरभैरवः ॥ ६७ ॥
तत एव समुत्पन्ना ब्रह्मविष्णुमहेश्वराः ।
तदेवैते न संदेहस्तस्माद्भिन्नं न भावयेत् ॥ ६८ ॥
भेदावभाषिणो मूढाः पतन्त्येव वरानने ।
सर्वदो सर्वदाः सर्वास्तोषयेद्भूषयेत् स्त्रियः ॥ ६६ ॥
वासोभूषणगन्धाद्यैः पेयैर्भक्ष्यैर्मुदान्वितः ।
प्रथमे राजसो भूत्वा द्वितीये तामसो भवेत् ॥ ७० ॥
तृतीये सात्त्विको धर्मी तुर्ये पञ्चपरायणः ।
पूजाहोमजपान्तेऽस्या बलिभिः शत्रुनिग्रहैः ॥ ७१ ॥
दानभोगैस्तृतीये च चतुर्थे संमतात्मनः ।
तच्चित्तस्तद्गतप्राणो मदिरामदविह्वलः ॥ ७२ ॥
सात्त्विको दिव्यभावस्तु स्थिराय जायते पुनः ।
नाशाय (सै ? चै) व भावस्तु तामसः खलु मानुषे ॥ ७३ ॥
विपर्ययाद्भवेन्मृत्युर्कालसंभवः शिवे ।
विषशस्त्रजनैश्चौरैर्दस्युभिर्वा वरानने ॥ ७४ ॥
१ 'परित' क पाठ । २ 'पे' क पाठ । ३ 'भामिन्यो' क पाठ । ४ 'दा' क पाठ ।
५ 'चतुर्थे' क पाठ । ६ 'म' क पाठ । ७ 'त्ता' क पाठ । ८ 'णा' क पाठ ९ 'क्षा' क. पाठ. ।
३०६ गन्धर्वतन्त्रे ।
विनाशं तस्य दुर्बुद्धेः समूलं विद्धि पार्वति ।
पुत्रमित्रकलत्रादिसुहृद्धृत्यादयोऽपरे ॥ ७५ ॥
विप्रा भ्रात्रादयो यस्य वि (सी? षी) दन्ति सुदुःखिताः ।
दुश्चरित्राः स्त्रियो यस्य भवन्त्यन्तःपुरे शिवे ॥ ७६ ॥
मृगयाभिरतिर्यस्य दुरोदरप्रियस्य च ।
अद्भुतानि च जायन्ते हाहाकारयुताः प्रजाः ॥ ७७॥
पीडिताः क्लेशविक्षिन्ना विपत् तस्य पदे पदे ।
यस्यैते चातिसंतुष्टाः सुस्था मङ्गलशंसिनः ॥ ७८ ॥
तस्यायुर्वर्धते नित्यं महालक्ष्मीः स्थिरा गृहे ।
कलहो यस्य देवेशि विना कारणमापतेत् ॥ ७६ ॥
नार्योऽमङ्गल (संशि ? शंसि) न्यस्तस्य हानिं विनिर्दिशेत् ।
एतेषामपि चान्येषां दोषाणां ग्रहसंकटे ॥ ८० ॥
आयुर्वृद्धौ तथा शान्त्यै कोटिहोमं चरेन्नृपः ।
कोटिहोमात् परं नास्ति कर्म रिष्टिविनाशने ॥ ८१ ॥
न तत्तुल्यं तथा रैक्षां महोत्पातविनाशनम् ।
पुरश्चर्यां प्रकुर्वीत संध्यासु जपतत्परः ॥ ८२ ॥
वर्षेकेन हि तत् सिद्ध्येत् सर्वविघ्नविनाशनम् ।
ज्ञानलोपो भवेद्यस्य मद्यपानात् सुलोचने ॥ ८३ ॥
विकारं जनयेद्वापि स पुनर्यात्यधोगतिम् ।
प्रलापो भ्रंशनं हास्यं क्रोधोन्मादभयानकाः ॥ ८४ ॥
आलस्यं चातिचिन्ता च परानिष्टप्रवर्तनम् ।
हिंसासूथा तथेर्ष्या च दम्भमोहौ प्रमादता ॥ ८५ ॥
१ 'नि' क पाठ । २ 'राज्ये' क पाठ । ३ 'प' क पाठ ।
चतुस्त्रिंशः पटलः । ३०७
आवेशो मरणं मूर्च्छा विकाराः समुदीरिताः ।
समता सर्वभूतेषु मानापमानयोः समः ॥ ८६ ॥
समः शत्रौ च मित्रे च समलोष्टाश्मकाञ्चनः ।
ब्रह्मचिन्तोद्द्भवानन्दनिवृत्तबाह्यचित्तता ॥ ८७ ॥
सर्वकालेषु सर्वत्र समत्वं निर्विकारता ।
चक्षुषोरनिमेषत्वं मधुरस्मितभाषणम् ॥ ८८ ॥
अमृतस्य गुणा एते कथिता भुवि दुर्लभाः ।
वैराग्यं च मुमुक्षुत्वं त्यागिता सर्ववश्यता ॥ ८९ ॥
अष्टाङ्गयोगाभ्यसनं भोगेच्छापरिवर्जनम् ।
सर्वभूतेष्वनुकम्पा सर्वज्ञादिगुणोदयः ॥ ९० ॥
इत्यादिगुणसंपत्तिः सिद्धेर्लक्षणमुच्यते ।
ख्यातिर्वाहनभूषादिलाभः सुचिरजीवनम् ॥ ९१ ॥
नृपाणामङ्गनानां च राजत्वं लोकवश्यता ।
महैश्वर्यं धनित्वं च पुत्रदारादिसंपदः ॥ ९२ ॥
अधसाः सिद्धयः प्रोक्ता मन्त्रिणां प्रथमस्त्विह ।
सिद्धयस्तु सुराः साक्षान्मानवानामसंशयः ॥ ९३ ॥
यत्कृते परमेशानि निःश्वसन्ति कुलाङ्गनाः ।
साश्रुपातं विना पञ्च गद्गदं भृशदुःखिताः ॥ ९४ ॥
तस्य स्युर्विफलाः सर्वाः क्रियाः सर्वत्र चोदिताः ।
कान्तासंतापजो वह्निर्दहत्यासप्तमं कुलम् ॥ ९५ ॥
कान्ताः संतोषयेत् तस्माद्विप्रियं न मनाक् स्पृशेत् ।
संसिद्धेः कारणं कान्ता मूलं संसारवर्त्मसु ॥ ९६ ॥
१ 'स्व' क पाठ ।
३०८ गन्धर्वतन्त्रे ।
जाया मुख्यतमा प्रोक्ता यादौ पाणिप्रपीडिता ।
जायते स्वयमेवास्यां जाया तेन निगद्यते ॥ ६७ ॥
एका पतिव्रता भार्या साध्वी चेत्सहचारिणी ।
किमन्याभिर्महेशानि यथैवाहं त्वया प्रभुः ॥ ६८ ॥
श्रिया विष्णुः सरस्वत्या ब्रह्मा शच्या पुरंदरः ।
एकया चेप्सितं (कृत्वा १ कार्यं) मनसाकृष्य पूरुषम् ॥ ६६ ॥
त(स्याप्ये २ स्मादे) कां समासाद्य नाप्यन्यां मनसा स्मरेत्।
जाया चेत् कुलटा गेहे स्वयं कुलोपचारकः ॥ १०० ॥
मूषिकोपहतं कोषं तथा तस्य तदीरितम् ।
प्रयत्नेन विना देवि या स्वयमभिकाङ्क्षति ॥ १०१ ॥
यदा तदा तु सा तस्य परकीया न चोच्यते ।
हठादाकर्षते यस्तु प्रलोभ्य च धनादिभिः ॥ १०२ ॥
परकान्तां महेशानि स याति चाधमां गतिम् ।
स्वकान्ता परकान्ता वा कामविरहिता शिवे ॥ १०३ ॥
या नेच्छन्तीप्सयाश्रद्धां तां गत्वा च तथा भवेत् ।
दुःशीला तु यदा नारी त्यजेत् तां नैव ताडयेत् ॥ १०४ ॥
अतिदुष्टां स्त्रियं देवि नीचपुरुषगामिनीम् ।
राजद्वारे च दिग्वस्त्रां त्यजेत् तां नैव संश्रयेत् ॥ १०५ ॥
कुलशास्त्रं कुलाचारान्४ कामयागमनुत्तमम् ।
अयोग्येषु प्रकाशयैव सिद्धोऽपि नश्यति ध्रुवम् ॥ १०६ ॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे कुला-
चारवर्णनं नाम चतुस्त्रिंशः पटलः ॥ ३४ ॥
१ 'कं' ख पाठ । २ 'न्य' ख पाठ । ३ 'त्वाप्ता' ख पाठ । ४ 'रं कुल' क पाठ ।
पञ्चत्रिंशः पटलः ।
————— ❖❖❖❖❖ —————
देव्युवाच
साधका गुप्तरूपाश्च तेषां साध्यं कथं भवेत् ।
साध्यं च कीदृशं देव काम्यं वा कीदृशं भवेत् ॥ १ ॥
पूजा च कीदृशी कार्या तन्मे वद सुविस्तरात् ।
ईश्वर उवाच
अत्यन्तगुप्तरूपेण काम्यं कृत्वार्चयेन्नरः ॥ २ ॥
तदा तत्काममाप्नो (ति म ? त्यान) न्दभाक् शक्तिपूजनात् ।
पूजाफलेन दौर्भाग्यं दुःखदारिद्र्यसंकुलम् ॥ ३ ॥
सर्वं प्रशमनं याति चेश्वरो जायते भुवि ।
अतिगुप्ततरं यस्मात् तस्माद्रात्रौ विधीयते ॥ ४ ॥
प्रकटे कार्यहानिः स्यात् क्रुद्धा भवति सुन्दरी ।
गुरुभक्तिविहीनस्य विफलं साधनं प्रिये ॥ ५ ॥
अहं गुरुप्रसादेन सर्वगः सर्ववित् प्रभुः ।
शक्तेः पूजा सदा कार्या प्रसन्ना येन सा भवेत् ॥ ६ ॥
विफला शक्तिरहिता पूजाऽऽसंवप्रसारिणी ।
ध्यानमानन्दरहितं यथा निष्फलमद्रिजे ॥ ७ ॥
शक्तौ दर्पं घृणां लज्जा वर्जयेत् क्रोधमत्सरम् ।
कदाचिद्दर्परूपेण पुष्पेणापि न ताडयेत् ॥ ८ ॥
शक्तौ न विस्मयः कार्यों यस्मात्सा तत्स्वरूपिणी ।
विस्मिता विलयं यान्ति पशवः शास्त्रमोहिताः ॥ ६ ॥
————————————————————————————————
१ 'र्वे' क पाठ :
३१० गन्धर्वतन्त्रे ।
सु¹भक्त्या प्रणमेद्यस्तु शक्तिमेकाग्रचेतसा ।
तस्य सर्वार्थसिद्धिः स्यादन्ते मोक्षमवाप्नुयात् ॥ १० ॥
निश्चयं मुक्तिमाप्नोति सहस्रैशक्तिपूजनात् ।
शक्तिपूजासु विमुखः पामरः पुरुषाधमः ॥ ११ ॥
स निर्लज्जः कथं ब्रूते पूजयामि महेश्वरीम् ।
पूजाहोमं विना चेह नाधिकारः कथंचन ॥ १२ ॥
विना होमं महेशानि शक्तियागमकारणम् ।
शक्तियागं विना होमो निष्फलो नात्र संशयः ॥ १३ ॥
तस्माद्भावविशुद्धात्मा सर्वतन्त्रार्थकोविदः ।
साधकोऽपि च तत्त्वज्ञो नित्यं शक्तिं समाश्रयेत् ॥ १४ ॥
मदिराया न वा शक्तौ जातिवृत्तिं विचारयेत् ।
नानाजातिषु सम्भूतां व्रजेत् संप्राप्य न त्यजेत् ॥ १५ ॥
सर्वशङ्काविनिर्मुक्तः सर्वज्ञः साधकोत्तमः ।
शक्तियागविधिं कृत्वा भवेद्भूमौ पुरन्दरः ॥ १६ ॥
पूजयेदर्थरात्रे च निर्जने पशुवर्जिते ।
सर्वालंकारसुभगो गन्धचन्दनभूषितः ॥ १७ ॥
आकृष्य विमलां शक्तिं रमणीं वामलोचनाम् ।
हारा³लंकारसुभगां घृणालज्जाविवर्जिताम् ॥ १८ ॥
परार्ध्यास्तरणे रम्ये स्थापयेत्² तूलिकोपरि ।
स्थापयेत् सुरया पूर्णं कुम्भं वामे सुवासितम् ॥ १६ ॥
आनन्दहृदयं कृत्वा सद्यः प्रसन्नमानसः ।
गुरुं नत्वा विधानेन ह्यमृतं तद्विचिन्तयेत् ॥ २० ॥
१ ‘स्व’ क पाठ । २ ‘स्र’ ख पाठ । ३ ‘नाना’ ख पाठ । ४ ‘दाफलो’ क ख पाठ ।
पञ्चत्रिंशः पटलः । ३११
मांसं मत्स्यं तथा मुद्रां विधाय पुरतः शिवे ॰१।
अर्घ्यपात्रं तदा वह्निसूर्यसोमामृतं स्मरेत् ॥ २१ ॥
सिन्दूरेण ललाटेऽस्याः कृत्वा तिलकमद्रिजे ।
साध्यं च विलिखेत्तत्र मूलविद्याविदर्भितम् ॥ २२ ॥
गन्धैः पुष्पैस्तथा माल्यैर्भूषयित्वा तु तां पुनः ।
कृत्वा धूपेन सौगन्ध्यं दीपानुज्ज्वल्य पार्वति ॥ २३ ॥
नाभेश्चरणपर्यन्तं वाग्भवं कूटमुत्तमम् ।
हृदयान्नाभिपर्यन्तं कामबीजं प्रविन्यसेत् ॥ २४ ॥
शिरसो हृत्प्रदेशान्तं तदीयं परिभावयेत् ।
सर्वदेवमयं देहं सर्वमन्त्रमयं वपुः ॥ २५ ॥
चिन्तयेत्साधकः शक्तिं साक्षात् कामेश्वरीं पुरः ।
हृदि हस्तं समादाय जपेदष्टोत्तरं शतम् ॥ २६ ॥
आत्मानं चिन्तयेत्कामं शक्तिं कामेश्वरीं पराम् ।
मुहुर्मुहुः पिबेन्मद्यं शक्तिजिह्वावलोडितम् ॥ २७ ॥
मन्त्रशुद्धं पिबेन्मद्यं निःशब्दं हास्यवर्जितः ।
भोजनान्ते विषं पानं पानान्ते भोजनं विषम् ॥ २८ ॥
अमृतं तद्विजानीयाद् यदन्नं सुरया सह ।
विष्णुना च पुरा पीतौ३ शंकरेण ततः परम् ॥ १६ ॥
शक्रेण च तथा पीता पुष्पदन्तेन चैव हि ।
शुक्रेण च पुरा पीता दत्तात्रेयेण सेविता ॥ ३० ॥
श्रीमता बलरामेण समानीताथ भूतले ।
तस्मादिमां सुरां पुण्यां भक्त्या तां च पिबाम्यहम् ॥ ३१ ॥
१ 'सघोर' क पाठ. । २ 'दृदृहा' ख पाठ. । ३ 'त' क पाठ ।
३१२ गन्धर्व्वतन्त्रे ।
पशुपशविनाशाय दिव्यज्ञानोपलब्धये ।
इदं पवित्रममृतं पिबामि भवभेषजम् ॥ ३२ ॥
मद्यं मांसं तथान्यत्तु यत्किंचित् कुलभूषणम् ।
शक्त्यै दत्त्वा पुनः शेषमात्मन्येव नियोजयेत् ॥ ३३ ॥
पाययित्वा पुनः पानं तन्मुखादमृतं पिबेत् ।
ततश्च शोधयेद्दीपं दीपो भवति नान्यथा ॥ ३४ ॥
आनन्दोदयपर्य्यन्तं साधकश्च पिवेन्मधु ।
कर्पूर (स ? श) कलोन्मिश्रताम्बूलपूरिताननः ॥ ३५ ॥
मदिराघूर्णनयनो दिग्वासाः कुलभूषणः ।
वदेत् सविनयं वाक्यं सिद्धिदे परमेश्वरि ॥ ३६ ॥
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ।
इति प्रसादमासाद्य कारयेत्तां दिगम्बरीम् ॥ ३७ ॥
त्रिकोणावद्भगं ज्ञात्वा सर्वसिद्धिप्रदायकम् ।
कूटत्रयात्मकं स्मृत्वा सर्वानन्दमयं स्मरेत् ॥ ३८ ॥
आत्मानं देवतारूपमद्वैतं परिचिन्तयन् ।
पूर्णचन्द्रनिभं वक्त्रं पू (र्णेर्शीं ? र्णांदिं) चुम्बनैर्यजेत् ॥ ३६ ॥
जालन्धरं महापीठं स्तनद्वयमुदीरितम् ।
अपानमूरुयुगलं कामरूपमतः परम् ॥ ४० ॥
यत्पीठं ब्रह्मणो वक्त्रं गुह्यं सर्वसुखावहम् ।
यतो देवाश्च देव्यश्च मुनयश्चैव भौवजाः ॥ ४१ ॥
सर्वेऽप्याविर्भवन्त्येते तेन गुह्यं महीतले ।
द्विविधं चैव तत्पीठं गुह्यं व्यक्तं महेश्वरि ॥ ४२ ॥
१ 'रीम्' क पाठ । २ 'मानव' ख पाठ ।