सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 374, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 374

द्वात्रिंशः पटलः । २६३
होमयेत्संस्कृते वह्नौ सहस्रं हविषा तथा ।
तस्यां संपातयेद्देवि विधिनाहुतिशेषकम् ॥ १९ ॥
संमोहनीं समुद्दिश्य गृहीत्वाज्यं स्रुवेण तु ।
बीजत्रययुतां देवि मातृकां बिन्दुसंयुताम् ॥ २० ॥
वह्निभार्यान्वितां पश्चात् कृत्वा वै¹ होमयेत्ततः ।
मण्डले मातृकादेव्याः शिष्यं निवेश्य सादरम् ॥ २१ ॥
सुरास्त्वामिति मन्त्रैस्तु नवभिः कलशैः शुभैः ।
अभिषिच्य विनीताय दद्यात्तां मुद्रिकां गुरुः ॥ २२ ॥
इयं रक्षाकरी मुद्रा विषरोगविनाशिनी ।
व्यालचौरमृगादिभ्यो रक्षां कुर्याद्विशेषतः ॥ २३ ॥
सर्ववश्यकरी शुद्धा शुद्धिदाशुद्धिहारिणी ।
तर्जन्यां धारयेदेनां विधिना मनुजेश्वरः ॥ २४ ॥
युद्धे विजयमाप्नोति श्रिया परमया युतः ।
विभजेन्मातृकां देवि नववर्गांस्तथोदितान् ॥ २५ ॥
नववर्गसमुत्पन्ना नवरत्नेश्वरा ग्रहाः ।
अर्केन्दुवक्रज्ञगुरुभृगुमन्दाहिकेतवः ॥ २६ ॥
नवरत्नैर्महेशानि मुद्रां कुर्याद्यथेच्छया ।
तद्रत्नेषु² ग्रहान्सर्वान् पूजयित्वा विधानतः ॥ २७ ॥
आवाह्य पूजयेद्देवीं संमोहनीं परां तथा ।
जपहोमादिकं सर्वं कुर्यात्पूर्वोक्तवर्त्मना ॥ २८ ॥
यो मुद्रां धारयेदेनां तस्य स्युर्वशगा ग्रहाः ।
वर्धते तस्य सौभाग्यं लक्ष्मीरव्याहता भवेत् ॥ २९ ॥
१ 'न्या' क पाठ । २ 'तेषु रत्नेषु' क पाठ ।