गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 387, कुल 446 में से
संदर्भ में पढ़ें३०६ गन्धर्वतन्त्रे ।
विनाशं तस्य दुर्बुद्धेः समूलं विद्धि पार्वति ।
पुत्रमित्रकलत्रादिसुहृद्धृत्यादयोऽपरे ॥ ७५ ॥
विप्रा भ्रात्रादयो यस्य वि (सी? षी) दन्ति सुदुःखिताः ।
दुश्चरित्राः स्त्रियो यस्य भवन्त्यन्तःपुरे शिवे ॥ ७६ ॥
मृगयाभिरतिर्यस्य दुरोदरप्रियस्य च ।
अद्भुतानि च जायन्ते हाहाकारयुताः प्रजाः ॥ ७७॥
पीडिताः क्लेशविक्षिन्ना विपत् तस्य पदे पदे ।
यस्यैते चातिसंतुष्टाः सुस्था मङ्गलशंसिनः ॥ ७८ ॥
तस्यायुर्वर्धते नित्यं महालक्ष्मीः स्थिरा गृहे ।
कलहो यस्य देवेशि विना कारणमापतेत् ॥ ७६ ॥
नार्योऽमङ्गल (संशि ? शंसि) न्यस्तस्य हानिं विनिर्दिशेत् ।
एतेषामपि चान्येषां दोषाणां ग्रहसंकटे ॥ ८० ॥
आयुर्वृद्धौ तथा शान्त्यै कोटिहोमं चरेन्नृपः ।
कोटिहोमात् परं नास्ति कर्म रिष्टिविनाशने ॥ ८१ ॥
न तत्तुल्यं तथा रैक्षां महोत्पातविनाशनम् ।
पुरश्चर्यां प्रकुर्वीत संध्यासु जपतत्परः ॥ ८२ ॥
वर्षेकेन हि तत् सिद्ध्येत् सर्वविघ्नविनाशनम् ।
ज्ञानलोपो भवेद्यस्य मद्यपानात् सुलोचने ॥ ८३ ॥
विकारं जनयेद्वापि स पुनर्यात्यधोगतिम् ।
प्रलापो भ्रंशनं हास्यं क्रोधोन्मादभयानकाः ॥ ८४ ॥
आलस्यं चातिचिन्ता च परानिष्टप्रवर्तनम् ।
हिंसासूथा तथेर्ष्या च दम्भमोहौ प्रमादता ॥ ८५ ॥
१ 'नि' क पाठ । २ 'राज्ये' क पाठ । ३ 'प' क पाठ ।