गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 391, कुल 446 में से
संदर्भ में पढ़ें३१० गन्धर्वतन्त्रे ।
सु¹भक्त्या प्रणमेद्यस्तु शक्तिमेकाग्रचेतसा ।
तस्य सर्वार्थसिद्धिः स्यादन्ते मोक्षमवाप्नुयात् ॥ १० ॥
निश्चयं मुक्तिमाप्नोति सहस्रैशक्तिपूजनात् ।
शक्तिपूजासु विमुखः पामरः पुरुषाधमः ॥ ११ ॥
स निर्लज्जः कथं ब्रूते पूजयामि महेश्वरीम् ।
पूजाहोमं विना चेह नाधिकारः कथंचन ॥ १२ ॥
विना होमं महेशानि शक्तियागमकारणम् ।
शक्तियागं विना होमो निष्फलो नात्र संशयः ॥ १३ ॥
तस्माद्भावविशुद्धात्मा सर्वतन्त्रार्थकोविदः ।
साधकोऽपि च तत्त्वज्ञो नित्यं शक्तिं समाश्रयेत् ॥ १४ ॥
मदिराया न वा शक्तौ जातिवृत्तिं विचारयेत् ।
नानाजातिषु सम्भूतां व्रजेत् संप्राप्य न त्यजेत् ॥ १५ ॥
सर्वशङ्काविनिर्मुक्तः सर्वज्ञः साधकोत्तमः ।
शक्तियागविधिं कृत्वा भवेद्भूमौ पुरन्दरः ॥ १६ ॥
पूजयेदर्थरात्रे च निर्जने पशुवर्जिते ।
सर्वालंकारसुभगो गन्धचन्दनभूषितः ॥ १७ ॥
आकृष्य विमलां शक्तिं रमणीं वामलोचनाम् ।
हारा³लंकारसुभगां घृणालज्जाविवर्जिताम् ॥ १८ ॥
परार्ध्यास्तरणे रम्ये स्थापयेत्² तूलिकोपरि ।
स्थापयेत् सुरया पूर्णं कुम्भं वामे सुवासितम् ॥ १६ ॥
आनन्दहृदयं कृत्वा सद्यः प्रसन्नमानसः ।
गुरुं नत्वा विधानेन ह्यमृतं तद्विचिन्तयेत् ॥ २० ॥
१ ‘स्व’ क पाठ । २ ‘स्र’ ख पाठ । ३ ‘नाना’ ख पाठ । ४ ‘दाफलो’ क ख पाठ ।