गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 390, कुल 446 में से
संदर्भ में पढ़ेंपञ्चत्रिंशः पटलः ।
————— ❖❖❖❖❖ —————
देव्युवाच
साधका गुप्तरूपाश्च तेषां साध्यं कथं भवेत् ।
साध्यं च कीदृशं देव काम्यं वा कीदृशं भवेत् ॥ १ ॥
पूजा च कीदृशी कार्या तन्मे वद सुविस्तरात् ।
ईश्वर उवाच
अत्यन्तगुप्तरूपेण काम्यं कृत्वार्चयेन्नरः ॥ २ ॥
तदा तत्काममाप्नो (ति म ? त्यान) न्दभाक् शक्तिपूजनात् ।
पूजाफलेन दौर्भाग्यं दुःखदारिद्र्यसंकुलम् ॥ ३ ॥
सर्वं प्रशमनं याति चेश्वरो जायते भुवि ।
अतिगुप्ततरं यस्मात् तस्माद्रात्रौ विधीयते ॥ ४ ॥
प्रकटे कार्यहानिः स्यात् क्रुद्धा भवति सुन्दरी ।
गुरुभक्तिविहीनस्य विफलं साधनं प्रिये ॥ ५ ॥
अहं गुरुप्रसादेन सर्वगः सर्ववित् प्रभुः ।
शक्तेः पूजा सदा कार्या प्रसन्ना येन सा भवेत् ॥ ६ ॥
विफला शक्तिरहिता पूजाऽऽसंवप्रसारिणी ।
ध्यानमानन्दरहितं यथा निष्फलमद्रिजे ॥ ७ ॥
शक्तौ दर्पं घृणां लज्जा वर्जयेत् क्रोधमत्सरम् ।
कदाचिद्दर्परूपेण पुष्पेणापि न ताडयेत् ॥ ८ ॥
शक्तौ न विस्मयः कार्यों यस्मात्सा तत्स्वरूपिणी ।
विस्मिता विलयं यान्ति पशवः शास्त्रमोहिताः ॥ ६ ॥
————————————————————————————————
१ 'र्वे' क पाठ :