गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 382, कुल 446 में से
संदर्भ में पढ़ेंचतुस्त्रिंशः पटलः । ३०१
द्वापरे त्वग्गताः प्राणाः कलावन्नगता मताः ।
निराहारव्रतं देवि कलौ तेन विवर्जितम् ॥ २० ॥
बलिदानं विना हिंसां कलौ नैवात्र कारयेत् ।
न स्वयं छेदयेद्देवि बलिं साधकसत्तमः ॥ २१ ॥
बलिदानं विना देव्याः प्रीतिर्नान्यैस्तथा भवेत् ।
प्रोक्षणे तु परो मन्त्रः सोऽयमेव प्रकीर्तितः ॥ २२ ॥
उत्बुध्यस्व पशो त्वं हि नापरस्त्वं शिवोऽसि हि ।
शिवोत्कृत्यमिदं पिण्डमतस्त्वं शिवतां व्रज ॥ २३ ॥
बहवो नैव हन्तव्या यदीच्छेदात्मनो हितम् ।
बहवो यत्र हन्यन्ते तत्र कृत्या क्षयंकारी ॥ २४ ॥
भवत्येवाचिरेणैव बन्धनोच्चाटनं शिवे ।
आत्मप्राणसमा देवि परेषामपि सा कथा ॥ २५ ॥
परहिंसाभवोऽधर्मः क्रमात् सर्व हरिष्यति ।
य इहात्मकृते देवि परान्निष्पीड्य जीवति ॥ २६ ॥
नेहापि लभते सिद्धिं परत्रापि कदाचन ।
यो वा विधिमनादृत्य जन्तून् हत्वा शिवां यजेत् ॥ २७ ॥
भवन्त्येव महोत्पाता (य ? स्त) त्र तस्य न संशयः ।
यज्ञादिषु महेशानि हिंसया दारुणाज्ञया ॥ २८ ॥
परहिंसाभवोऽधर्मः परिणामेऽतिदुःखदः ।
तथैव प्रतिजानेऽहं मोहात्किं वा न दृश्यते ॥ २६ ॥
कियत्कालसुखावाप्तिकाम्यया कामुकान् शिवे ।
हन्तीह परमो मोहः परमोहः सुदारुणः ॥ ३० ॥
१ 'शोस्तुष्टि नापरस्त' क पाठ । २ 'शिवायत्तमित्क पाठ ।
३ 'निष्पाद्य' क पाठ । ४ 'नीहि' ख पाठ । ५ 'प्ति' क पाठ ।