सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 188, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 188

एकादशः पटलः ।
—०—
ईश्वर उवाच
करशुद्धिर्ऋषिन्यास आसनं च ततः परम्¹ ।
कराङ्गयोः षडङ्गानि वशिन्याद्यमतः परम्³ ॥ १ ॥
न(र? [व])योनिचतुर्व्यूहतत्त्वन्यासादिकं तथा ।
मूलवर्णादिविन्यासः संमोहनाख्य एव च ॥ २ ॥
एतदेव हि नित्यं स्यात् काम्यं चान्यत् प्रकीर्तितम् ।
करशुद्धिकरीपूर्वं ⊛ त्रिपुरेति पदं ततः ॥ ३ ॥
अमृतार्णवशब्देऽपर्यासनाय नमो मनुः ।
पादयोर्विन्यसेत् पश्चाद्धालान्ते त्रिपुरेश्वरी ॥ ४ ॥
पोताम्बुजासनायान्ते नमो जानुनि विन्यसेत् ।
ह्रींक्लींसौस्त्रिपुरेत्युक्त्वा सुन्दरीति पदं ततः ॥ ५ ॥
डेन्तमात्मासनायान्ते नम(उच्चार्य?ऊर्वोः प्र)विन्यसेत् ।
आद्यं मध्यं तथान्तं च(श?कु)मार्याः शिवसंयुक्तम् । ॥६॥
त्रिपुरवासिनीत्युक्त्वा चक्रासनाय हृत्ततः ।
कटिद्वये प्रविन्यस्य शिवं सोमयुतं कुरु ॥ ७ ॥
एतस्या एव विद्याया ‡ त्रिपुरँश्रीपदं ततः ।
सर्वमन्त्रासनायान्ते नमो गुह्ये प्रविन्यसेत् ॥ ८ ॥
१ 'भूत' ख पाठ । २ 'पीठन्यास तथैवच' ख पाठ । ३ 'मातृकान्यासमेव च' ख पाठ । ४ 'द्री' क पाठ । ५ 'दि' क पाठ । ६ 'देशे' क पाठ । ७ '२' क पाठ ।
⊛ अआसौ. इति करशुद्धिकरीविद्या । † बालाया बीजत्रये शिवेनि हकारेण सयुतम् ।
‡ समनन्तरोक्तविद्याया एव बीजत्रये शिवो हकार सकारेण युत ।