सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 192, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 192

एकादशः पटलः । १११
पादयोर्गुह्यदेशे च पार्श्वयोर्हृदयाम्बुजे ॥ ६३ ॥
स्तनयोः कण्ठदेशे च न्यसेदेवं विधानतः ।
चतुर्व्यूहं ततो देवि न्यसेत् पीठसमन्वितम् ॥ ३७ ॥
*मूलवाग्भवमुच्चार्य अग्निचक्रेपदं ततः ।
कामगिर्यालये पश्चान्मित्रेशपदमुद्धरेत् ॥ ३८ ॥
नाथात्मकेपदं पश्चात् कामेश्वरी पदं ततः ।
रुद्रात्मशक्तिशब्दाच्छ्रीपादुकायै नमो न्यसेत् ॥ ३६ ॥
आधारे परमेशानि हृदये च ततः परम् ।
मूलद्वि[त?ती] यमुच्चार्य सूर्यचक्रेपदं ततः ॥ ४० ॥
जालन्धरपदात् पीठे षष्ठीशनाथशब्दतः ।
आत्मकेपदमाभाष्य वज्रेश्वरीपदं ततः ॥ ४१ ॥
विष्ण्वात्मशक्तिशब्दान्ते पूर्ववच्च तदीरितम् ।
शक्तिकूटं समुच्चार्य सोमचक्रेपदं ततः ॥ ४२ ॥
पूर्णगिरिपदान्ते च पीठेपदमतः परम् ।
उड्डीशपरतो देवि नाथात्मकेपदं ततः ॥ ४३ ॥
तदन्ते योजयेद्देवि भगपूर्वा च मालिनी ।
ब्रह्मात्मशक्तिशब्दान्ते पूर्ववद् द्विद्ले न्यसेत् ॥ ४४ ॥
तुर्यबीजमथोच्चार्य ब्रह्मचक्रेपदात् ततः ।
तथैवोड्रयानपीठे तु [व?च]र्यानाथात्मकेपदम् ॥ ४५ ॥
तदन्ते परमेशानि महात्रिपुरसुन्दरी ।
१ 'श्री' क पाठ । २ 'मी' क पाठ ।

  • स्पष्टं यथा ऐं अग्निचक्रे कामगिर्यालये मित्रेशनाथात्मके कामेश्वरीरुद्रात्मशक्ति-
    श्रीपादुकायै नम आधारे । एवमग्रेऽपि बोध्यम् ।