सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 190, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 190

एकादशः पटलः । १०६
वाग्देवता चतुर्थ्यन्ता नमः स्वरैः प्रविन्यसेत् ॥ १७ ॥
† मादनं शक्रमारूढं महामाया ततः परम् ।
इयं कामेश्वरी ज्ञेया कवर्गॆण ललाटके ॥ १८ ॥
§ धान्तं वरुणमिन्द्रं च चतुर्थस्वरबिन्दुकम् ।
एषैव मोदिनी देवी भ्रुवोर्मध्ये चवर्गेके ॥ १९ ॥
‡ वायुं पुरन्दरं देवि षष्ठस्वरविभूषितम् ।
नादबिन्दुकलायुक्तं विमलेयं समीरिता ॥ २० ॥
न्यस्तव्या कण्ठदेशे तु टवर्गेणैव पार्वति ।

  • ष्टान्तं भान्तं च ज्वलनं तुरीयस्वरबिन्दुकम् ॥ २१ ॥
    अरुणेयं तु वाग्देवी तवर्गेण हृदि स्मृता ।
    जयिनी च ततो देवि ☿ नकुलिः सोमशक्रकम् ॥ २२ ॥
    ¶ वारुणं वायुबीजं च षष्ठस्वरविभूषितम् ।
    नाभिदेशे समाख्याता पवर्गॆण वरानने ॥ २३ ॥
    ऽ जान्तं भान्तं ततो रेफं वायुबीजसमन्वितम् ।
    षष्ठस्वरसमायुक्तं नादबिन्दुकलायुतम् ॥ २४ ॥
    सर्वेश्वरी(ष?य)वर्गेण स्वाधिष्ठानाख्यपङ्कजे ।
    ∥ संवर्तकं महेशानि कालबीजोपरिस्थितम् ॥ २५ ॥
    वह्निबीजं ततो माया नादबिन्दुकलान्विता ।
    † मादन क शक्रोति लकारारूढ महामाया ह्री इति कामेश्वरी । § धान्तं न
    वरुण व इन्द्र ल चतुर्थस्वर ई तेत नवली । ‡ वायुः य पुरन्दर ल तेन ल्यूँ ।
  • ष्टान्त ज भान्त म ज्वलन र तुरीयेति चतुर्थस्वर. ईं तेन ज्रीं । ☿ नकुलि ह
    सोमशक्रोति सकारल्लकारौ । ¶ वारुण व वायु. य तथा षष्ठस्वर. तेन हसलवयूँ इति ।
    ऽ जान्त क भान्त म रेफ र वायु य तथा षष्ठः स्वरः तेत क्ष्मर्यू इति । ∥ संव-
    र्तक क्ष कालो म वह्नि र माया ईं तेन क्ष्मीं इति ।