सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 198, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 198

द्वादशः पटलः।
—०—
ईश्वर उवाच
अथवा परमेशानीं लीलाकलितविग्रहाम् ।
हृत्पुण्डरीकमध्यस्थां निगृह्येन्द्रियमान(सः१सम् ) ॥ १ ॥
तन्मनाः साधकवरो मनसा पूजयेच्छिवाम् ।
वामकरस्य तर्जन्यां दक्षिणस्य कनिष्ठया ॥ २ ॥
तथा दक्षिणतर्जन्यां वामाङ्गुष्ठेन योजयेत् ।
उन्नतं दक्षिणाङ्गुष्ठं वामस्य मध्यमादिकाः ॥ ३ ॥
अङ्गुलीर्योजयेत् पृष्ठे दक्षिणस्य करस्य च ।
वामस्यै पितृतीर्थेन मध्यमानामिके तथा ॥ ४ ॥
अधोमुखे तु ते कुर्याद्दक्षिणस्य करस्य च ।
रक्तपुष्पं गृहीत्वैवं विधाय पाणिकच्छपम् ॥ ५ ॥
कुर्यात्तद् हृदयासन्नं निमील्यै नयनद्वयम् ।
समकायशिरोग्रीवं कृतासनपरिग्रहः ॥ ६ ॥
पश्यन्निव ततो देवीमेकाग्रमनसा ततः ।
प्रत्यक्षीकृ[त?त्य,!हृदये मानसैरुपचारकैः ॥ ७ ॥
षोडशानां प्रकारैस्तु हृदिस्थां पूजयेच्छिवाम् ।
आसनं प्रथमं दद्याद्रत्नसिंहासनं शुभम् ॥ ८ ॥
पाद्यं चरणयोर्दद्याच्छिरस्यर्घ्यं निवेदयेत् ।
परमामृतपानीयं भावपुष्पैः सुवासितम् ॥ ६ ॥
१ 'न्या' क पाठ । २ 'श्या' क पाठ । ३ 'लि' क पाठ ।