गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 180, कुल 446 में से
संदर्भ में पढ़ेंदशमः पटलः । ६६
इंयुतां भरणीं देवि दक्षनेत्रे प्रविन्यसेत् ॥ २९ ॥
ईंउंऊंकृत्तिकां चैव विन्यसेद्वामनेत्रके ।
ऋंॠंलूंलूंयुतां देवि रोहिणीं दक्षकर्णके ॥ ३० ॥
एंयुतां मृगशीर्षां च वामकर्णे प्रविन्यसेत् ।
ऐंकारेण तथाद्रां च दक्षनासापुटे न्यसेत् ॥ ३१ ॥
ओंऔंपुनर्वसुं चैव वामनासापुटे न्यसेत् ।
कंयुतं च न्यसेत् पुष्यं कण्ठैदेशे च पार्वति ॥ ३२ ॥
खगाभ्यां च तथाश्लेषां दक्षस्कन्धे प्रविन्यसेत् ।
घङाभ्यां च मघां देवि वामस्कन्धे प्रविन्यसेत् ॥ ३३ ॥
चंपूर्वफाल्गुनीं चैव दक्षकुर्परके न्यसेत् ।
वामकुर्परके देवि छंजंउत्तरफल्गु(णी?नी)म् ॥ ३४ ॥
दक्षिणे मणिबन्धे तु झंझंहस्तं च विन्यसेत् ।
मणिबन्धे तथा वामे टंठंचित्रां प्रविन्यसेत् ॥ ३५ ॥
डंकारेण तथा खातीं दक्षहस्ततले न्यसेत् ।
ढणाभ्यां च विशाखां वै वामहस्ततले तथा ॥ ३६ ॥
तथाभ्यामनुराधां च न्यसेन्नाभौ समाहितः ।
दंधंज्येष्ठां कटौ दक्षे त्रिभिर्मूलां च वामतः ॥ ३७ ॥
पूर्वाषाढां बकारेण दक्षोरौ विन्यसेत् ततः ।
भकारेणोत्तराषाढां वामोरौ तदनन्तरम् ॥ ३८ ॥
दक्षजानुप्रदेशे च मंश्श्रवणं च विन्यसेत् ।
१ 'तां' क पाठ. । २ 'ष्यां' क पाठः । ३ 'ण्ठे' क पाठः । ४ 'स्वां' क. पाठः ।
५ 'ती' क पाठ. । ६ 'या' क. पाठ ।