सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

८६ गन्धर्वतन्त्रे ।
स्वदक्षे वामतो देव्या दीपं संस्थापयेत्ततः ॥ ७२ ॥
ततो रमिति मन्त्रेण शिखां दीपस्य संस्पृशेत् ।
देवतीर्थेन देवेशि संस्पृश्य च विधानतः ॥ ७३ ॥
सुप्रकाशो महादीपः सर्वतस्तिमिरापहा ।
सबाह्याभ्यन्तरं ज्योतिर्दीपोऽस्तु शुभदायकः ॥ ७४ ॥
स तस्य शुभदो दीपो भवेत् स्पर्शनमात्रतः ।
पतङ्गकीटकेशादिदाहक्रव्यादसङ्गतैः ॥ ७५ ॥
वसामजास्थिसंभूतिर्थदानुपयोगि(नः?ता) ।
अज्ञातरूपकं सर्वं दोषं स्पर्शाद्विनाशयेत् ॥ ७६ ॥
रोचनाकुङ्कुमाभ्यां च कस्तूरीचन्दनेन्दुभिः ।
रञ्जितं चक्रराजं च स्वयंभूकुसुमैर्युतम् ॥ ७७ ॥
सिन्दूररजसाक्रान्तं पुरतः सिंहविष्टरे ।
संस्थाप्य सहसा देवि योगिनीभिः समं ततः ॥ ७८ ।
देवीरूपं विचिन्त्याथ चक्रे पुष्पाञ्जलिं दिशेत् ।
अशून्यं कुसुमैः कुर्याच्छून्ये विघ्नाश्चनैकशः ॥ ७६ ॥
गन्धपुष्पाक्षतादीनि दक्षभागे निधापयेत् ।
प्रक्षालनाय करयोः पात्रं पश्चान्निधापयेत् ॥ ८० ॥
अर्ध्यादिकं पुरोभागे सव्ये कुम्भं निधापयेत् ।
मण्डलं वामतः कृत्वा जलेन चतुरस्रकम् ॥ ८१ ॥
वह(त?न्)कराभ्यां देवेशि तत्राधारं मनोहरम् ।
सुवर्णरौप्यताम्रादिविहितं स्थापयेत् ततः ॥ ८२ ॥
१ 'सह' क पाठ । २ 'न्यकु' क पाठः । ३ 'न्य' ख पाठ ।

अष्टमः पटलः । ८७
वह्निमण्डलरूपं तं कलाभिः सह पूजयेत् ।
कलशं हेमजं धन्यं निश्छिद्रं चापि सुन्दरम् ॥ ८३ ॥
वस्त्रपूतैर्जलैः पूर्णं सगन्धैर्दोषवर्जितैः ।
पानीयं घटमध्यस्थं वी[क्षन् ?क्ष्य] गुह्यं च साधकः ॥८४॥
वामेन पाणिना देवि तत्राधारे निवेशयेत् ।
पूजयेत् सूर्यरूपं तं कलाभिः परमेश्वरि ॥ ८५ ॥
[कल्पं तं च?कलशं तं] समभ्यर्च्य विशेषेण वरानने ।
तत्रस्थममृतं साक्षाच्चन्द्ररूपं विचिन्तयेत् ॥ ८६ ॥
चन्द्रमण्डलमभ्यर्च्य कलाभिः सुरवन्दिते ।
आनन्दभैरवं तत्र यजेदानन्दभैरवीम् ॥ ८७ ॥
यद्यन्यदूषणं पात्रे तोये वाऽज्ञानतो भवेत् ।
तत्सर्वं नाशमायाति पूजार्हः कलशो भवेत् ॥ ८८ ॥
पात्रमस्त्राम्बुभिः प्रोक्ष्य दक्षतो वह्निमण्डले ।
साधारं स्थापयेद्देवि पूजयेत् तं यथाविधि ॥ ८६ ॥
शुद्धोदकेन संपूर्य मूलविद्यां ततो जपेत् ।
प्रोक्षयेत्तेन कलशं प्रोक्षणीस्थेन वारिणा ॥ ६० ॥
वामतस्तु तथा शङ्खं प्रतिष्ठाप्य विधानतः ।
तदुत्तरत एवास्मिन् पाद्यमाचमनीयकम् ॥ ६१ ॥
चक्रोपरि शिवां नत्वा भूतशुद्धिमथाचरेत् ।
स्वभावतः सदाशुद्धं पञ्चभूतात्मकं वपुः ॥ ६२ ॥
(मनः?सदा)पूतिसमायुक्तं श्लेष्मविण्मूत्रपिच्छिलम् ।
१ 'घा' क पाठ. । २ 'रा' क पाठ. । ३ 'दक्षिणे स्थापयेत्ततः ख, पाठ ।
४ 'सपूज्य' ख पाठः । ५ 'मन्त्र' ख पाठ. ।

८८ गन्धर्वतन्त्रे ।
तस्यैव हि विशुद्ध्यर्थं वायु₁ग्निसलिलाक्षरैः ॥ ६३ ॥
शोषदाहौ तथा भस्मप्रोत्सादोऽमृतवर्षणम् ।
आप्लावनं च कर्तव्यं पूरकुम्भकरेचकैः ॥ ६४ ॥
पञ्चशुद्धिविहीनेन कृतं यदभिचारवत् ।
विपरीतफलं दद्याद्भक्त्याभ्यर्चनं तथा ॥ ६५ ॥
शरीराकारभूतानां भूतानां यद्विशोधनम् ।
अव्ययब्रह्मसंस्पर्शाद् भूतशुद्धिरियं प्रिये ॥ ६६ ॥
अन्तःकरणमध्ये तु ज्योतिरात्मा प्रवर्तते ।
लिङ्गै₂देहं तु तं₃ प्राहुर्योगिनस्तत्त्ववेदिनः ॥ ६७ ॥
तस्य वै शोधनं चैव सर्वशुद्धिः प्रजायते ।
तदेव विश्वजननकारणं जन्मकारणम् ॥ ६८ ॥
तत्प्रतीतौ भवेन्मुक्तिर्नान्यतो जन्मकोटिभिः ।
प्राणायामत्रयं कृत्वा योनिमुद्रां ꕤ तथा स्मरेत् ॥ ६६ ॥
विद्याकूटत्रयं देवि वह्न्यर्केन्दुमयं धिया ।
पुरत्रयेऽथ संचिन्त्य तेषामैक्यं ततः स्मरेत् ॥ १०० ॥
तस्मिंस्तेजोमये (विश्वे?बिम्बे) सच्चिदानन्दधामनि ।
केवलानुभवानन्दे परँ₄ब्रह्मणि शाश्वते ॥ १०१ ॥
निमज्य बिन्दुगे धाम्नि क्षणं स्थित्वा तु चिन्तयेत् ।
बालार्ककिरणारक्तं तत्तत्तेजोमयं स्मरेत् ॥ १०२ ॥


१ 'ष्वा' ख पाठ । २ 'ङ्ग' ख पाठ । ३ 'तत्' ख पाठ । ४ 'रम्' ख पाठः
ꕤ तल्लक्षण यथा— मिथ कनिष्ठिके बद्ध्वा तर्जनीभ्यामनामिके । अनामिकोध्र्व संश्लि-
ष्टदीर्घमध्यमयोध्र्वं । अङ्गुष्ठाग्रद्वय न्यस्येद्योनिमुद्रयमीरिता ॥ इति ।

अष्टमः पटलः । ८६
शुद्धलाक्षामृताम्भोधिमध्ये चातिमनोहरे¹ ।
नवरत्नमये द्वीपे तच्चिन्तामणिमण्डपे ॥ १०३ ॥
रत्नसिंहासनाम्भोजे वह्न्यर्केन्दुस्वरूपिणीम् ।
बालार्ककोटिसंकाशां तुरीयां परमां कलाम् ॥ १०४ ॥
दक्षिणाधःकरे बाणान् वामाधो धनुरेव च ।
दक्षिणोर्ध्वे(शृ?सृ)णिं वामे पाशं चापि करे धृतम्² ॥१०५॥
अरुणामरुणाकल्पवसनाच्चित्रयान्विताम् ।
आत्माभेदेन संचिन्त्य शुद्धज्ञानस्वभाविनम्³ ॥ १०६ ॥
केवलानुभवानन्दमात्मानं परिचिन्तयेत् ।
ओंह्रींहंसस्ततः सोहं स्वाहेति मनुना शिवे ॥ १०७ ॥
बालाबीजत्रयस्यान्ते महात्रिपुरसुन्दरि ।
आत्मानं रक्ष्रक्षेति कुर्याद्रक्षां हृदि स्पृशन् ॥
दिग्बन्धः स्वस्त्रिया(?)चैव छोटिकाभिः समन्ततः ॥१०८॥

इति श्रीगन्धर्वतन्त्रे पार्वतीश्र्वरसंवादे यागधामार्चनभूतशुद्ध्यादिवर्णनं
नाम अष्टमः पटलः ॥ ८ ॥


१ 'रम्' क. पाठ । २ 'रैधृ॑ताम्' ख पाठ । ३ 'नीम्' ख. पाठः । ४ 'द्र' क. पाठः ।

नवमः पटलः ।
ईश्वर उवाच
देव एव यजेद्देवं नादेवो देवमर्चयेत् ।
न्यासं विना जपं प्राहुरासुरं विफलं शिवे ॥ १॥
न्यासात्तदात्मको भूत्वा देवो भूत्वा तु तं यजेत् ।
प्राणायामैस्तथा ध्यानैर्न्यासैर्देवशरीरता ॥ २॥
न्यासविधिं शृणु प्राज्ञे करशुद्धिपुरःसरम् ।
मातृकाद्यं समुद्धृत्य द्वितीयं च सबिन्दुकम् ॥ ३॥
शान्तान्तं कौदिसंयुक्तमेकारान्तान्तयोजितम् ।
एवमेषा महाविद्या करशुद्धिकरी ☫ मता ॥ ४॥
गृहीत्वा रक्तपुष्पं च सगन्धं साधकस्ततः ।
अनेनैव तु मन्त्रेण पुष्पं हस्ततलस्थितम् ॥ ५॥
संमार्ज्य सव्यहस्तेन वामेन पाणिना ततः ।
निर्मञ्छ्य कामबीजेन जिघ्रपेद्वाग्भवेन तु ॥ ६॥
ऐशान्यां निःक्षिपेदेतच्छ्लेषबीजेन पार्वति ।
अङ्गुल्यग्राणि शुद्धानि पुष्पस्य ग्रहणाद्भवेत् ॥ ७॥
मर्दनात् करयोः शुद्धिर्निर्मञ्छनात् पृष्ठयोः ।
घ्राणाद्देवाश्च तुष्यन्ति तीर्थानां च समागमः ॥ ८॥
प्रक्षेपात् सर्वविघ्नानां दूरसंस्थानमेव च ।
१ 'न्तक' क पाठ । २ 'कोत्तम' ख पाठ । ३ 'शव' ख पाठ ।
☫ सबिन्दु मातृकाद्य अ द्वितीय च आ शान्तेत्यादिना सौ इत्येषा करशुद्धिकरीविद्या ।

नवमः पटलः । ६१
दुर्गन्धोच्छिष्टसंस्पर्शदूषणं करयोस्तु यत् ॥ ९ ॥
अज्ञातरूपं तत्सर्वं नाशयेद्विधिनामुना ।
करशुद्धिं विधायादावृषिन्यासादिकं ततः ॥ १० ॥
ऋषिच्छन्दोदैवतानां विन्यासेन विना यदा ।
जप्यते साधितेऽप्येष न तत्र तत्फलं लभेत् ॥ ११ ॥
ऋषिरस्या महेशानि दक्षिणामूर्तिरव्ययः ।
पंक्तिश्छन्दस्तथा प्रोक्तं विद्यायाः शृणु पार्वति ॥ १२ ॥
देवता परमेशानी महात्रिपुरसुन्दरी ।
विनियोगः समाख्यातो भुक्तिमुक्तिप्रसाधने ॥ १३ ॥
शिरसि मुखवृत्ते च हृदये च प्रविन्यसेत् ।
मातृकां शृणु देवेशि सर्वपापविनाशिनीम् ॥ १४ ॥
या ब्राह्मीप्रमुखा देव्यो मातरः परिकीर्तिताः ।
तासां मन्त्राणि सर्वाणि व्यञ्जनानि स्वैरास्तथा १ ॥ १५ ॥
चन्द्रबिन्दुसमायुक्ताः सर्वकामफलप्रदाः ।
ऋषिः संमोहनः प्रोक्तश्च्छन्दो गायत्रमुच्यते ॥ १६ ॥
देवतेयं समुद्दिष्टा समस्तजननी परा ।
शक्तयस्तु (सु?ख)रा देवि बीजं व्यञ्जनसंचयः ॥ १७ ॥
विनियोगः समुद्दिष्टः समस्तजनमोहने ।
स्वरेण दीर्घयुक्तेन षडङ्गानि समाचरेत् ॥ १८ ॥
हृदयं च शिरो देवि शिखा च कवचं ततः ।
नेत्रम[न्त्रं?स्रं]न्यसेत् स्वीयमुद्राजातियुतं नमः ॥ १९ ॥
१ 'त्स्' क पाठ । २ 'च्छ' क पाठ । ३ 'सु' क पाठः । ४ 'च्छ' क पाठ. ।

६२ गन्धर्वतन्त्रे ।
स्वाहा वषड् हुं च वौषट् फडन्तं योजयेत् प्रिये ।
षडङ्गोऽयं मातृकायाः सर्वपदोत्तरः शिवे ॥ २० ॥
बालार्ककोटिरुचिरां स्फटिकाक्षमालां
कोदण्डमिच्छुजनितं [स्व?स्म]रपञ्चबाणान् ।
विद्यां च हस्तकमलैर्दधतीं त्रिनेत्रां
ध्यायेत् समस्तजननीं नवचन्द्रचूडाम् ॥ २१ ॥
ह्यष्टपत्राम्बुजे कण्ठे स्वरान् षोडश चिन्तयेत् ।
हृत्पद्मे द्वादशच्छदे कादीन् द्वादश विन्यसेत् ॥ २२ ॥
दशपत्राम्बुजे नाभौ डकारादीन् न्यसेद्दश ।
षट्पत्रे लिङ्गमध्यस्थे बकारादीन् न्यसेच्च षट् ॥ २३ ॥
आधारे चतुरो वर्णान् वादीन् न्यसेच्चतुर्दले ।
हक्षौ भ्रूमध्यगे पद्मे द्विद्ले परिचिन्तयेत् ॥ २४ ॥
इत्यन्तर्मातृकाः स्मृत्वा बहिर्न्यासं ततश्चरेत् ।
☸अकारादिक्षकारान्ता मातृकाः परिकीर्तिताः ॥ २५ ॥
प्रत्येकं कामबीजाद्याः सर्वकामफलप्रदाः ।
चन्द्रबिन्दुसमायुक्ता नमोन्ताश्च प्रविन्यसेत् ॥ २६ ॥
ललाटे मुखवृत्ते च नेत्रकर्णेषु पार्वति ।
नासागण्डौष्ठदन्तेषु समूर्धास्येषु शांकरि ॥ २७ ॥
पाणिपाद्युगस्यान्तःसंध्यग्रेषु क्रमाच्छिवे ।
पार्श्वद्वये पृष्ठनाभिजठरेषु क्रमान्न्यसेत् ॥ २८ ॥

१ 'स्वाहावषड्वौषडस्त्र फड' क पाठ । २ 'शिवे' क पाठ ।
☸ बहिर्मातृकान्यासमाह अकारेत्यादिना । क्लींअनमो ललाटे इत्येव ज्ञेयम् ।

नवमः पटलः । ६३
यादीन् सधातुकान् देवि क्रमेणैव ततो न्यसेत् ।
त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः ॥ २६ ॥
प्राणात्मा च जीवात्मा च परमात्मा तथैव च ।
हृदये बाहुमूले च तथा कण्ठप्रदेशके ॥ ३० ॥
स्कन्ध(कच्छ)योर्हृदयप्रान्ते पाणिपादयुगे तथा ।
जठराननयोर्देवि सर्वाङ्गेषु क्रमान्न्यसेत् ॥ ३१ ॥
❊ललाटेऽनामिकां मध्यां विन्यसेन्मुखपङ्कजे ।
तर्जनीमध्यमानामावृद्धा एव तु नेत्रयोः ॥ ३२ ॥
अङ्गुष्ठं कर्णयोर्देवि कनिष्ठाङ्गुष्ठकौ नसोः ।
मध्यास्तिस्रो गण्डयोश्च मध्यमामोष्ठयोः प्रिये ॥ ३३ ॥
अनामां दन्तयोर्देवि मध्यमामुत्तमाङ्गके ।
मुखेऽनामां मध्यमां च हस्तपादेऽथ पार्श्वयोः ॥ ३४ ॥
कनिष्ठानामिकामध्यास्तास्तु पृष्ठेऽथ पार्वति ।
तास्तु साङ्गुष्ठका नाभौ सर्वाः कुक्षौ प्रविन्यसेत् ॥ ३५॥
हृदये च तलं सर्वं बाह्वोः कण्ठप्रदेशके ।
स्कन्धयोर्हृदयप्रान्ते हस्तपादयुगे तथा ॥ ३६ ॥
जठरास्ययुगे देवि तलमेव प्रकीर्तितम् ।
एतास्तु मातृकामुद्राः क्रमेण परिकीर्तिताः ॥ ३७ ॥
अज्ञात्वा विन्यसेद्यस्तु न्यासः स्यात्तस्य निष्फलः ।
अनामया वा पुष्पैर्वा मनसा वा न्यसेद्द्रुत ॥ ३८ ॥


१ 'ज' क पाठ । * मातृक न्यासमुद्रा निर्दिशति ललाटेऽनामिकामित्यादिना ।

६४ गन्धर्वतन्त्रे ।
एवं तु मातृकान्यासं यः कुर्यात् परमेश्वरि ।
सर्वयज्ञेषु पूजासु पूतो योग्यश्च जायते ॥ ३९ ॥
नातः परतरो मन्त्रो¹ विद्यते क्वचिदेव हि ।
ये ये मन्त्रा देवतानामृषीणामथ रक्षसाम् ॥ ४० ॥
ते सर्वे मातृकामन्त्रे नित्यमेव प्रतिष्ठिताः ।
सर्वमन्त्रमयश्चायं सर्वदेवमयस्तथा ॥ ४१ ॥
चतुर्वर्गप्रदश्चायं तुष्टिपुष्टिप्रदायकः ।
सर्वपीठमयश्चापि मातृकान्यास उच्यते ॥ ४२ ॥
यः² कुर्यान्मातृकान्यासं विनैव सुरपूजनात् ।
तस्माद्बिभेति सततं भूतग्रामश्चतुर्विधः ॥ ४३ ॥
तं द्रष्टुमपि देवाश्च स्प(र्श?र्ध)यन्ति महौजसम् ।
स तु सर्वं³ वशं कुर्यान्न च याति पराभवम् ॥ ४४ ॥
पुटितां सर्वबीजेन समस्तजननीं पराम् ।
पञ्चाशन्मातृकां विद्यां जपेदष्टोत्तरं शतम् ॥ ४५ ॥
वाग्देवतां हृदि ध्यात्वा मूर्ध्नि सर्वाक्षराणि तु ।
द्विधा च मातृकामन्त्रैः सक्रमैर्व्युत्क्रमैरपि ॥ ४६ ॥
मन्त्रयित्वा महेशानि प्रभाते यः पिबेज्जलम् ।
स वाग्मी पण्डितो धीमाञ्जायते प्रवरः कविः ॥ ४७ ॥
चन्द्रबिन्दुसमायुक्तान् स्वरान् पूर्वं पठेद्बुधः ।
व्यञ्जनानि तु सर्वाणि केवलानि पठेत् प्रिये ॥ ४८ ॥
जलं हस्ततले गृह्य पठित्वाक्षरसंहतिम् ।

१ 'र मन्त्र' क पाठ । २ 'य' क पाठ । ३ 'वं' क पाठ ।

नवमः पटलः । ६५
अभिमन्त्र्य च तत्तोयं प्रथमं पू(र्वै?र)कैः पिबेत् ॥ ४६ ॥
कुम्भकेन द्वितीयं तु तृतीयं रेचकेन तु ।
एवं सकृत् त्रिवारं तु पीत्वा तोयं विचक्षणः ॥ ५० ॥
दृढाङ्गः पण्डितो भूयात् पुत्रपौत्रसमन्वितः ।
त्रिसंध्यमथ पीत्वैवं मातृकामन्त्रमन्त्रितम् ॥ ५१ ॥
तोयं कवित्वमाप्नोति सर्वान् कामांस्तथैव च ।
सततं कुरुते यस्तु मातृकामन्त्रमन्त्रितम् ॥ ५२ ॥
तोयदा[पा]नं महादेवि पूरकुम्भकरेचकैः ।
स सर्वकामान् संप्राप्य पुत्रपौत्रसमृद्धिमान् ॥ ५३ ॥
भूत्वा महाकविर्लोके बलवान् सत्यविक्रमः ।
सर्वत्र दुर्लभो भूत्वा चान्ते मोक्षमवाप्नुयात् ॥ ५४ ॥
राजानमथवा राजपुत्रं भार्यां च वा प्रिये ।
वशीकरोति न चिरान्मातृकामन्त्रपालकः ॥ ५५ ॥
—————
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे करशुद्ध्यन्तर्बहिर्मातृकान्यासवर्णनं
नाम नवमः पटलः ॥ ६ ॥

दशमः पटलः ।
श्रीदेव्युवाच
षोढाख्यां मातृकां देव कथयस्व वृषध्वज ।
ईश्वर उवाच
गणेशैः प्रथमो न्यासो द्वितीयस्तु ग्रहैर्मतः ॥ १ ॥
नक्षत्रैश्च तृतीयः स्याद्योगिनीभिश्चतुर्थकः ।
राशिभिः पञ्चमो न्यासः षष्ठः पीठैर्निगद्यते ॥ २ ॥
षोढा न्यासस्त्वयं प्रोक्तः सर्वकामफलप्रदः ।
श्रीदेव्युवाच
फलं चास्य प्रयोगं च विशदीकुरु तत्त्वतः ॥ ३ ॥
ईश्वर उवाच
नारायणोऽस्यैर्षि प्रोक्तश्छन्दस्त्रिष्टुबुदाहृतम् ।
शिवशक्त्यात्मवर्णा(ऋषी?राशि)र्देवता च सदाशिवः ॥४॥
हंसः शक्तिः परा बीजं श्रीबीजं चैव कीलकम् ।
पुरुषार्थप्रसाध्ये च विनियोगः प्रकीर्तितः ॥ ५ ॥
मूर्ध्नि संचिन्तयेद्देवि श्रीगुरुं शिवरूपिणम् ।
(१) रमाबीजं परं पश्चाद्धंसात् स्वराद्यमीरितम् ॥ ६ ॥
विघ्नेश्वराय वै प्रोच्य श्रियै नमस्ततः परम् ⊛ ।
विघ्नराजादिकानेवं शक्तियुक्तांस्तथैव च ॥ ७ ॥
विन्यसेन्मातृकास्थाने मातृकैकान्वितं शिवे ।
विघ्नराजाय देवेशि(क्रि?ह्रि)यै नमस्ततः परम् । ८
१ ‘ऋषि’ क पाठ । * अंविरेश्वराय श्रियै नमो ललाटे इत्यादिरूपो न्यासो बोध्य ।

दशमः पटलः । ६७
विनायकाय च तुष्ट्यै शांत्यै शिवोत्तमाय च ।
विघ्नकर्त्रे तथा पुष्ट्यै नम इति प्रविन्यसेत् ॥ ९ ॥
विघ्नहर्त्रे सरस्वत्यै नम इति प्रविन्यसेत् ।
विनायकाय मेधायै पूर्ववच्च विन्यसेत् ॥ १० ॥
एकदन्ताय कान्त्यै च द्विदन्ताय च योंमिनीम् ।
गजवक्त्राय मोहिन्यै निरञ्जनजटे❄तथा ॥ ११ ॥
कपर्दिने च तीव्रायै ज्वालिनी दीर्घवक्त्रकः ।
शङ्कुकर्णाय नन्दायै खरसा च वृषध्वजः ॥ १२ ॥
गणनायश्च कामिन्या गजेन्द्रश्च शुभा तथा ।
जयिनी शूर्पकर्णश्च सत्यया च त्रिलोचनः ॥ १३ ॥
लम्बोदराय विघ्नेश्र्यै महानन्दैः३ स्वरूपिणी ।
कामदया चतुर्मूर्तिः सदाशिवस्ततः परम् ॥ १४ ॥
मदविह्वलया युक्त आमोदो विकटायुतः ।
दुर्मुखाय च घूर्णायै सुमुखो भूतिसंयुतः ॥ १५ ॥
प्रमदाय तथा भूम्यै एकपादो मतिस्तथा ।
द्विजिह्वो रमया युक्तः सुरसेनश्च मानुषी ॥ १६ ॥
मकरध्वजया युक्तो वीरश्च परमेश्वरि ।
षण्मुखाय विकर्णायै वरदो भृङ्क(?भ्रुकु)टीयुतः ॥ १७ ॥
वामदेवाय लज्जायै दीर्घघोणायुतस्ततः ।
वज्रतुण्डो द्विरण्डश्च धनुर्धरायुतः प्रिये ॥ १८ ॥
१ 'ह' क पाठः 'कृते' ख पाठ । २ 'का' ख पाठ । ३ 'न्दश्च' क. पाठः ।
❄ निरञ्जनाय जटायै नम इति प्रयोगो बोध्यः ।

सेनान्ये चैव यामिन्यै ग्रामणी रात्रिसंयुतः ।
मत्तश्चन्द्रिकया युक्तो विमत्तायै शशिप्रभा ॥ १६ ॥
तथैव परमेशानि लोलया मत्तवाहनः ।
जटि[ले?ने]चपलाद्यै च मुण्डी वृद्धियुतस्तथा ॥ २० ॥
खङ्गी दुर्भगया युक्तो वरेश्यः [शु?सु]भगायुतः ।
न्यस्तव्यः परमेशानि शिवया वृषकेतनः ॥ २१ ॥
भक्त¹प्रियाय दुर्गायै मेघनादाय कामिनी ।
कालकुब्जा⁵समायुक्तो गणेश्वरः प्रकीर्तितः ॥ २२ ॥
गणेशो विघ्नहारिण्या न्यस्तव्यः साधकोत्तमैः ।
[२] सूर्यमुखान् महादेवि न्यसेत् कामदुघानथ ॥ २३ ॥
स्वरान् पूर्वं समुद्धृत्य चन्द्रबिन्दुसमन्वितान् ।
सूर्याय नम उच्चार्य हृदये च प्रविन्यसेत् ॥ २४ ॥
भ्रुवोर्मध्ये तथा सोमं [ष?य]वर्गेण प्रविन्यसेत् ।
भूपुत्रं लोचनद्वन्द्वे कवगेण तथैव च ॥ २५॥
बुधं च हृदये देवि चवर्गेण प्रविन्यसेत् ।
बृहस्पतिं तथा कण्ठे टवर्गेण प्रविन्यसेत् ॥ २६ ॥
भार्गवं तु गले देशे तवर्गेण तथा प्रिये ।
पवर्गेण शनिं नाभौ राहुं गुदे शवर्गकैः ॥ २७॥
ळक्षाभ्यां पादयोः केतुं न्यसेदेवं विधानतः ।
(३) स्वराद्यं च द्वितीयं च अश्विन्यै नम इत्यपि ॥२८॥
ललाटे च प्रविन्यस्य तथान्यानपि विन्यसेत् ।


पादटिप्पणी:
१ 'लाय' ख पाठ । २ 'क्षित्यै' क. पाठ. । ३ 'द्य' ख पाठ । ४ 'लिका' ख. पाठ । ५ 'जिह्वा' ख पाठ ।

दशमः पटलः । ६६
इंयुतां भरणीं देवि दक्षनेत्रे प्रविन्यसेत् ॥ २९ ॥
ईंउंऊंकृत्तिकां चैव विन्यसेद्वामनेत्रके ।
ऋंॠंलूंलूंयुतां देवि रोहिणीं दक्षकर्णके ॥ ३० ॥
एंयुतां मृगशीर्षां च वामकर्णे प्रविन्यसेत् ।
ऐंकारेण तथाद्रां च दक्षनासापुटे न्यसेत् ॥ ३१ ॥
ओंऔंपुनर्वसुं चैव वामनासापुटे न्यसेत् ।
कंयुतं च न्यसेत् पुष्यं कण्ठैदेशे च पार्वति ॥ ३२ ॥
खगाभ्यां च तथाश्लेषां दक्षस्कन्धे प्रविन्यसेत् ।
घङाभ्यां च मघां देवि वामस्कन्धे प्रविन्यसेत् ॥ ३३ ॥
चंपूर्वफाल्गुनीं चैव दक्षकुर्परके न्यसेत् ।
वामकुर्परके देवि छंजंउत्तरफल्गु(णी?नी)म् ॥ ३४ ॥
दक्षिणे मणिबन्धे तु झंझंहस्तं च विन्यसेत् ।
मणिबन्धे तथा वामे टंठंचित्रां प्रविन्यसेत् ॥ ३५ ॥
डंकारेण तथा खातीं दक्षहस्ततले न्यसेत् ।
ढणाभ्यां च विशाखां वै वामहस्ततले तथा ॥ ३६ ॥
तथाभ्यामनुराधां च न्यसेन्नाभौ समाहितः ।
दंधंज्येष्ठां कटौ दक्षे त्रिभिर्मूलां च वामतः ॥ ३७ ॥
पूर्वाषाढां बकारेण दक्षोरौ विन्यसेत् ततः ।
भकारेणोत्तराषाढां वामोरौ तदनन्तरम् ॥ ३८ ॥
दक्षजानुप्रदेशे च मंश्श्रवणं च विन्यसेत् ।
१ 'तां' क पाठ. । २ 'ष्यां' क पाठः । ३ 'ण्ठे' क पाठः । ४ 'स्वां' क. पाठः ।
५ 'ती' क पाठ. । ६ 'या' क. पाठ ।

१०० गन्धर्वतन्त्रे ।
यंरंयुतां धनिष्ठां च वामे जानुनि विन्यसेत् ॥ ३९ ॥
शतभिषां लकारेण दक्षजङ्घाप्रदेशके ।
वंशंवर्णस्थितां वामे पूर्वभाद्रपदां न्यसेत् ॥ ४० ॥
तथैवोत्तरभाद्रां च षसहैर्दक्षपादतः ।
ळक्षाभ्यां बिन्दु(मद्ध्वा?मूर्ध)भ्यां रेवतीं विन्यसेत्ततः ॥४१॥
(४) रक्ताक्षीं च श्वेतवर्णां पशुभीतिकरां शुभाम् ।
खड्गं च चषकं चैव शूलं खट्वाङ्गमेव च ॥ ४२ ॥
अनुग्रामुग्रदंष्ट्रां च एकास्यां रिपुनाशिनीम् ।
पायसान्नप्रसक्तां च खरैः कल्पितविग्रहाम् ॥ ४३ ॥
डाकिनीं भावयेद्देवीं सर्वकामप्रपूरणीम् ।
❀स्वरान् पूर्वं समुद्धृत्य चन्द्रबिन्दुसमन्वितान् ॥ ४४ ॥
ठान्तद्वयं ततः पश्चात् पाशतूरीयभेदितम् ।
नादबिन्दुकलायुक्तं बीजद्वयमुदीरितम् ॥ ४५ ॥
ठान्तं भान्तं महीबीजं वारुणं वह्निवायवौ ।
वामकर्णस्ततो देवि नादबिन्दुकलायुतः ॥ ४६ ॥
डाकिन्यै नम इत्यन्ते संबोध्य डाकिनीं ततः ।
[दुग्धान्न?त्वग्धातु]गत इत्युक्त्वा चतुःषष्टिपदं ततः ॥४७॥
लक्षकोटिपदस्यान्ते योगिनीस्वामिनीति च ।
सर्वसत्त्ववशं ब्रूयात् क(वि?रि)शब्द(मयं?पदं)ततः ॥४८॥


१ 'द्व' क पाठः । २ 'ह' क पाठ । ३ 'श' क. पाठ ।

  • अँ आँ इँ ईँ उँ ऊँ ऋँ ॠँ लूँ लूँ एँ ऐँ ओँ औँ अं अँ डाँ डीँ डमलवर
    यूँ डाकिन्यै नमः डाकिनि त्वग्धातुगते चतुष्षष्टिलक्षकोटियोगिनी स्वामिनि सर्वसत्त्ववश-
    करि आज्ञा मे देहि मम विच्चे । इति स्पष्टम् ।

दशमः पटलः । १०१
आज्ञां मे देहि तत्पश्चान्मम वि(क्रि?चे)पदद्वयम् ।
विशुद्धौ विन्यसेद्देवि राकिनीं चिन्तयेत् ततः ॥ ४६ ॥
हृत्पुण्डरीकमध्यस्थां दंष्ट्राभीममुखीं तथा ।
नवीननीरदश्यामां पीनोन्नतपयोधराम् ॥ ५० ॥
शूलं डमरुकं चैव दधतीं वज्रपद्मकै । १
शुक्ला(श्वाश?श्वास)कचितां च कठवर्णात्मविग्रहाम् ॥५१॥
कठवर्णांस्ततो रेफे पूर्ववत् स्वरभेदिते ।
[चा?ठा]न्तं हित्वाग्निवीजं च पूर्ववत् तदनन्तरम् ॥ ५२॥
राकिन्यै नम आभाष्य संबोध्य च तथा भवेत् ।
असृग्धातुगते पश्चाद् द्वात्रिंशल्लक्षकोटि च ॥ ५३ ॥
योगिनीस्वामिनि प्रान्ते पूर्ववत् तदनन्तरम् ।
रक्तवर्णां त्रिनेत्रां च देवदेवेशसंयुताम् ॥ ५४ ॥
दं[ष्ट्रीं?ष्ट्रिणी]मुग्ररूपाभां वज्रं शक्तिं वराभयौ ।
दधतीं चिन्तयेत् देवीं गुडभक्तोत्सुकां पराम् ॥ ५५ ॥
एवं ध्यात्वा महेशानीं डफवर्णात्मविग्रहाम् ।
डफवर्णांस्ततो देवि भूबीजद्वितयं तथा ॥ ५६ ॥
वह्निं हित्वा म[हा?ही]बीजं पूर्ववदपरं तथा ।
(सा?ला)किन्यै नम उच्चार्य संबोध्य च तथा व्रजेत् ३ ॥५७॥
मांसधातुगते पश्चात् षोडशलक्षकोटितः ।
पूर्ववदपरं सर्वं नाभिपद्मे प्रविन्यसेत् ॥ ५८ ॥
स्वाधिष्ठानाख्यपद्मे च काकिनीं परिचिन्तयेत् ।


१ 'वज्रपद्मे च धारिणीम्' क पाठ । २ 'रुद्रं' क पाठः । ३ 'भवेन्' ख पाठः ।

१०२ गन्धर्वतन्त्रे ।
पीतवर्णां महामत्तां गजकुम्भोपमस्तनीम् ॥ ५६ ॥
दध्यन्ना[श?स]क्तचित्तां च सुरप्रवरवन्दिताम् ।
शूलं डमरुकं चैव पाशं चाभयमेव च ॥ ६० ॥
वहन्तीं परमेशानीं बादिलान्तात्मविग्रहाम् ।
बादिलान्तांस्तथा कांकींकमलवरयूं ततः ॥ ६१ ॥
काकिन्यै नम इत्यन्ते संबोध्य चैव काकिनीम् ।
मेदोधातुगते पश्चात् तथाष्ट(दल?लक्ष)कोटि च ॥ ६२ ॥
योगिनीस्वामिनि प्रोच्य पूर्ववदपरं तथा ।
पञ्चवक्त्रां त्रिनेत्रां च वह्निभानुस्वरूपिणीम् ॥ ६३ ॥
चापं बाणं तथा पाशं स्त्रैणि च पुस्तकं तथा ।
ज्ञानमुद्रां च हस्ताब्जैर्दधतीं परमेश्वरीम् ॥ ६४ ॥
मुद्द्रान्नप्रीतिसंयुक्तां मूलाधारे विचिन्तयेत् ।
वादि[ध?सा]न्तांस्तथा सांर्सींसमलवरयूं तथा ॥ ६५ ॥
[शा?सा]किन्यै नम इत्यन्ते संबोध्य साकिनीं ततः ।
अस्थिधातुगते चैव चतुर्लक्षेति कोटि च ॥ ६६ ॥
योगि(नि?नी) स्वामिनि प्रान्ते वरवरदपदं तथा ।
बिन्दुस्थां शुक्लवर्णां च हक्षवर्णस्वरूपिणीम् ॥ ६७ ॥
डमरुं चाक्षसूत्रं च कपालं खड्गमेव च ।
पुस्तकं ज्ञानमुद्रां च दधतीं बाहुभिः सदा ॥ ६८ ॥
लोचनत्रयसंयुक्तां षड्वक्त्रां सर्वमोहिनीम् ।
१ 'न्त' क पाठः । २ 'नि' क पाठ । ३ 'सृ' क पाठः । ४ 'न्तास्त' क
पाठ । ५ 'शाशी श' क पाठः । ६ 'शा' क पाठ ।

दशमः पटलः । १०३
हरिद्रान्नप्रसक्ता च मधुमदमुदान्विताम् ॥ ६६ ॥
देवेन्द्रवन्दितां देवीं भावयेद्धाकिनीं पराम् ।
हंक्षंहांहीं च देवेशि हमलवरयूं तथा ॥ ७० ॥
हाकिन्यै नम उच्चार्य संबोध्य चैव हाकिनीम् ।
मज्जाधातुगते पश्चाद् द्विलक्षकोटिशब्दतः ॥ ७१ ॥
शेषं पूर्ववदुद्धृत्य भ्रुवोर्मध्ये प्रविन्यसेत् ।
अकारादिक्षकारान्तां मातृकां सर्वमुद्धरेत् ॥ ७२ ॥
यांयीं^२ तु परमेशानि यमलवरयूं तथा ।
याकिन्यै नम इत्यन्ते संबोध्यैव तु याकिनीम् ॥ ७३ ॥
शुक्रधातुगते पश्चाद्दशकोटिपदं ततः ।
पूर्ववच्च प्रविन्यस्य (५) राशिन्यासमतः परम् ॥ ७४ ॥
❀वेदार्णैर्दक्षगुल्फेऽथ मेषं विन्यस्य पार्वति ।
दक्षजानौ वृषं त्र्यर्णैर्वृषणे मिथुनं त्रिभिः ॥ ७५ ॥
द्वाभ्यां कर्कटकं कुक्षौ द्वाभ्यां स्कन्धेऽथ सिंहकम् ।
अनुस्वारविसर्गाभ्यां शवर्गेण च कन्यकाम् ॥ ७६ ॥
दक्षिणे च शिरोभागे विन्यसेद्वीरवन्दिते ।
तथा वामशिरोभागे कवर्गेण तुलां न्यसेत् ॥ ७७ ॥
चवर्गेण तथा स्कन्धे वृश्चिकं विन्यसेत् ततः ।
टवर्गेण तथा कुक्षौ धन्विनं विन्यसेत् ततः ॥ ७८ ॥
मकरं तु तवर्गेण वृषणे (दक्षिणे?वामके) न्यसेत् ।
१ 'ष' क पाठः । २ 'यां' क पाठ ।

  • ॐ आं ह्रीं ईं मेषाय नमो दक्षगुल्फे इत्यादि ज्ञेयम् । वेदार्णैश्चतुरभिरक्षरैरित्यर्थः ।

१०४ गन्धर्वतन्त्रे ।
पवर्गेण तथा कुम्भं वामजानुनि विन्यसेत् ॥ ७६ ॥
यवर्गेण चकारेण मीनं गुल्फे तु वामके ।
चतुर्थीनतिसंयुक्तं स्थानेष्वेवं क्रमान्न्यसेत् ॥ ८० ॥
(६)अथ [पि?पी]ठानि विधिना यथास्थाने प्रविन्यसेत् ।
परापूर्वं च सर्वेषां मातृकां च पृथक् पृथक् ॥ ८१ ॥
चतुर्थीनतियुक्तानि मातृकावन्न्यसेत् क्रमात् ।
कामरूपं महापीठं वाराणसीं ततः परम् ॥ ८२ ॥
नेपालं१ च महापीठं पौण्ड्रवर्धनमेव चै३ ।
पुरास्थिरं महादेवि चरस्थिरमतः परम् ॥ ८३ ॥
पूर्णशैलं महापीठमर्बुदं च ततः परम् ।
काश्मीरं च तथा पीठं कान्यकुब्जमथो भवेत् ॥ ८४ ॥
आम्रातकेश्वरं पीठमेकाम्रं च ततः शिवे ।
त्रिस्रोतः पीठमुद्दिष्टं कामकोट्ठर्मतः परम् ॥ ८५ ॥
कैलासं भूतगरं केदारं पीठमुत्तमम् ।
श्रीपीठं च तथोंकारं जालन्धरमतः परम् ॥ ८६ ॥
मालवं च कुलान्तं च देवमातृकमेव च ।
गोकर्णं च ततो देवि मारुतेश्वरमेव च ॥ ८७ ॥
अट्टहासं च विरजं राजगृहमतः परम् ।
पीठं कोल्लागिरिं चैव एलापुरमतः प्रिये ॥ ८८ ॥
कालेश्वरमहापीठं प्रणवं च जयन्तिका ।
१ 'व' क पाठ । २ 'मेदान' क पाठ । ३ 'पौगण्डवर्द्धन तथा' ख पाठ । ४ 'दारु-
केश महा' ख पाठ । ५ 'प्र' ख पाठ । ६ 'टि' ख पाठ । ७ 'नव' क पाठ. ।

दशमः पटलः । १०५
पीठमुज्जयिनीं चैव क्षीरिकापीठमेव च ॥ ८६ ॥
हस्तिनापुरकं पीठं पीठमुड्डीशमेव च ।
प्रयागं चैव षष्ठीशं मायापुरजलेश्वरौ ॥ ६० ॥
मलयं च महापीठं श्रीशैलमथवापि वै १ ।
मेरुं गिरिं महेन्द्रं च वामनं चापि विन्यसेत् ॥ ६१ ॥
हिरण्यपुरकं पीठं महालक्ष्मीपुरं च वै ।
उड्डीयानं महापीठं छायापुर २ मतः परम् ॥ ६२ ॥
षोढान्यासस्त्वयं प्रोक्तः सर्वपापहरः सदा ।
षोढान्यासविहीनो यः प्रणमेद्देवि सुन्दरीम् ॥ ६३ ॥
सोऽचिरान्मृत्युमाप्नोति नरकं च प्रपद्यते ।
एवं न्यस्तशरीरस्तु भवेद् गङ्गाधरः स्वयम् ॥ ६४ ॥
मन्त्री नचात्र संदेहो निग्रहानुग्रहक्षमः ।
न तस्य पूज्यो लोकेऽस्मिन् पितृमातृमुखो नरः ॥६५॥
स्वयं च साधकश्रेष्ठो यं कंचन न (विन्दति?वन्दते) ।
स म(र्थो?र्त्यो)मृत्युमाप्नोति नात्र कार्या विचारणा ॥६६॥
नमस्कारं न कुर्वीत ज्येष्ठस्यापि कदाचन ।
गुरोरपि न पश्येतै म्रियते नात्र संशयः ॥ ६७ ॥
तस्मात् सर्वप्रयत्नेन नमस्कारं विवर्जयेत् ।
कामं क्रोधं तथा लोभं मायाहंकारमेव च ॥ ६८ ॥
संकल्पं भोजनालापं न कुर्यात् केनचित्सह ।
भोक्तव्यं योषिता सार्धं यत्किंचित् तत्तैयैव हि ॥ ६६॥
१ 'च तथा प्रिये' ख पाठ. । २ 'पीठ' ख. पाठ । ३ 'वन्देत' क पाठः ।
४ 'म्म' क पाठ. ।