सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 169, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 169

८८ गन्धर्वतन्त्रे ।
तस्यैव हि विशुद्ध्यर्थं वायु₁ग्निसलिलाक्षरैः ॥ ६३ ॥
शोषदाहौ तथा भस्मप्रोत्सादोऽमृतवर्षणम् ।
आप्लावनं च कर्तव्यं पूरकुम्भकरेचकैः ॥ ६४ ॥
पञ्चशुद्धिविहीनेन कृतं यदभिचारवत् ।
विपरीतफलं दद्याद्भक्त्याभ्यर्चनं तथा ॥ ६५ ॥
शरीराकारभूतानां भूतानां यद्विशोधनम् ।
अव्ययब्रह्मसंस्पर्शाद् भूतशुद्धिरियं प्रिये ॥ ६६ ॥
अन्तःकरणमध्ये तु ज्योतिरात्मा प्रवर्तते ।
लिङ्गै₂देहं तु तं₃ प्राहुर्योगिनस्तत्त्ववेदिनः ॥ ६७ ॥
तस्य वै शोधनं चैव सर्वशुद्धिः प्रजायते ।
तदेव विश्वजननकारणं जन्मकारणम् ॥ ६८ ॥
तत्प्रतीतौ भवेन्मुक्तिर्नान्यतो जन्मकोटिभिः ।
प्राणायामत्रयं कृत्वा योनिमुद्रां ꕤ तथा स्मरेत् ॥ ६६ ॥
विद्याकूटत्रयं देवि वह्न्यर्केन्दुमयं धिया ।
पुरत्रयेऽथ संचिन्त्य तेषामैक्यं ततः स्मरेत् ॥ १०० ॥
तस्मिंस्तेजोमये (विश्वे?बिम्बे) सच्चिदानन्दधामनि ।
केवलानुभवानन्दे परँ₄ब्रह्मणि शाश्वते ॥ १०१ ॥
निमज्य बिन्दुगे धाम्नि क्षणं स्थित्वा तु चिन्तयेत् ।
बालार्ककिरणारक्तं तत्तत्तेजोमयं स्मरेत् ॥ १०२ ॥


१ 'ष्वा' ख पाठ । २ 'ङ्ग' ख पाठ । ३ 'तत्' ख पाठ । ४ 'रम्' ख पाठः
ꕤ तल्लक्षण यथा— मिथ कनिष्ठिके बद्ध्वा तर्जनीभ्यामनामिके । अनामिकोध्र्व संश्लि-
ष्टदीर्घमध्यमयोध्र्वं । अङ्गुष्ठाग्रद्वय न्यस्येद्योनिमुद्रयमीरिता ॥ इति ।