सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 173, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 173

६२ गन्धर्वतन्त्रे ।
स्वाहा वषड् हुं च वौषट् फडन्तं योजयेत् प्रिये ।
षडङ्गोऽयं मातृकायाः सर्वपदोत्तरः शिवे ॥ २० ॥
बालार्ककोटिरुचिरां स्फटिकाक्षमालां
कोदण्डमिच्छुजनितं [स्व?स्म]रपञ्चबाणान् ।
विद्यां च हस्तकमलैर्दधतीं त्रिनेत्रां
ध्यायेत् समस्तजननीं नवचन्द्रचूडाम् ॥ २१ ॥
ह्यष्टपत्राम्बुजे कण्ठे स्वरान् षोडश चिन्तयेत् ।
हृत्पद्मे द्वादशच्छदे कादीन् द्वादश विन्यसेत् ॥ २२ ॥
दशपत्राम्बुजे नाभौ डकारादीन् न्यसेद्दश ।
षट्पत्रे लिङ्गमध्यस्थे बकारादीन् न्यसेच्च षट् ॥ २३ ॥
आधारे चतुरो वर्णान् वादीन् न्यसेच्चतुर्दले ।
हक्षौ भ्रूमध्यगे पद्मे द्विद्ले परिचिन्तयेत् ॥ २४ ॥
इत्यन्तर्मातृकाः स्मृत्वा बहिर्न्यासं ततश्चरेत् ।
☸अकारादिक्षकारान्ता मातृकाः परिकीर्तिताः ॥ २५ ॥
प्रत्येकं कामबीजाद्याः सर्वकामफलप्रदाः ।
चन्द्रबिन्दुसमायुक्ता नमोन्ताश्च प्रविन्यसेत् ॥ २६ ॥
ललाटे मुखवृत्ते च नेत्रकर्णेषु पार्वति ।
नासागण्डौष्ठदन्तेषु समूर्धास्येषु शांकरि ॥ २७ ॥
पाणिपाद्युगस्यान्तःसंध्यग्रेषु क्रमाच्छिवे ।
पार्श्वद्वये पृष्ठनाभिजठरेषु क्रमान्न्यसेत् ॥ २८ ॥

१ 'स्वाहावषड्वौषडस्त्र फड' क पाठ । २ 'शिवे' क पाठ ।
☸ बहिर्मातृकान्यासमाह अकारेत्यादिना । क्लींअनमो ललाटे इत्येव ज्ञेयम् ।