गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 176, कुल 446 में से
संदर्भ में पढ़ेंनवमः पटलः । ६५
अभिमन्त्र्य च तत्तोयं प्रथमं पू(र्वै?र)कैः पिबेत् ॥ ४६ ॥
कुम्भकेन द्वितीयं तु तृतीयं रेचकेन तु ।
एवं सकृत् त्रिवारं तु पीत्वा तोयं विचक्षणः ॥ ५० ॥
दृढाङ्गः पण्डितो भूयात् पुत्रपौत्रसमन्वितः ।
त्रिसंध्यमथ पीत्वैवं मातृकामन्त्रमन्त्रितम् ॥ ५१ ॥
तोयं कवित्वमाप्नोति सर्वान् कामांस्तथैव च ।
सततं कुरुते यस्तु मातृकामन्त्रमन्त्रितम् ॥ ५२ ॥
तोयदा[पा]नं महादेवि पूरकुम्भकरेचकैः ।
स सर्वकामान् संप्राप्य पुत्रपौत्रसमृद्धिमान् ॥ ५३ ॥
भूत्वा महाकविर्लोके बलवान् सत्यविक्रमः ।
सर्वत्र दुर्लभो भूत्वा चान्ते मोक्षमवाप्नुयात् ॥ ५४ ॥
राजानमथवा राजपुत्रं भार्यां च वा प्रिये ।
वशीकरोति न चिरान्मातृकामन्त्रपालकः ॥ ५५ ॥
—————
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे करशुद्ध्यन्तर्बहिर्मातृकान्यासवर्णनं
नाम नवमः पटलः ॥ ६ ॥