सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 177, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 177

दशमः पटलः ।
श्रीदेव्युवाच
षोढाख्यां मातृकां देव कथयस्व वृषध्वज ।
ईश्वर उवाच
गणेशैः प्रथमो न्यासो द्वितीयस्तु ग्रहैर्मतः ॥ १ ॥
नक्षत्रैश्च तृतीयः स्याद्योगिनीभिश्चतुर्थकः ।
राशिभिः पञ्चमो न्यासः षष्ठः पीठैर्निगद्यते ॥ २ ॥
षोढा न्यासस्त्वयं प्रोक्तः सर्वकामफलप्रदः ।
श्रीदेव्युवाच
फलं चास्य प्रयोगं च विशदीकुरु तत्त्वतः ॥ ३ ॥
ईश्वर उवाच
नारायणोऽस्यैर्षि प्रोक्तश्छन्दस्त्रिष्टुबुदाहृतम् ।
शिवशक्त्यात्मवर्णा(ऋषी?राशि)र्देवता च सदाशिवः ॥४॥
हंसः शक्तिः परा बीजं श्रीबीजं चैव कीलकम् ।
पुरुषार्थप्रसाध्ये च विनियोगः प्रकीर्तितः ॥ ५ ॥
मूर्ध्नि संचिन्तयेद्देवि श्रीगुरुं शिवरूपिणम् ।
(१) रमाबीजं परं पश्चाद्धंसात् स्वराद्यमीरितम् ॥ ६ ॥
विघ्नेश्वराय वै प्रोच्य श्रियै नमस्ततः परम् ⊛ ।
विघ्नराजादिकानेवं शक्तियुक्तांस्तथैव च ॥ ७ ॥
विन्यसेन्मातृकास्थाने मातृकैकान्वितं शिवे ।
विघ्नराजाय देवेशि(क्रि?ह्रि)यै नमस्ततः परम् । ८
१ ‘ऋषि’ क पाठ । * अंविरेश्वराय श्रियै नमो ललाटे इत्यादिरूपो न्यासो बोध्य ।