गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 171, कुल 446 में से
संदर्भ में पढ़ेंनवमः पटलः ।
ईश्वर उवाच
देव एव यजेद्देवं नादेवो देवमर्चयेत् ।
न्यासं विना जपं प्राहुरासुरं विफलं शिवे ॥ १॥
न्यासात्तदात्मको भूत्वा देवो भूत्वा तु तं यजेत् ।
प्राणायामैस्तथा ध्यानैर्न्यासैर्देवशरीरता ॥ २॥
न्यासविधिं शृणु प्राज्ञे करशुद्धिपुरःसरम् ।
मातृकाद्यं समुद्धृत्य द्वितीयं च सबिन्दुकम् ॥ ३॥
शान्तान्तं कौदिसंयुक्तमेकारान्तान्तयोजितम् ।
एवमेषा महाविद्या करशुद्धिकरी ☫ मता ॥ ४॥
गृहीत्वा रक्तपुष्पं च सगन्धं साधकस्ततः ।
अनेनैव तु मन्त्रेण पुष्पं हस्ततलस्थितम् ॥ ५॥
संमार्ज्य सव्यहस्तेन वामेन पाणिना ततः ।
निर्मञ्छ्य कामबीजेन जिघ्रपेद्वाग्भवेन तु ॥ ६॥
ऐशान्यां निःक्षिपेदेतच्छ्लेषबीजेन पार्वति ।
अङ्गुल्यग्राणि शुद्धानि पुष्पस्य ग्रहणाद्भवेत् ॥ ७॥
मर्दनात् करयोः शुद्धिर्निर्मञ्छनात् पृष्ठयोः ।
घ्राणाद्देवाश्च तुष्यन्ति तीर्थानां च समागमः ॥ ८॥
प्रक्षेपात् सर्वविघ्नानां दूरसंस्थानमेव च ।
१ 'न्तक' क पाठ । २ 'कोत्तम' ख पाठ । ३ 'शव' ख पाठ ।
☫ सबिन्दु मातृकाद्य अ द्वितीय च आ शान्तेत्यादिना सौ इत्येषा करशुद्धिकरीविद्या ।