गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
शृणु सर्वाङ्गसुभगे दिव्यं कवचमुत्तमम् ॥ ९ ॥
राजराजेश्वरीदेव्याः कवचस्य ऋषिः शिवः ।
छन्दो विराड् देवता च महात्रिपुरसुन्दरी ॥ १० ॥
हंसः शक्तिः परा बीजं रमाबीजं च कीलकम् ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ ११ ॥
त्रिपुरा त्रिविधा पातु मम सर्वार्थसिद्धये ।
ऐंक्लींसौः वदने बाला पातु सर्वार्थसिद्धिदा ॥ १२ ॥
हेंस्त्रैं-हसकलरी-हस्रौः कण्ठे पातु महादेवी श्रीमत्त्रिपुरभैरवी
हृदयेऽव्यान्महेशानी महात्रिपुरसुन्दरी ॥ १३ ॥
राजराजेश्वरीविद्या षोडशी या महोदया ।
ब्रह्मरन्ध्रे सदा पातु कमला परमेश्वरी ॥ १४ ॥
गिरिराजसुता देवी पातु नित्यं च शीर्षके ।
कामबीजं ललाटेऽव्याद्वाग्बीजं कण्ठदेशके ॥ १५ ॥
सौः पातुं मे तथा पार्श्वे प्रणवो बाहुमूलके ।
शंभुप्रिया सदा पातु बाह्वोर्दक्षिणसव्ययोः ॥ १६ ॥
विष्णुप्रिया सदा पातु मणिबन्धद्वये तथा ।
पार्वतीशः करे पातु नेत्रे नक्षत्रवल्लभः ॥ १७ ॥
श्रोत्रे रतिप्रियः पातु घ्राणे शक्रः सदावतु ।
पृष्ठदेशे सदा पातु पार्वती परमेश्वरी ॥ १८ ॥
हँसौः श्वासे चैव निःश्वासे पातां परमसिद्धिदौ ।
कामः कामे सदा पातु पिनाकी लिङ्गगोचरे ॥ १९ ॥
१ ‘हैंस्त्र’ ‘हेस्रौ क पाठ । २ ‘तुन’ ख पाठ.। ३ ‘हुद’ ख पाठः । ४ ‘हेसो,’ क, पाठ.।
चतुर्थः पटलः । २७
पृथ्वी सर्वा(श?स)के पातु हृल्लेखा हृदयेऽवतु ।
स्तनौ विष्णुप्रिया पातु कुचौ च स पुरान्तकः ॥ २० ॥
नेत्रे वज्रधरः पातु माया वै जठरेऽवतु ।
पदद्वन्द्वे च सौः पातु ऐं जिह्वानिलयेऽवतु ॥ २१ ॥
ह्रींकारः सर्वदा पातु दन्तोष्ठयोर्वरानने ।
शीर्षादिपादपर्यन्तं सर्वाङ्गं भुवनेश्वरी ॥ २२ ॥
रक्षाहीनं च यत् स्थानं वर्जितं कवचेन तु ।
तत्सर्वं परमेशानि पातु नित्यं हरिप्रिया ॥ २३ ॥
आधारे वाग्भवः पातु कामराजो हृदि प्रिये ।
शक्तिकूटं तथा पातु भ्रुवोर्मध्ये च पार्वति ॥ २४ ॥
शीर्षे कूटत्रयं पातु ललाटे सर्वमन्त्रकः ।
अष्टाविंशतिवर्णोयं मुखवृत्ते सदावतु ॥ २५ ॥
षोडशीयं महाविद्या ब्रह्मविद्यैव केवला ।
भोगमोक्षप्रदा देवी केवलात्मस्वरूपिणी ॥ २६ ॥
कामेश्वरी ललाटेऽव्यान्मुखे तु भगमालिनी ।
दक्षनेत्रे सदा पातु नित्यं (दीक्षा?क्लिन्ना) महोदया ॥ २७॥
भीरुण्डा वामनेत्रेऽव्यात् कर्णौ वै वह्निवासिनी ।
महा(विद्ये?वज्रे)श्वरी पातु वामकर्णप्रदेशके ॥ २८ ॥
दक्षनासापुटे पातु शिवदूती महेश्वरी ।
वामनासापुटे पातु त्वरिता सर्वसिद्धिदा ॥ २६ ॥
दक्षगण्डे सदा पातु नित्यं मां कुलसुन्दरी ।
१ ‘ति’ ख पाठः ।
त्रैलोक्यविमला पातु वामगण्डप्रदेशके ॥ ३० ॥
ओष्ठे॑ नीलपताकाव्याद् अधरे विजयावतु ।
ऊर्ध्वदन्ते सदा पातु देवी मां सर्वमङ्गला ॥ ३१ ॥
अधोदन्तप्रदेशेऽव्यानित्यं ज्वालांशुमालिनी ।
विचित्रा सर्वदा पातु नित्यं मूर्धनि पार्वति ॥ ३२ ॥
आसां प्रधानभूता या महात्रिपुरसुन्दरी ।
षोडशी सा सदा पातु मुखे वै परमेश्वरी ॥ ३३ ॥
पृष्ठदेशे सदा पान्तुं गुरवस्त्रिविधाश्च ते ।
पादयोः सर्वदा पातु त्रिपुरा परमेश्वरी ॥ ३४ ॥
जानुदेशे सदा पातु देवी मां त्रिपुरेश्वरी ।
ऊरुद्वये सदा पातु देवी त्रिपुरसुन्दरी ॥ ३५ ॥
त्रिपुरवासिनी देवी कटिदेशे सदावतु ।
त्रिपुराश्रीश्च मां नित्यं गुह्यदेशे सदावतु ॥ ३६ ॥
मूलाधारे सदा पातु देवी त्रिपुरमालिनी ।
नाभौ त्रिपुरसिद्धाव्यात् त्रिपुरा(च?म्बा) सदा हृदि ॥३७
ब्रह्मरन्ध्रे सदा पातु महात्रिपुरसुन्दरी ।
आसां तु मन्त्रबीजानि प्रोक्तस्थानेषु विन्यसेत् ॥ ३८
पाषाण्डगणमध्ये तु बुद्धो मां परिरक्षतु ।
ब्रह्माव्याद् ब्रह्मसंघांते शिवो मां योगसिद्धये ॥ ३६ ॥
ज्ञाने मां भास्करः पातु मोक्षे नारायणः प्रभुः ।
या शक्तिः सर्वभूतानां विद्याविद्येति गीयते ॥ ४० ॥
सा शक्तिः सर्वदा पातु स्त्रीपुत्रधनसंपदि ।
चतुर्थः पटलः । • २६
अणिमा पश्चिमे पातु लघिमा चोत्तरेऽवतु ॥ ४१ ॥
पूर्वतः पातु महिमा ईशिता दक्षिणेऽवतु ।
वशिताँ वायुनिलये ईशे प्राकाम्यसिद्धिदा ॥ ४२ ॥
भुक्तिसिद्धिस्तथाग्नेये पात्विच्छासिद्धी राक्षसे ।
अधः पातु प्राप्तिसिद्धिर्मोक्षसिद्धिस्तथोर्ध्वके ॥ ४३ ॥
ब्रह्माणी संध्ययोः पातु माहेश्वरी दिवावतु ।
मध्याह्ने पातु कौमारी रात्रौ च शक्रवल्लभा ॥ ४४ ॥
ब्राह्मे मुहूर्त्तके पातु वैष्णवी सर्वसिद्धिदा ।
निशीथे पातु वाराही चामुण्डा श(क्र?त्रु)विग्रहे ॥ ४५ ॥
महोत्साहे महालक्ष्मीः पातु नित्यं महेश्वरी ।
शीर्षे संक्षोभिणी पातु (तारि?द्रावि)णी हृदयेऽवतु ॥४६॥
आकर्षिणी शिखायां तु कवचे पातु वश्यदा ।
उन्मादिनी तथा नेत्रे सर्वगात्रे महाङ्कुशा ॥ ४७ ॥
त्रिखण्डा भुजयोः पातु बीजे बीजस्वरूपिणी ।
खेचरी पादयोः पातु योनिमुद्रा च सर्वतः ॥ ४८ ॥
(स?का)माकर्षणरूपाव्यात् सर्दाकर्षणकर्मणि !
बुद्ध्याकर्षणरूपांऽव्यात् परबुद्धिविकर्षणे ॥ ४६ ॥
अहंकारे सदा पातु अहंकारविकर्षणी ।
शब्दाकर्षणरूपाव्याच्छब्दाकर्षणकर्मणि ॥ ५० ॥
स्पर्शाकर्षणरूपा मां पातु स्पर्शनकर्मणि ।
रूपाकर्षणरूपाव्यात् पररूपविकर्षणे ॥ ५१ ॥
१ ‘स्वा’ क पाठ. । २ ‘स्वा’ क. पाठ । ३ ‘कामा’ ख पाठः ।
रसाकर्षणरूपाव्याद् रसे वै परमेश्वरी ।
गन्धाकर्षणरूपा मां पातु गन्धे च सर्वदा ॥ ५२ ॥
चित्ताकर्षणरूपा मां पायादाकृष्टिकर्मणि ।
धैर्याकर्षणरूपा तु पातु धैर्यविधौ सदा ॥ ५३ ॥
स्मृत्याकर्षणरूपाव्याज्ज्ञानाकर्षणकर्मणि ।
नामाकर्षणरूपाव्यान्नामव्याहरणे सदा ॥ ५४ ॥
बीजाकर्षणरूपा मां सर्वबीजप्ररोपणे ।
परजीवाकर्षणे पात्वात्माकर्षणरूपिणी ॥ ५५ ॥
अमृताकर्षिणी पातु अमृतीकरणे सदा ।
शरीराकर्षिणी पातु सदा शरीररक्षणे ॥ ५६ ॥
अनङ्गकुसुमा पातु पुरतः सर्वकर्मणि ।
अनङ्गमेखला पातु पृष्ठतः परमेश्वरी ॥ ५७ ॥
अनङ्गमदना पातु वामतो मे महेश्वरी ।
दक्षिणे सर्वदा पातु अनङ्गमदनातुरा ॥ ५८ ॥
नित्यं चानङ्गरेखाव्यादूर्ध्वं मम सदा प्रिये ।
अनङ्गवेगिनी पातु अधो मे परमेश्वरी ॥ ५९ ॥
तथानङ्गांकुशा नित्यं पातु मां दिक्षु सर्वदा ।
अनङ्गमालिनी पातु विदिक्षु मम सर्वदा ॥ ६० ॥
सर्वसंक्षोभिणी चोध्र्वे पातु मां जगदीश्वरी ।
सर्वविद्राविणी चाधो दिक्षु सर्वविकर्षणी ॥ ६१ ॥
सर्वाह्लादकरी शक्तिर्विदिक्षु परिरक्षतु ।
सर्वसंमोहिनी पातु समन्तात् परमेश्वरी ॥ ६२ ॥
अन्तर्बहिश्च मां पातु सर्वस्तम्भनकारिणी ।
तथैव पातु मां नित्यमाकाशे सर्वजृम्भणी ॥ ६३ ॥
पाताले चैव मां पातु सर्ववश्यकरी तथा ।
देवलोके सदा पातु सर्वरञ्जनकारिणी ॥ ६४ ॥
सर्वोन्मदनशक्तिर्मां भूतले परिरक्षतु ।
सर्वार्थसाधनी शक्तिः पायाद्भूतगणालये ॥ ६५ ॥
सिद्धानामालये पातु सर्वसंपत्तिपूरणी ।
राक्षसानां च यक्षाणां सर्वमन्त्रमयी गृहे ॥ ६६ ॥
असुराणां निवासे तु सर्वद्वन्द्वक्षयंकारी ।
सर्वसिद्धिप्रदा देवी पातु राजगृहे सदा ॥ ६७ ॥
सर्वसंपत्प्रदा पातु स्वगृहे सर्वसंपदि ।
सर्वप्रियङ्करी पातु सर्वलोकेषु सर्वदा ॥ ६८ ॥
सर्वमङ्गलकार्येऽव्यात् सर्वमङ्गलकारिणी ।
सर्वकामप्रदा देवी सर्वकार्येषु सर्वदा ॥ ६९ ॥
ऐश्वर्ये सर्वदा पातु सर्वैश्वर्यप्रदायिनी ।
सर्वमृत्युप्रशमनी पायान्नित्यं ममालये ॥ ७० ॥
सर्वारम्भे सदा पातु सर्वविघ्नविनाशिनी ।
देहसौन्दर्यकाले तु पातु सर्वाङ्गसुन्दरी ॥ ७१ ॥
सर्वसौभाग्यकाले तु सर्वसौभाग्यदायिनी ।
सर्वज्ञा च गृहे पातु सर्वशक्तिमयी रणे ॥ ७२ ॥
सर्वैश्वर्यप्रदा मार्गे सर्वज्ञानमयी जले ।
१ 'कर्मणि' क. पाठ. । २ 'सर्वदुःखविमोचिनी' क. पाठः ।
सर्वव्याधिषु सर्वत्र सर्वव्याधिविनाशिनी ॥ ७३ ॥
पर्वते पातु प्रबला सर्वाधारस्वरूपिणी ।
सर्वपापहरा पातु सर्वकर्मसु सर्वदा ॥ ७४ ॥
सर्वानन्दकरी देवी नानाघकृतगोचरे ।
सर्ववैरिभये पातु सर्वरक्षास्वरूपिणी ॥ ७५ ॥
सर्वसंकल्पकार्येषु सर्वेप्सितफलप्रदा ।
वशिनी वश्यकार्येऽव्यात् कामेशी स्तम्भनेऽवतु ॥ ७६ ।
मोहने मोदिनी पातु विमलोच्चाटनेऽवतु ।
अरुणा पातु मां वादे जैयिनी जल्पकर्मणि ॥ ७७ ॥
सर्वेश्वरी काम्यकार्ये कौलिनी भेदकर्मणि ।
जृम्भणे सर्वदा पा(तु?न्तु) शराः पञ्च महेश्वरि ॥ ७८ ।
धनुर्मोहविधौ पातु पाशस्तु वश्यकर्मणि ।
महातेजोमयः पातु स्तम्भने मां तथाङ्कुशः ॥ ७९ ॥
सर्वज्ञा हृदये पातु नित्य(कृता?तृप्तिः) च शीर्षके ।
अनादिबोधिका पातु नित्यं शिखाप्रदेशके ॥ ८० ॥
कवचे मां स्वतन्त्राव्यात् नेत्रे नित्यमलुप्तिका ।
अचिन्त्यशक्ति(व?र)स्त्रेषु पायात् परंमसिद्धिदा ॥ ८१ ॥
कामेश्वरी रतौ पातु युद्धे वज्रेश्वरी तथा ।
नित्यं पातु महेशानी श्रीकामे भगमालिनी ॥ ८२ ॥
रसे रूपे च गन्धे च शब्दे स्पर्शे च पातु माम् ।
सर्वानन्दमयी देवी महात्रिपुरसुन्दरी ॥ ८३ ॥
ईशाने वटुकः पातु आग्नेय्यां योगिनीगणाः ।
त्वगसृङ्मांसमेदोऽस्थिमज्जशुक्राणि पान्तु नः ॥ ८४ ॥
क्षेत्रेशो नैर्ऋते पातु गणेशो वायुमन्दिरे ।
मातङ्गवनिता पातु शेषिका कुलसुन्दरी ॥ ८५ ॥
शक्तिर्मां सर्वदा पातु मूलाधारनिवासिनी ।
इतीदं कवचं देवि त्रिषु लोकेषु दुर्लभम् ॥ ८६ ॥
यन्नोक्तं डामरे तन्त्रे यन्नोक्तं रुद्रयामले ।
सर्वतन्त्रेषु यन्नोक्तं गन्धर्वे प्रकटीकृतम् ॥ ८७ ॥
तव प्रीत्या महादेवि गोपनीयं प्रयत्नतः ।
तव नाम्नि स्मृते देवि सर्वयज्ञफलं लभेत् ॥ ८८ ॥
सर्वत्रैव जयप्राप्तिर्वाञ्छा सर्वत्र सिध्यति ।
नाम्नः शतगुणं स्तोत्रं व्याख्यानं चापि तच्छतम् ॥ ८६ ॥
तस्माच्छतगुणं ध्यानं ध्यानाच्छतगुणो मनुः ।
मन्त्राच्छतगुणं देवि कवचं ते मयोदितम् ॥ ६० ॥
यस्मै कस्मै न दातव्यं सुगोप्यमतिदुर्लभम् ।
न देयं परशिष्याय कृपणाय सुरेश्वरि ॥ ६१ ॥
शिष्याय भक्तिहीनाय चुम्बकाय तथैव च ।
गुरुभक्तिविहीनाय परहिंसारताय च ॥ ६२ ॥
निन्दकाय कुशीलाय दाम्भिकाय महेश्वरि ।
अभक्तेभ्योऽपि पुत्रेभ्यो दत्त्वा मृत्युमवाप्नुयात् ॥ ६३ ॥
यो ददाति निषिद्धेभ्यः कवचं मन्मुखाच्च्युतम् ।
तस्य नश्यन्ति देवेशि विद्यायुःकीर्त्तिसंचयाः ॥ ६४ ॥
तं हिंसन्ति च योगिन्यो मदीयशासनात् प्रिये ।
परे नरकमाप्नोति जन्मकोटिशतानि च ॥ ९५ ॥
सर्वलक्षणयुक्ताय यन्त्रमन्त्ररताय च ।
शिष्याय शान्तचित्ताय गुरुभक्तिरताय च ॥ ९६ ॥
उदके लवणं लीनं यथा भवति पार्वति ।
मनो भवति वै लीनं पादयोः श्रीगुरोः प्रिये ॥ ९७ ॥
तदा देयं महद्गुह्यं कृपया चातिदुर्लभम् ।
गुरोः पादप्रसादेन श्रीविद्या यदि लभ्यते ॥ ९८ ॥
तथैव कवचं देवि त्रिषु लोकेषु दुर्लभम् ।
स च देवो हरः साक्षात् तत्पत्नी परमेश्वरी ॥ ९९ ॥
प्रमादादपि देवेशि श्रीगुरोर्नाम नाददेत् ।
यस्य भक्तिर्गुरौ नित्यं वर्तते देव¹वत् प्रिये ॥ १०० ॥
तस्य मन्त्रस्य यन्त्रस्य सिद्धिर्भवति नान्यथा ।
कवचस्य तथा सिद्धिर्गु²टिकायाश्च सुन्दरि ॥ १०१ ॥
इदं कवचमज्ञात्वा यो जपेत् सुन्दरीं पराम् ।
नवलक्षं प्रजप्त्वापि * तस्य विद्या न सिध्यति ॥ १०२ ॥
शुचिः समाहितो भूत्वा भक्तिश्रद्धासमन्वितः ।
सर्वभूतलये सुप्ते निशायामर्धरात्रके ॥ १०३ ॥
हेतुयुक्तो महेशानि निर्जने पशुवर्जिते ।
रक्तासनोपविष्टस्तु रक्ताभरणभूषितः ॥ १०४ ॥
ताम्बूलपूरितमुखो धूपामोदसुगन्धितः ।
संस्थाप्य वामभागे तु शक्तिं स्वामिपरायणाम् ॥ १०५ ॥
१ 'त' क पाठ । २ 'र्द्धा' क पाठ. । * ऐश पाठ. ।
रक्तवस्त्रपरीधानां शिवमन्त्रधरां शुभाम् ।
या शक्तिः सा महादेवी हररूपस्तु साधकः ॥ ११०६ ॥
अन्योन्यचिन्तनाद् देवि देवत्वमुपजायते ।
शक्तियुक्तो यजेद् देवीं श्रीचक्रे लक्षणान्विते ॥ १०७ ॥
पुष्पाञ्जलित्रयं देव्यै मूलमन्त्रेण दापयेत् ।
भोगैश्च मधुपर्काद्यैस्ताम्बुलाद्यैः सुवासितैः ॥ १०८ ॥
पूजयित्वा महादेवीं पूजाकोटिफलं लभेत् ।
पूर्वोक्त(स्या?न्या)समेवास्मिन् समये च प्रविन्यसेत् ॥१०६॥
आत्मानं परमं ध्यायेद् दिव्यस्त्रीभिरलंकृतम् ।
दिव्यं मूर्ध्नि महच्छत्रं सहस्रदलनिर्मितम् ॥ ११० ॥
सुधावर्षिमुखाम्भोजं सस्मितं दिव्यवर्चसम् ।
परमानन्दसंदोहमुदितं परमव्ययम् ॥ १११ ॥
दिव्यालङ्कारवस्त्राढ्यं दिव्यमाल्यानुलेपितम् ।
दिव्यासनसमासीनं दिव्यभोगविभोगिनम् ॥ ११२ ॥
सर्वगं सर्वभूतेशं सृष्टिस्थित्यन्तकारिणम् ।
निर्लेपं निर्मलं शान्तं सर्वव्यापिनमीश्वरम् ॥ ११३ ॥
ततो देवीं हृद२म्भोजे ध्यायेत् तद्गतमानसः ।
ज(वा?पा)कुसुमसंकाशां बालार्ककिरणारुणाम् ॥ ११४ ॥
रक्तपद्मसमासीनां रक्ताभरणभूषिताम् ।
रक्तवस्त्रपरीधानां पूर्णचन्द्रनिभानना३म् ॥ ११५ ॥
सैवाहमित्यभेदेन द्वैतहीनं विचिन्तयेत् ।
अद्वैतानन्दभावेन साधकः परमात्मनः ॥ ११६ ॥
१ 'भू' क पाठ । २ 'दा' क. पाठ । ३ 'न' क पाठ. ।
च्छायया शोणया व्याप्तं जगदेतच्चराचरम् ।
भावनावशसंपन्नो भावयेद् भावनापरः ॥ ११७ ॥
एवं चिन्तापरस्याशु सिद्धयोऽष्टौ भवन्ति हि ।
संप्राप्य विपुलान् भोगान् राज्यास्पदं च भूतले ॥ ११८॥
ऐन्द्रं पदमवाप्याथ विहरन् नन्दने वने ।
उर्वशीप्रमुखाभिश्च स्वच्छया दिव्यभोग(दा?वा)न् ॥ ११९॥
तदाप्नोति परं स्थानं दुरापं त्रिदशैरपि ।
ततश्च कवचं दिव्यं पठेदेकमनाः प्रिये ॥ १२० ॥
तस्य सर्वार्थसिद्धिः स्यान्नात्र कार्या विचारणा ।
इदं रहस्यं परमं परं स्वस्त्ययनं महत् ॥ १२१ ॥
सर्वेषामेव हिंस्राणां डाकिनीनां महेश्वरि ।
निशाचरगणानां च वारणं नाशनं तथा ॥ १२२ ॥
आयुर्बलप्रदं नित्यं तुष्टिपुष्टिशुभावहम् ।
नारीणां मृतवत्सानां गुणवत्सुतदायकम् ॥ १२३ ॥
सूत्या(:) सूतिगृहस्यापि बालग्रहनिवारणम् ।
विषद(स्य?स्यु)ग्रहाणां च सदा शान्तिविवर्द्धनम् ॥ १२४॥
विषशस्त्राग्निरुद्राणां वारणं जयदं युधि ।
जले स्थले तथाकाशे सर्वोत्पातेषु सर्वदा ॥ १२५ ॥
त्रैलोक्यवासिनामेव सर्वमङ्गलदायकम् ।
सकृद्यस्तु पठेद् देवि कवचं देवदुर्लभम् ॥ १२६ ॥
हयमेधफलं तस्य भवत्येव न संशयः ।
नित्यं यस्तु पठेद् देवि शृणुयाद्वा समाहितः ॥ १२७ ॥
१ 'न' क पाठ. ।
स सर्वांल्लभते कामान् परे देवीपुरं व्रजेत् ।
संग्रामे च जयेच्छत्रून् मातङ्गानिव केसरी ॥ १२८ ॥
दहेत् तृणं यथा वह्निस्तथा शत्रूञ्जयेत् सदा ।
नास्त्राणि तस्य शस्त्राणि शरीरे प्रभवन्ति च ॥ १२६ ॥
तद्गात्रं प्राप्य शस्त्राणि ब्रह्मास्त्राणि च यानि च ।
माल्यानि कुसुमानीव सुखदानि भवन्ति हि ॥ १३० ॥
पराः पराङ्मुखा यान्ति वि(वा?ना)युद्धेन पार्वति ।
व्याधिस्तस्य कदाचित्तु दुःखं नास्ति कदाचन ॥ १३१ ॥
गतिस्तस्यैव सर्वत्र वायोस्तुल्या सदा भवेत् ।
दीर्घायुः कामभोगी सो ꕤ धनधान्यसमृद्धिमान् ॥ १३२ ॥
जितव्याधी रूपवान् स्याद् गुणवानभिजायते ।
चातुर्वर्ण्यं करे तस्य भवत्येव न संशयः ॥ १३३ ॥
अन्यस्य वल्लभः सो † वै पुत्रदारकुलान्वितः ।
इह लोके सुखं भुक्त्वा परे मुक्तो भविष्यति ॥ १३४ ॥
न तस्य दुर्गतिर्देवि कदाचिदपि जायते ।
दुर्ग्रहाः सुग्रहा यान्ति वशं गच्छन्ति मानवाः ॥ १३५ ॥
न तस्य विघ्नो भवति न शोको भुवि जायते ।
वेतालाश्च पिशाचाश्च राक्षसाश्च भयानकाः ॥ १३६ ॥
ते सर्वे विलयं यान्ति कवचस्यास्य कीर्त्तनात् ।
तस्यैव शत्रवो देवि चिन्तामात्रप्रयोगतः ॥ १३७ ॥
विनश्यन्ति न संदेहो योगिन्यो भक्षयन्ति तान् ।
ꕤ ऐश पाठ. । † ऐश पाठः ।
शान्तिकादीनि कर्माणि मारणोच्चाटनानि च ॥ १३८ ॥
वचोमात्रेण देवेशि तस्य सिध्यन्ति भूतले ।
न पापैर्लिप्यते देवि महोग्रैस्तु सुदारुणैः ॥ १३९ ॥
न कालस्य वशं गच्छेन्न जरा नच दुःखिता ।
तत्र देशे न दुर्भिक्षं नच मारी प्रवर्त्तते ॥ १४० ॥
न रोगास्तत्र जायन्ते नोत्पाताः प्रभवन्ति च ।
विविधाश्चैव योगिन्यस्तस्य साधक ⁕ संनिधौ ॥ १४१ ॥
शान्तिं चैव प्रयच्छन्ति रक्षन्ति पुत्रवत् सदा ।
सर्वदा च सुखप्राप्तिः सर्वतीर्थफलं लभेत् ॥ १४२ ॥
नानेन सदृशः कश्चित् साधको भुवि जायते ।
सुरासुरमनुष्याणां तत्त्वरूपः सुखावहः ॥ १४३ ॥
येन विज्ञातमात्रेण स्मृतेनैव च सुन्दरि ।
अक्षयांल्लभते कामान् मुक्तिस्थानं च गच्छति ॥ १४४ ॥
सर्वलक्षणहीनोऽपि स्मरणात् कलुषापहः ।
अहो कवचमाहात्म्यं पठमानस्य नित्यशः ॥ १४५ ॥
विनापि योगचर्येण योगिनां समतां व्रजेत् ।
भूर्जत्वचि समालिख्य चक्रं तत्त्वविनिर्मितम् ॥ १४६ ॥
मध्येत्रिकोणं संलिख्य साध्यसाधकयोर्लिपिम् ।
तदूर्ध्वं मूलमन्त्रं च मातृकार्र्णेन वेष्टयेत् ॥ १४७ ॥
अगुरुद्रवमिश्रेण चन्दनेन सुगन्धिना ।
एतद्यन्त्रं महादेवि सुरासुरसुदुर्लभम् ॥ १४८ ॥
⁕ विभक्तिलोप आर्षः । १ 'न' क पाठ । २ 'कुज' क पाठः ।
रोचनाकुङ्कुमेनैव तद्वाह्ये कवचं लिखेत् ।
श्वेतसूत्रेण संवेष्ट्य लाक्षया परिवेष्टयेत् ॥ १४९ ॥
पञ्चामृतैः पञ्चगव्यैः स्नपयित्वा शुभेऽहनि ।
संपूज्य देवीरूपां तां गुटिकां सर्वकामदाम् ॥ १५० ॥
प्राणप्रतिष्ठामन्त्रेण प्राणांस्तत्र निवेशयेत् ।
चारुणा शातकुम्भेन भूषितां योनिमुद्रया ॥ १५१ ॥
अन्तर्योनिं ततो ध्यात्वा तत्र संस्थापयेद् बुधः ।
एषा तु गुटिका देवि कण्ठलग्ना धनप्रदा ॥ १५२ ॥
शीर्षे वश्यक(रे?री) देवि कट्यां स्तम्भनकारिणी ।
बद्धा वामभुजे चैषा वैरिपक्षविनाशिनी ॥ १५३ ॥
जठरे रोगशमनी पुत्रदा हृदि संस्थिता ।
विद्याकरी ललाटस्था शिखायां तु यशःप्र(दः?दा) ॥ १५४ ॥
दक्षिणे बाहुमूले वै यदि तिष्ठति सर्वदा ।
तदा सर्वार्थसिद्धिः स्याद्यद्यन्मनसि वर्तते ॥ १५५ ॥
सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः ।
न शक्नोमि प्रभावं हि³ कथितुं ❊ कवचस्य वै ॥ १५६ ॥
एतत्तु कवचेनैवं पठनं साधनं प्रिये ।
कथितं मे तव स्नेहाद् गोपनीयं सदा प्रिये ॥ १५७ ॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे महात्रिपुरसुन्दरीत्रैलोक्यमोहनाख्यं
कवचं नाम चतुर्थः पटलः ॥ ४ ॥
१ ‘स्ना’ क. पाठ । २ ‘मात्रे’ क पाठ । ३ ‘त’ क. पाठ ।
- अय णिज्लोपे ऐश. पाठ ।
पञ्चमः पटलः ।
—————
पार्वत्युवाच
विना यन्त्रेण चेत् पूजा देवता न प्रसीदति ।
तस्मात् कथय देवेश यन्त्रमस्या मनोहरम् ॥ १ ॥
यस्य दर्शनमात्रेण दारिद्र्यं नश्यति ध्रुवम् ।
ईश्वर उवाच ।
सैवमालोच्य सर्गादौ सच्चिदानन्दरूपिणी ॥ २ ॥
समस्ततत्त्वसंयोगात् स्मृत्यधिष्ठानरूपिणी ।
व्यक्तीकरोति नित्या(वः?या)प्रकृतिः परमः पुमान् ॥ ३ ॥
सा तत्त्वसंज्ञा चिन्मात्रांऽज्ज्योतिषः संनिधेस्तथा ।
विविकीर्षुर्योनिभूता कचिदभ्येति बिन्दुना ॥ ४ ॥
अतिव्यक्ता पराशक्तिरविनाभावलक्षणा ।
अखण्डपरविच्छक्तिर्व्याप्ता चिद्रूपिणी विभुः ॥ ५ ॥
समस्ततत्त्वभावेन विवर्ते(त्सा?च्छा)समन्विता ।
प्रयाति बिन्दुभावं च क्रियाप्राधान्यलक्षणम् ॥ ६ ॥
बैन्दवं मातृचक्रस्य त्रिरूपत्वं पुनर्भवत् ।
बिन्दुः शिवात्मकस्तत्र बीजं शक्त्यात्मकं स्मृतम् ॥७॥
तयोर्योगे भवेन्नादस्तोभ्यो यच्चिन्तयाम्यहम् ।
तस्मात् तानि च चक्राणि तत्प्रकारः प्रकथ्यते ॥ ८ ॥
ततः प्राङ्मुख आसीनश्चक्रोद्धारं समारभेत् ।
हेमरूप्यादिताम्राणां पट्टे चातिमनोहरे ॥ ६ ॥
'स्व' क पाठ । २ 'त्रा ज्यो' क पाठ ।
चतुरस्रे समे शुद्धे मध्योच्छ्लूनविभूषिते ।
युग्माङ्गामिलितं देवि पट्टस्येह समीरितम् ॥ १० ॥
अथवा परमेशानि भूमौ चक्रं समालिखेत् ।
हस्तमात्रमिते शुद्धे गोमयेनोपलेपिते ॥ ११ ॥
सिन्दूररजसा तत्र कुङ्कुमेनाथ वा प्रिये ।
आलेखेच्चक्रराजं च लेखन्या हैमया तथा ॥ १२ ॥
अथवा कुशमूलेन दर्भपाणिः समाहितः ।
नेत्ररम्यं यथा चक्रं तथा कुर्याद्विचक्षणः ॥ १३ ॥
प्रतीच्यग्रं लिखेदेकं त्रिकोणं तदुपर्यथ * ।
पूर्वत्रिकोणमध्याग्रं त्रिकोणान्तरमालिखेत् ॥ १४ ॥
अथ संधिद्वय भित्त्वा प्रागग्रं विलिखेत् परम् ।
त्रिकोणमध्यगं चक्रमष्टकोणं तथा भवेत् ॥ १५ ॥
ततो दशारचक्रस्य निर्माणं शृणु पार्वति ।
दक्षिणोत्तरगा रेखास्तिस्रो यास्तत्र तास्वपि ॥ १६ ॥
मध्यरेखां परित्यज्य रेखे द्वे परिवर्धयेत् ।
तेन षट्कोणकं कृत्वा संधिभेदे चतुष्टयम् ॥ १७ ॥
कृत्वी रेखाद्वयं कुर्याद् दशकोणं यथा भवेत् ।
तथान्यदशकोणस्य निर्माणं परिकीर्त्यते ॥ १८ ॥
दक्षिणोत्तरगास्त्वेवं रेखाः पञ्च भवन्ति याः ।
तासां रेखा(द्व?त्र)यं मध्ये हित्वा पूर्वापरं तु तत् ॥ १९ ॥
बाह्यरेखाद्वयं देवि पूर्ववत् परिवर्धयेत् ।
'लि' क पाठ. । द्वे क पाठ ।
तेन षट्कोणकं कृत्वा संधिभेदचतुष्टयम् ॥ २० ॥
कृत्वा रेखाद्वयं कुर्याद् दशकोणं यथा भवेत् ।
चतुर्दशारचक्रस्य निर्माणं कथ्यतेऽधुना ॥ २१ ॥
दक्षिणोत्तरगास्त्वेवं रेखाः सप्त भवन्ति याः ।
तासां रेखा(द्व?त्र)यं हित्वा बाह्ये पूर्वापरं ततः ॥ २२ ॥
दीर्घं रेखाद्वयं मन्त्री पूर्ववत् परिवर्धयेत् ।
तेन षट्कोणकं कृत्वा संधिभेदचतुष्टयम् ॥ २३ ॥
दशारीकृत्य तेनैव संधिभेदचतुष्टयात् ।
रेखाद्वयं बहिः कुर्याद्रेखाः स्युर्नव चैव वै ॥ २४ ॥
कल्पयेदथ तस्याग्रैरन्यकोणचतुष्टयम् ।
एवं चतुर्दशारं स्याद्विलोचनमनोहरम् ॥ २५ ॥
एवं निष्पादिते चक्रे यद्भवति च तच्छृणु ।
मध्ये त्रिकोणमेव स्यात् तन्मध्ये बिन्दुरिष्यते ॥ २६ ॥
चतुर्णामपि चक्राणां बहिरग्रास्त्रिकोणकाः ।
त्रिचत्वारिंशच्च गुणिता योनयोऽष्टौ च शोभनाः ॥ २७ ॥
मत्स्या द्वादश संपन्नाश्चतुष्कोणोपशोभिताः ।
ग्रन्थयोऽष्टादशापि स्युः षट्पथा ग्रन्थयोऽपरे ॥ २८ ॥
चतुर्विंशतिसंख्याताः शोभनास्ते चतुष्पथाः ।
अष्टकोणकगर्भं तु चतुष्कोणत्रयं तथा ॥ २९ ॥
दक्षिणोत्तरपूर्वासु दिक्षु संभवति क्रमात् ।
दक्षिणोत्तरगास्तत्र नव रेखा भवन्ति हि ॥ ३० ॥
१ 'द्वं' क. पाठ. । २ 'मेन' क. पाठ. ।
नव रेखास्तथैवान्या वह्निवायुदिगायताः ।
नैव रेखास्तथैवान्या नैर्ऋतेशदिगायताः ॥ ३१ ॥
तत्र ये पञ्च देवेशि साधकाभिमुखाग्रकाः ।
त्रिकोणास्ते शक्तयः स्युः पञ्च (ने?त)त्र शुभोदयाः ॥३२॥
पूर्वाग्रा ये तु चत्वारो वह्नयस्ते प्रकीर्तिताः ।
एवं चक्रं विनिर्माय बाह्ये वृत्तं विलिख्य च ॥ ३३ ॥
तेनाष्टदलपद्मस्य निर्माणं तद्बहिस्तथा ।
वृत्तेन षोडशदलं लिखेत् पद्मं मनोहरम् ॥ ३४॥
वृत्तत्रयं तु तद्वाह्ये तद्वाह्ये चतुरस्रकम् ।
त्रिरेखं भूपुरं विद्धि चतुर्द्वारोपशोभितम् ॥ ३५ ॥
एवं भवन्ति चक्राणि बिन्दुर्नैव नव क्रमात् ।
वृत्तत्रयं महेशानि न पूजायां निगद्यते ॥ ३६ ॥
एवमेतस्य चक्रस्य प्रभावो वर्णि(तं?तुं) मया ।
न शक्यते महेशानि कल्पकोटिशतैरपि ॥ ३७॥
एवमेतन्महाचक्रं महाश्रीत्रिपुरामयम् ।
यन्त्रं शरीरमित्याहुर्मन्त्रं ज्ञानमखण्डितम् ॥ ३८ ॥
शरीरं त्रिविधं प्राहुर्भौतिकं च मनोमयम् ।
परं ज्ञानमयं नित्यं यदनाशि निरन्तरम् ॥ ३६ ॥
मुद्रां भौतिकमित्याहुर्यन्त्रं विद्धि मनोमयम् ।
मन्त्रं ज्ञानमयं विद्धि एवं त्रिधा वपुर्भवेत् ॥ ४० ॥
मुद्राशरीरं मे (ब्रूहि?विद्धि) अङ्गभूतं तथा परम् ।
१ क एतत् पद्यार्धं नास्ति। २ 'हरम्' क. पाठ. । ३ 'काम' क पाठः ।
योनिभूता महामुद्रा शरीरमिति कीर्तितम् ॥ ४१ ॥
तस्या॑ रससमुत्पन्नाः कामेश्वर्यादिकास्तथा ।
बिन्दुचक्रं वरारोहे सर्वानन्दमयं प्रिये ॥ ४२ ॥
संविद्ध्येयं महाचक्रं ज्ञेयं ब्रह्मस्वरूपकम् ।
ततः परं शिवाङ्कस्थां महात्रिपुरसुन्दरीम् ॥ ४३ ॥
समावाह्य यजेद्देवीं परयाथ सपर्यया ।
अग्नीशासुरवायव्यमध्ये दिक्षु च पार्वति ॥ ४४ ॥
षडङ्गयुवतीः † पश्चात् पूजयित्वा विधानतः ।
तन्मयीश्चाथ नित्याश्च यजेत् सौभाग्यकामुकः ॥ ४५ ॥
महात्र्यस्रं स्मरेत् तत्र पञ्चदशकलात्मकम् ।
वामावर्तक्रमेणैव कलाः पञ्चदश क्रमात् ॥ ४६ ॥
अकाराद्यौँमुकारान्तां दक्षिणास्यां विचिन्तयेत् ।
ततश्च पूर्वरेखायां दीर्घकर्णादि † पञ्चकम् ॥ ४७ ॥
विचिन्त्योत्तररेखायां शक्त्या(सी?दि) ⁕ परिचिन्तयेत् ।
कामेश्वर्यादिकानित्यास्तथैव परिपूजयेत् § ॥ ४८ ॥
प्रतिपत्तिथिमारभ्य पौर्णमास्यन्तमद्रिजे ।
एकैकां पूजयेन्नित्यां तत्तत्तिथिक्रमेण तु ॥ ४९ ॥
आदावेकैकवृद्धया तु यजेत् साधकसत्तमः ।
१ 'ध्व' ख पाठः । २ 'का' ख पाठः । ३ 'द्यौ उ' ख पाठः । ४ 'न्ता' ख पाठः ।
† सर्वज्ञादिशक्ती । ‡ ऊकारादि । ⁕ एकारादि । § नित्या यथा १ कामेश्वरी
२ भगमालिनी ३ नित्यक्लिन्ना ४ भेरुण्डा ५ वह्निवासिनी ६ वज्रेश्वरी ७ शिवदूती
८ त्वरिता ९ कुलसुन्दरी १० नित्या ११ नीलपताका १२ विजया १३ सर्वमङ्गला
१४ ज्वालामालिनी १५ चित्रा ॥ ह्रीं श्रीं अं कामेश्वरिनित्याश्रीपादुका पूजयामि तर्पयामि
नम इत्येव वामावर्तेन सपूजयेत् ।
कृष्णपक्षे महेशानि पूजयेत्तुं त्रिमण्डलम् ॥ ५० ॥
विचित्राया वरारोहे यावत् कामेश्वरी भवेत् ।
पूजनीया विलोमेन वान्त्या(ः) तथैव पार्वति ॥ ५१ ॥
उभयोः पक्षयोरन्ते यथोक्तध्यानयोगतः ।
(स्व?स)र्गस्थां षोडशीं नित्यां महात्रिपुरसुन्दरीम् † ॥५२॥
तत्तद्विद्यास्तथा ध्यानं यन्त्राणि पूजनानि तु ।
होमान्यन्यानि सर्वाणि काम्यानि च वरानने ॥ ५३ ॥
पटलैः पञ्चसंख्यैस्तु पश्चात् वक्ष्याम्यहं शिवे ।
अत्राङ्गावृत्तिभूतानां शृणु पूजां वरानने ॥ ५४ ॥
ईश्वर उवाच
तत्र तत्र महेशानि समावाह्य विधानतः ।
पूजयेत् साधको भक्त्या य(दो?थो)क्तक्रमवर्त्म(का?ना) ।५५।
मूलाद्येनैव तत्राद्यां हंसेन पुटितेन तु ।
द्वितीयेन द्वितीयां च तृतीयेन तृतीयकाम् ॥ ५६ ॥
चतुर्थेन चतुर्थी च पञ्चमेनैव पञ्चमीम् ।
षष्ठेन तु तथा षष्ठीं सप्तमेन तु सप्तमीम् ॥ ५७ ॥
अष्टमेनाष्टमीं चैव नवमीं नवमेन तु ।
दशमीं दश(मी?मे)नैव एकादशीं तथैव हि ॥ ५८ ॥
एकादशाक्षरेणैव द्वादशीं द्वादशेन तु ।
त्रयोदशीं च तत्रैव त्रयोदशाक्षरेण तु ॥ ५६ ॥
चतुर्दशाक्षरेणैव यजेत् तत्र चतुर्दशीम् ।
पञ्चदशाक्षरेणैव यजेत् पञ्चदशीं ततः ॥ ६० ॥
१ ‘त्तु’ ख पाठः । † पूजयेदिति शेषः ।