गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 115, कुल 446 में से
संदर्भ में पढ़ेंतं हिंसन्ति च योगिन्यो मदीयशासनात् प्रिये ।
परे नरकमाप्नोति जन्मकोटिशतानि च ॥ ९५ ॥
सर्वलक्षणयुक्ताय यन्त्रमन्त्ररताय च ।
शिष्याय शान्तचित्ताय गुरुभक्तिरताय च ॥ ९६ ॥
उदके लवणं लीनं यथा भवति पार्वति ।
मनो भवति वै लीनं पादयोः श्रीगुरोः प्रिये ॥ ९७ ॥
तदा देयं महद्गुह्यं कृपया चातिदुर्लभम् ।
गुरोः पादप्रसादेन श्रीविद्या यदि लभ्यते ॥ ९८ ॥
तथैव कवचं देवि त्रिषु लोकेषु दुर्लभम् ।
स च देवो हरः साक्षात् तत्पत्नी परमेश्वरी ॥ ९९ ॥
प्रमादादपि देवेशि श्रीगुरोर्नाम नाददेत् ।
यस्य भक्तिर्गुरौ नित्यं वर्तते देव¹वत् प्रिये ॥ १०० ॥
तस्य मन्त्रस्य यन्त्रस्य सिद्धिर्भवति नान्यथा ।
कवचस्य तथा सिद्धिर्गु²टिकायाश्च सुन्दरि ॥ १०१ ॥
इदं कवचमज्ञात्वा यो जपेत् सुन्दरीं पराम् ।
नवलक्षं प्रजप्त्वापि * तस्य विद्या न सिध्यति ॥ १०२ ॥
शुचिः समाहितो भूत्वा भक्तिश्रद्धासमन्वितः ।
सर्वभूतलये सुप्ते निशायामर्धरात्रके ॥ १०३ ॥
हेतुयुक्तो महेशानि निर्जने पशुवर्जिते ।
रक्तासनोपविष्टस्तु रक्ताभरणभूषितः ॥ १०४ ॥
ताम्बूलपूरितमुखो धूपामोदसुगन्धितः ।
संस्थाप्य वामभागे तु शक्तिं स्वामिपरायणाम् ॥ १०५ ॥
१ 'त' क पाठ । २ 'र्द्धा' क पाठ. । * ऐश पाठ. ।