गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 114, कुल 446 में से
संदर्भ में पढ़ेंईशाने वटुकः पातु आग्नेय्यां योगिनीगणाः ।
त्वगसृङ्मांसमेदोऽस्थिमज्जशुक्राणि पान्तु नः ॥ ८४ ॥
क्षेत्रेशो नैर्ऋते पातु गणेशो वायुमन्दिरे ।
मातङ्गवनिता पातु शेषिका कुलसुन्दरी ॥ ८५ ॥
शक्तिर्मां सर्वदा पातु मूलाधारनिवासिनी ।
इतीदं कवचं देवि त्रिषु लोकेषु दुर्लभम् ॥ ८६ ॥
यन्नोक्तं डामरे तन्त्रे यन्नोक्तं रुद्रयामले ।
सर्वतन्त्रेषु यन्नोक्तं गन्धर्वे प्रकटीकृतम् ॥ ८७ ॥
तव प्रीत्या महादेवि गोपनीयं प्रयत्नतः ।
तव नाम्नि स्मृते देवि सर्वयज्ञफलं लभेत् ॥ ८८ ॥
सर्वत्रैव जयप्राप्तिर्वाञ्छा सर्वत्र सिध्यति ।
नाम्नः शतगुणं स्तोत्रं व्याख्यानं चापि तच्छतम् ॥ ८६ ॥
तस्माच्छतगुणं ध्यानं ध्यानाच्छतगुणो मनुः ।
मन्त्राच्छतगुणं देवि कवचं ते मयोदितम् ॥ ६० ॥
यस्मै कस्मै न दातव्यं सुगोप्यमतिदुर्लभम् ।
न देयं परशिष्याय कृपणाय सुरेश्वरि ॥ ६१ ॥
शिष्याय भक्तिहीनाय चुम्बकाय तथैव च ।
गुरुभक्तिविहीनाय परहिंसारताय च ॥ ६२ ॥
निन्दकाय कुशीलाय दाम्भिकाय महेश्वरि ।
अभक्तेभ्योऽपि पुत्रेभ्यो दत्त्वा मृत्युमवाप्नुयात् ॥ ६३ ॥
यो ददाति निषिद्धेभ्यः कवचं मन्मुखाच्च्युतम् ।
तस्य नश्यन्ति देवेशि विद्यायुःकीर्त्तिसंचयाः ॥ ६४ ॥