गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 113, कुल 446 में से
संदर्भ में पढ़ेंसर्वव्याधिषु सर्वत्र सर्वव्याधिविनाशिनी ॥ ७३ ॥
पर्वते पातु प्रबला सर्वाधारस्वरूपिणी ।
सर्वपापहरा पातु सर्वकर्मसु सर्वदा ॥ ७४ ॥
सर्वानन्दकरी देवी नानाघकृतगोचरे ।
सर्ववैरिभये पातु सर्वरक्षास्वरूपिणी ॥ ७५ ॥
सर्वसंकल्पकार्येषु सर्वेप्सितफलप्रदा ।
वशिनी वश्यकार्येऽव्यात् कामेशी स्तम्भनेऽवतु ॥ ७६ ।
मोहने मोदिनी पातु विमलोच्चाटनेऽवतु ।
अरुणा पातु मां वादे जैयिनी जल्पकर्मणि ॥ ७७ ॥
सर्वेश्वरी काम्यकार्ये कौलिनी भेदकर्मणि ।
जृम्भणे सर्वदा पा(तु?न्तु) शराः पञ्च महेश्वरि ॥ ७८ ।
धनुर्मोहविधौ पातु पाशस्तु वश्यकर्मणि ।
महातेजोमयः पातु स्तम्भने मां तथाङ्कुशः ॥ ७९ ॥
सर्वज्ञा हृदये पातु नित्य(कृता?तृप्तिः) च शीर्षके ।
अनादिबोधिका पातु नित्यं शिखाप्रदेशके ॥ ८० ॥
कवचे मां स्वतन्त्राव्यात् नेत्रे नित्यमलुप्तिका ।
अचिन्त्यशक्ति(व?र)स्त्रेषु पायात् परंमसिद्धिदा ॥ ८१ ॥
कामेश्वरी रतौ पातु युद्धे वज्रेश्वरी तथा ।
नित्यं पातु महेशानी श्रीकामे भगमालिनी ॥ ८२ ॥
रसे रूपे च गन्धे च शब्दे स्पर्शे च पातु माम् ।
सर्वानन्दमयी देवी महात्रिपुरसुन्दरी ॥ ८३ ॥