सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 120, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 120

रोचनाकुङ्कुमेनैव तद्वाह्ये कवचं लिखेत् ।
श्वेतसूत्रेण संवेष्ट्य लाक्षया परिवेष्टयेत् ॥ १४९ ॥
पञ्चामृतैः पञ्चगव्यैः स्नपयित्वा शुभेऽहनि ।
संपूज्य देवीरूपां तां गुटिकां सर्वकामदाम् ॥ १५० ॥
प्राणप्रतिष्ठामन्त्रेण प्राणांस्तत्र निवेशयेत् ।
चारुणा शातकुम्भेन भूषितां योनिमुद्रया ॥ १५१ ॥
अन्तर्योनिं ततो ध्यात्वा तत्र संस्थापयेद् बुधः ।
एषा तु गुटिका देवि कण्ठलग्ना धनप्रदा ॥ १५२ ॥
शीर्षे वश्यक(रे?री) देवि कट्यां स्तम्भनकारिणी ।
बद्धा वामभुजे चैषा वैरिपक्षविनाशिनी ॥ १५३ ॥
जठरे रोगशमनी पुत्रदा हृदि संस्थिता ।
विद्याकरी ललाटस्था शिखायां तु यशःप्र(दः?दा) ॥ १५४ ॥
दक्षिणे बाहुमूले वै यदि तिष्ठति सर्वदा ।
तदा सर्वार्थसिद्धिः स्याद्यद्यन्मनसि वर्तते ॥ १५५ ॥
सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः ।
न शक्नोमि प्रभावं हि³ कथितुं ❊ कवचस्य वै ॥ १५६ ॥
एतत्तु कवचेनैवं पठनं साधनं प्रिये ।
कथितं मे तव स्नेहाद् गोपनीयं सदा प्रिये ॥ १५७ ॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे महात्रिपुरसुन्दरीत्रैलोक्यमोहनाख्यं
कवचं नाम चतुर्थः पटलः ॥ ४ ॥
१ ‘स्ना’ क. पाठ । २ ‘मात्रे’ क पाठ । ३ ‘त’ क. पाठ ।

  • अय णिज्लोपे ऐश. पाठ ।