सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

Dasarupaka of Dhananjaya with Avaloka Commentary

आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा

DevanagariHindipublished168 पृष्ठ

प्रारंभिक पृष्ठ एवं नाट्य-लक्षण मंगलाचरण

[ All rights reserved by the publisher ]
Publisher:-Satyabhamabai Pandurang, } 'Nirnaya Sagar' Press,
Printer:-Ramchandra Yesu Shedge, } 26-28, Kolbhat Street, Bombay

॥ श्रीः ॥
श्रीधनंजयविरचितं
दशरूपकम् ।
धनिककृतयावलोकाख्यया व्याख्यया,
भारतीयनाट्यशास्त्रगतदशरूपनिरूपणेन च समेतम् ।
काशीनाथ पाण्डुरङ्ग परब इत्यनेन
पूर्वसंस्कृतस्यास्य
पञ्चमं संस्करणं
श्रीमदिन्दिराकान्तचरणान्तेवासिना
नारायण राम आचार्य "काव्यतीर्थ" इत्यनेन
परिशिष्टेन समलङ्कृत्य संशोधितम् ।
तच्च
मुम्बय्यां
सत्यभामाबाई पाण्डुरङ्ग इत्येताभिः
निर्णयसागराख्यमुद्रणयन्त्रालयकृते तत्रैव
मुद्रयित्वा प्रकाशितम् ।
शाकः १८६३, सन १९४१.
मूल्यं १ रूप्यकम् ।

The provided image is completely blank and contains no text, verses, or notations to transcribe.

दशरूपकविषयानुक्रमणिका ।
प्रकाशः । श्लोकः । पृष्ठे । | प्रकाशः । श्लोकः । पृष्ठे ।
प्रथमः प्रकाशः । | प्राप्त्याशालक्षणम्... १ २१ ६
मङ्गलाचरणम् १ १-२ १ | नियताप्तिलक्षणम् १ २१ ६
श्रोतृप्रवृत्तिनिमित्तम् १ ३ १ | फलयोगलक्षणम्... १ २२ ६
ग्रन्थकर्तृप्रवृत्तिनिमि- | संधिलक्षणम् ... १ २३ ६
त्तम् ... १ ४ १ | संधिभेदनामानि... १ २४ ६
पौनरुक्त्यपरिहारः १ ५ २ | मुखलक्षणम् ... १ २४ ६
दशरूपज्ञानफलम् १ ६ २ | मुखभेदकथनम् ... १ २५ ६
नाट्यलक्षणम् ... १ ७ २ | मुखभेदनामानि ... १ २५-२६ ७
रूपलक्षणम् ... १ ७ २ | उपक्षेपलक्षणम् ... १ २७ ७
रूपकलक्षणम् ... १ ७ २ | परिकर लक्षणम् ... १ २७ ७
भेदसंख्यानियमनम् १ ७ २ | परिन्यासलक्षणम्... १ २७ ७
दशभेदनामकथनम् १ ८ २ | विलोभनलक्षणम्... १ २७ ७
नृत्यलक्षणम् ... १ ९ ३ | युक्तिलक्षणम् ... १ २८ ८
नृत्तलक्षणम् ... १ ९ ३ | प्राप्तिलक्षणम् ... १ २८ ८
नृत्यनृत्तयोर्द्वैविध्यम् १ १० ३ | समाधानलक्षणम्... १ २८ ८
रूपाणां भेदक- | विधानलक्षणम् ... १ २८ ९
निरूपणम् ... १ ११ ३ | परिभावनालक्षणम् १ २९ १०
वस्तुनो द्वैविध्यम्... १ ११ ३ | उद्भेदलक्षणम् ... १ २९ १०
आधिकारिकनिरूपणम् १ १२ ४ | करणलक्षणम् ... १ २९ १०
प्रासङ्गिकनिरूपणम् १ १३ ४ | बेदलक्षणम् ... १ २९ ११
प्रासङ्गिकस्य द्वैविध्यम् १ १३ ४ | प्रतिमुखलक्षणम्... १ ३० ११
पताकास्थानकम् १ १४ ४ | प्रतिमुखाङ्गसन्धि-
आधिकारिकपताकाप्र- | संख्याकथनम् १ ३० ११
करीणां त्रिविधत्वम् १ १५ ४ | प्रतिमुखाङ्गनामानि १ ३१ १२
इतिवृत्तफलम् ... १ १६ ५ | विलासलक्षणम् ... १ ३२ १२
इतिवृत्तसाधनम् ... १ १७ ५ | परिसर्पलक्षणम् ... १ ३२-३३ १२
अवान्तरबीजसंज्ञा- | विधूतलक्षणम् ... १ ३३ १३
न्तरम् ... १ १७ ५ | शमलक्षणम् ... १ ३३ १३
प्रयोजनसिद्धिहेतवः १ १८ ५ | नर्मलक्षणम् ... १ ३३ १३
अवस्थापञ्चकम् ... १ १९ ५ | नर्मद्युतिलक्षणम्... १ ३३ १३
आरम्भलक्षणम्... १ २० ५ | प्रगमनलक्षणम् ... १ ३४ १४
प्रयत्नलक्षणम् ... १ २० ५ | निरोधलक्षणम् ... १ ३४ १४

२
प्रकाशः । श्लोकः । पृष्ठे ।
पर्यूपासनलक्षणम् १ ३४ १४
पुष्पलक्षणम् ... १ ३४ १५
उपन्यासलक्षणम् ... १ ३५ १५
वज्रलक्षणम् ... १ ३५ १५
वर्णसंहारलक्षणम् १ ३५ १५
गर्भसंधिलक्षणम् १ ३६ १६
गर्भसंध्यङ्गनामानि १ ३७ १६
अभूताहरणलक्षणम् १ ३८ १६
मार्गलक्षणम् ... १ ३८ १६
रूपलक्षणम् ... १ ३९ १७
उदाहरणलक्षणम् ... १ ३९ १७
क्रमलक्षणम् ... १ ३९ १७
संग्रहलक्षणम् ... १ ४० १८
अनुमानलक्षणम् ... १ ४० १८
अधिबललक्षणम् ... १ ४० १८
तोटकलक्षणम् ... १ ४० १९
तोटकलक्षणान्तरे १ ४१ १९
उद्वेगलक्षणम् ... १ ४२ २०
संभ्रमलक्षणम् ... १ ४२ २०
आक्षेपलक्षणम् ... १ ४२ २०
अवमर्शसंधिलक्षणम् १ ४३ २१
अवमर्शसन्ध्यङ्ग-
नामानि ... १ ४४ २१
अपवादलक्षणम् ... १ ४५ २१
संफेटलक्षणम् ... १ ४५ २२
विद्रवलक्षणम् ... १ ४५ २२
द्रवलक्षणम् ... १ ४५ २२
शक्तिलक्षणम् ... १ ४६ २३
द्युतिलक्षणम् ... १ ४६ २३
प्रसङ्गलक्षणम् ... १ ४६ २४
छलनलक्षणम् ... १ ४६ २४
व्यवसायलक्षणम् ... १ ४

३
प्रकाशः । श्लोकः । पृष्ठे । | प्रकाशः । श्लोकः । पृष्ठे ।
जनान्तिकलक्षणम् १ ६६ ३३ | विलासः ... ... २ ११ ४१
अपवारितलक्षणम् १ ६६ ३४ | माधुर्यम् ... ... २ १२ ४१
आकाशभाषित- | गाम्भीर्यम् ... २ १२ ४२
लक्षणम् ... १ ६७ ३३ | स्थैर्यम् ... ... २ १३ ४२
वस्तुभेदोपसंहार- | तेजः ... ... २ १३ ४२
कथनम् ... १ ६८ ३४ | ललितम्... ... २ १४ ४२
द्वितीयः प्रकाशः । | औदार्यम् ... २ १४ ४२
नायकभेदकथनम् २ १-२ ३५ | नायिकाभेदाः ... २ १५ ४२
विनीतः ... ... २ २ ३५ | स्वीयालक्षणभेदाः २ १५ ४३
मधुरः ... ... २ २ ३५ | शीलवती ... २ १५ ४३
त्यागी ... ... २ २ ३५ | आर्जवादियोगिनी २ १५ ४३
दक्षः ... ... २ २ ३५ | लज्जावती ... २ १५ ४३
प्रियंवदः ... ... २ २ ३५ | मुग्धा ... ... २ १६ ४३
रक्तलोकः ... २ २ ३५ | वयोमुग्धा ... २ १६ ४३
वाग्मी ... ... २ २ ३५ | काममुग्धा ... २ १६ ४३
रूढवंशः ... ... २ २ ३६ | रतवामा ... ... २ १६ ४४
स्थिरः ... ... २ २ ३६ | कोपे मृदु ... २ १६ ४४
युवा ... ... २ २ ३६ | मध्या ... ... २ १६ ४४
नेतृविशेषकथनम् २ ३ ३६ | यौवनवती ... २ १६ ४४
ललितः ... ... २ ३ ३६ | कामवती ... २ १६ ४४
शान्तः ... ... २ ४ ३६ | मध्यासंभोगः ... २ १६ ४४
धीरोदात्तः ... २ ५ ३७ | मध्यामानवृत्तिः २ १७ ४५
धीरोद्धतः ... २ ६ ३८ | धीरामध्यामानवृत्तिः २ १७ ४५
शृङ्गारनायकभेदाः २ ६ ३९ | धीराधीरामध्यामान-
दक्षिणः ... ... २ ७ ३९ | वृत्तिः ... २ १७ ४५
शठः ... ... २ ७ ३९ | अधीरामध्यामानवृत्तिः २ १७ ४५
धृष्टः ... ... २ ७ ३९ | प्रगल्भा ... ... २ १८ ४५
अनुकूलः ... २ ७ ३९ | गाढयौवना ... २ १८ ४५
सहायाः ... ... २ ८ ४० | भावप्रगल्भा ... २ १८ ४६
सहायान्तरम् ... २ ९ ४० | रतप्रगल्भा ... २ १८ ४६
प्रतिनायकः ... २ ९ ४० | प्रगल्भाकोपचेष्टा... २ १९ ४६
सात्त्विका नायकगुणाः २ १० ४१ | सावहित्थादरा ... २ १९ ४६
नीचे घृणा ... २ ११ ४१ | रतावुदासीना ... २ १९ ४६
घृणाधिके स्पर्धा... २ ११ ४१ | अधीरप्रगल्भा ... २ १९ ४६
शौर्यशोभा ... २ ११ ४१ | धीराधीरप्रगल्भा २ १९ ४६
दक्षशोभा ... २ ११ ४१ |

४
प्रकाशः । श्लोकः । पृष्ठे ।
मध्याप्रगल्भयो-
द्वादशविधत्वम् २ २० ४७
परकीया... ... २ २० ४७
साधारणस्त्री २ २१ ४७
साधारणस्त्रीव्यवहारः २ २२ ४७
अस्या निबन्धनियमः २ २३ ४८
नायिकाभेदान्तराणि २ २३ ४८
स्वाधीनपतिका ... २ २४ ४८
वासकसज्जा ... २ २४ ४९
विरहोत्कण्ठिता ... २ २५ ४९
खण्डिता... ... २ २५ ४९
कलहान्तरिता ... २ २६ ४९
विप्रलब्धा ... २ २६ ४९
प्रोषितप्रिया ... २ २७ ४९
अभिसारिका ... २ २७ ४९
खण्डितादीनां चिन्ता-
दियुक्तत्वम् ... २ २८ ५०
स्वाधीनपतिका-वास-
कसज्जयोः क्रीडादि-
युक्तत्वम् ... २ २८ ५०
नायिकासहायिन्यः २ २९ ५०
योषिदलङ्काराः ... २ ३० ५१
शरीरजालङ्काराः... २ ३० ५१
सप्त भावा अयत्नजाः २ ३१ ५१
दश भावाः स्वभावजाः २ ३२ ५१
हावः ... ... २ ३४ ५२
हेला ... ... २ ३४ ५२
शोभा ... ... २ ३५ ५२
कान्तिः ... ... २ ३५ ५३
माधुर्यम्... ... २ ३६ ५३
दीप्तिः ... ... २ ३६ ५३
प्रागल्भ्यम् ... २ ३६ ५३
औदार्यम् ... २ ३६ ५३
धैर्यम् ... ... २ ३७ ५४
लीला ... ... २ ३७ ५४
विलासः ... ... २ ३८ ५४
प्रकाशः । श्लोकः । पृष्ठे ।
विच्छित्तिः ... २ ३८ ५४
विभ्रमः ... ... २ ३९ ५४
किलिकिञ्चितम् ... २ ३९ ५५
मोट्टायितम् ... २ ४० ५५
कुट्टमितम् ... २ ४० ५५
विव्वोकः... ... २ ४१ ५५
ललितम्... ... २ ४१ ५६
विहृतम् ... ... २ ४२ ५६
नायकसहायाः ... २ ४२ ५६
सहायविभागः ... २ ४३ ५६
धर्मसहायाः ... २ ४३ ५६
दण्डसहायाः ... २ ४४ ५६
अन्तःपुरसहायाः २ ४४ ५६
नायकादीनां विशेषः २ ४५ ५७
नायकव्यापारः ... २ ४७ ५७
नर्माष्टादशभेदाः २ ४८-५० ५७
वचोहास्यनर्म ... २ ५० ५७
वेषनर्म ... ... २ ५० ५७
क्रियानर्म ... २ ५० ५७
शृङ्गारवदालम्बोपक्षेपनर्म २ ५० ५७
संभोगनर्म ... २ ५० ५८
माननर्म... ... २ ५० ५८
भयानर्म... ... २ ५० ५८
नर्मस्फिञ्जः ... २ ५१ ५८
नर्मस्फोटः ... २ ५१ ५८
नर्मगर्भः... ... २ ५२ ५९
सात्त्वती ... ... २ ५३ ५९
सात्त्वत्यङ्गानि ... २ ५३ ५९
संलापकः... ... २ ५४ ५९
उत्थापकः ... २ ५४ ५९
साङ्घात्यः... ... २ ५५ ५९
परिवर्तकः ... २ ५५ ६०
आरभटीलक्षणम् २ ५६ ६०
आरभट्यङ्गानि ... २ ५६ ६०
संक्षितिका ... २ ५७ ६०

५
प्रकाशः । श्लोकः । पृष्ठे । | प्रकाशः । श्लोकः । पृष्ठे ।
संफेटः ... ... २ ५८ ६० | प्रस्तावनान्तरं सूत्रधा-
वस्तूत्थापनम् ... २ ५९ ६० | रव्यापारः ... ३ २२ ६९
अवपातः ... २ ५९ ६१ | नायकविशेषे विधेय-
वृत्त्युपसंहारः ... २ ६०-६१ ६१ | विशेषः ... ३ २३ ७०
वृत्तिनियमः ... २ ६२-६३ ६१ | नायकरसानुचितं
संस्कृतादिपाठ्यं प्रति | त्याज्यम् ... ३ २४ ७०
विशेषः... ... २ ६४-६६ ६१ | संधिविभागकरणम् ३ २५ ७०
आमन्त्रणप्रकारः... २ ६७-७२ ६२ | अङ्गसंख्यान्यासौ... ३ २६ ७०
तृतीयः प्रकाशः । | विष्कम्भकादिकरणम् ३ २८ ७०
नाटकस्यैव पूर्वोक्तौ | विष्कम्भकनियमाः ३ २९ ७०
हेतुः ... ... ३ १ ६३ | अङ्करचनानियमाः ३ ३० ७०
नटस्य पूर्वकर्तव्यता ३ २ ६३ | अङ्कलक्षणम् ... ३ ३१ ७१
सूचननियमः ... ३ ३ ६३ | अङ्गिपरिपोषणप्रकारः ३ ३१ ७१
रङ्गं प्रसाद्य भारती- | वस्तुविच्छेदनिषेधः ३ ३२ ७१
वृत्त्याश्रयणम् ३ ४ ६३ | रसतिरोधाननिषेधः ३ ३३ ७१
भारतीभेदनामानि ३ ५ ६४ | मुख्यतया वीरशृङ्गा-
प्ररोचना... ... ३ ६ ६४ | रान्यतररसाश्रयणम् ३ ३३ ७१
वीथ्यङ्गानि ... ३ ७-८ ६४ | अन्यरसानामङ्गत्वैव ३ ३४ ७१
कथोद्घातः ... ३ ९ ६४ | प्रत्यक्षमाननिर्देश्यानि ३ ३४-३५ ७१
प्रवृत्तकम्... ... ३ १० ६५ | नायकवधसूचननिषेधः ३ ३६ ७१
प्रयोगातिशयः ... ३ ११ ६५ | आवश्यकं न त्याज्यम् ३ ३६ ७१
वीथ्यङ्गनामानि ... ३ १२ ६५ | अङ्के पात्रसंख्या ... ३ ३६ ७१
उद्घात्यलक्षणभेदाः ३ १३ ६५ | अङ्कान्ते पात्रनिर्गमः ३ ३७ ७२
अवलगितम् ... ३ १४ ६६ | अङ्करचनाप्रकारः ... ३ ३८ ७२
प्रपञ्चः ... ... ३ १५ ६६ | नाटकेऽङ्कसंख्या ... ३ ३८ ७२
त्रिगतम् ... ... ३ १६ ६६ | प्रकरणे विषयाः ... ३ ३९-४० ७२
छलनम् ... ... ३ १७ ६६ | प्रकरणे वर्णनीय-
वाकेली ... ... ३ १७ ६७ | नायिका ... ३ ४१-४२ ७३
अधिबलम् ... ३ १८ ६७ | नाटिकाविषयनिर्णयः ३ ४३ ७३
गण्डः ... ... ३ १८ ६७ | नाटिकायां विशेषः ३ ४३-४५ ७३
अवस्यन्दितम् ... ३ १९ ६८ | नाटिकायां प्राप्य-
नालिका ... ... ३ १९ ६८ | नायिका ... ३ ४६ ७३
असत्प्रलापः ... ३ २० ६८ | नाटिकायां नायकः ३ ४७ ७३
व्याहारः ... ... ३ २० ६९ | नाटिकायां वृत्तिनियमः ४८ ७३
मृदवम् ... ... ३ २१ ६९ | भाणविषयाः ... ३ ४९-५१ ७३

६
प्रकाशः । श्लोकः । पृष्ठे । प्रकाशः । श्लोकः । पृष्ठे ।
लास्याङ्गानि ... ३ ५२-५३ ७३ स्मृतिः ... ४ २० ८४
प्रहसनं तद्भेदाश्च ३ ५४ ७४ मरणम् ... ४ २१ ८४
शुद्धप्रहसनम् ... ३ ५४ ७४ मदः ... ४ २१ ८५
विकृतसंकीर्णप्रहसने ३ ५५ ७४ सुप्तम् ... ४ २२ ८५
प्रहसने हास्यरसः ३ ५६ ७४ निद्रा ... ४ २३ ८५
डिमे विषयनियमाः ३ ५७-५९ ७४ विबोधः ... ४ २४ ८५
व्यायोगे विषयनियमाः ३ ६०-६१ ७५ व्रीडा ... ४ २४ ८५
समवकारे विषयनियमाः ३ ६२-६७ ७५ अपस्मारः ... ४ २५ ८६
वीथ्यां विषयनियमाः ३ ६८-६९ ७५-६ मोहः ... ४ २६ ८६
अङ्के विषयनियमाः ३ ७०-७१ ७६ मतिः ... ४ २७ ८६
ईहामृगे विषयनियमाः ३ ७२-७५ ७६ आलस्यम् ... ४ २७ ८६
चतुर्थः प्रकाशः । आवेगः सभेदः ... ४ २८ ८६-७
रसनिरूपणम् ... ४ १ ७७ वितर्कः ... ४ २८ ८८
विभावलक्षणभेदौ ४ २ ७७ अवहित्थम् ... ४ २९ ८८
आलम्बनविभावः ... ४ २ ७७ व्याधिः ... ४ २९ ८९
उद्दीपनविभावः ... ४ २ ७७ उन्मादः ... ४ ३० ८९
अनुभावः ... ४ ३ ७७ विषादः ... ४ ३१ ८९
भावः ... ४ ४ ७८ औत्सुक्यम् ... ४ ३२ ८९
सात्विकभावलक्षणम् ४ ४ ७८ चापलम् ... ४ ३३ ९०
स्तम्भादिसात्त्विकभा- स्थायी ... ४ ३४ ९०
वानां नामलक्षणे ४ ५-६ ७८ स्थायिनामानि ... ४ ३४ ०९०
व्यभिचारिभावलक्षणम् ४ ७ ७९ शान्तरसे शमस्या-
व्यभिचारिभावनामानि ४ ८ ७९ यिनि•विप्रतिपत्तिः ४ ३५ ९२
निर्वेदः ... ४ ९ ७९ स्थायिभावोपसंहारः ४ ३६ ९३
ग्लानिः ... ४ १० ८० काव्येषु स्थायिभाव-
शङ्का ... ४ ११ ८० स्यैव वाक्यार्थत्वम् ४ ३७ ९५
श्रमः ... ४ १२ ८० रसिकमात्रवृत्तित्वं
धृतिः ... ४ १२ ८१ रसस्य ४ ३८ ९६
जडता ... ४ १३ ८१ धीरोदात्ताद्यवस्था-
हर्षः .. ... ४ १४ ८१ प्रतिपादकाः ४ ४० ९७
दैन्यम् ... ४ १४ ८२ धीरोदात्ताद्यवस्थाना-
औग्र्यम् ... ४ १५ ८२ मेव रसहेतुत्वम् ४ ४१ ९७
चिन्ता ... ४ १६ ८२ श्रोतॄणामास्वादहेतुत्वम् ४ ४२ ९७
त्रासः ... ४ १६ ८२ नर्तकेऽप्यास्वादः ४ ४२ ९७
असूया ... ४ १७ ८३ आस्वादस्य लक्षणं
अमर्षः ... ४ १८ ८३ भेदाश्च ४ ४३ ९७
गर्वः ... ४ १९ ८४

७
प्रकाशः । श्लोकः । पृष्ठे । प्रकाशः । श्लोकः । पृष्ठे ।
शमस्यानिर्वचनीयता ४ ४५ ९८ उत्का ... ४ ६८ १०५
विभावाद्युपसंहारः ४ ४६ ९८ प्रोषितप्रिया ... ४ ६८ १०५
रसभावयोर्लक्षणैक्य- कलहान्तरिता ... ४ ६८ १०५
प्रतिज्ञा ४ ४७ ९८ खण्डिता ... ४ ६८ १०५
शृङ्गारः ... ४ ४८ ९९ संभोगः ... ४ ६९ १०५
भावसंख्या ... ४ ४९ १०० संभोगे लीलाद्या दश
शृङ्गारस्य भेदाः ४ ५० १०० चेष्टाः ४ ७० १०६
अयोगः ... ४ ५० १०० नायककर्तव्यम् ४ ७१ १०६
तस्य दशावस्थाः ४ ५१ १०१ वीरस्त्रिधा ... ४ ७२ १०६
अभिलाषः ... ४ ५३ १०१ बीभत्सस्त्रिधा ... ४ ७३ १०७
दर्शनश्रवणे ... ४ ५४ १०१ रौद्रस्त्रिधा ... ४ ७४ १०७
वृत्तीनां दशावस्थाना- हास्यस्त्रिधा ... ४ ७५ १०८
मपि महाकविनिब- स्मितम् ... ४ ७६ १०८
न्धेष्वनेकविधत्वम् ४ ५५ १०१ हसितम् ... ४ ७६ १०८
दिग्मात्रम् ... ४ ५६ १०१ विहसितम् ... ४ ७६ १०८
विप्रयोगद्वैविध्यम् ४ ५७ १०२ उपहसितम् ... ४ ७६ १०८
मानद्वैविध्यम् ४ ५८ १०२ अपहसितम् ... ४ ७७ १०८
प्रणयमानः ४ ५८ १०२ अतिहसितम् ४ ७७ १०८
ईर्ष्यामानत्रैविध्यम् ४ ५९ १०२ उत्तममध्यमाधम-
श्रुतिः ... ४ ५९ १०२ भेदेन हसितभेदाः ४ ७७ १०८
आनुमानिकस्त्रिविधः ४ ६० १०२ हास्यव्यभिचारिणः ४ ७८ १०८
दृष्टः ... ४ ६० १०२ अद्भुतः ... ४ ७८ १०८
मनोपचारः ... ४ ६१ १०३ अद्भुतानुभावव्यभि-
साम ... ४ ६२ १०४ चारिणः ४ ७९ १०८
भेदः ... ४ ६२ १०४ भयानकः ... ४ ८० १०९
दानम् ... ४ ६२ १०४ भयानकानुभाव-
सामादीनां कार्यासा- व्यभिचारिणः ४ ८० १०९
धकत्वे उपेक्षा ४ ६३ १०४ करुणः ... ४ ८१ १०९
रभसादिना कोपनाशे करुणानुभावव्य-
रसान्तरत्वम् ४ ६३ १०४ भिचारिणः ४ ८२ १०९
कार्यज प्रवासविप्रयोग- प्रीतिभक्त्यादीना-
स्त्रिधा ४ ६४ १०५ मन्तर्भावः ४ ८३ ११०
संभ्रमजप्रवासविप्र- भूषणादीनामन्तर्भावः ४ ८४ ११०
योगः ४ ६६ १०५ सर्वस्यापि रसभावो-
शापजप्रवासः ४ ६६ १०५ पादानम् ४ ८५ ११०
मृते तु शोक एव ग्रन्थसमाप्तिः ... ४ ८६ ११०
न शृङ्गारः ४ ६७ १०५

टीकोद्धृतग्रन्थस्थलनिर्देशार्थमवलम्बितग्रन्थानां
संस्करणादिसूचिः ॥
ग्रन्थः संस्करणाङ्कः निर्णयसागरीयः
उत्तररामचरितम् ९ ,,
किरातम् १३ ,,
अमरुशतकम् २ ,,
कादम्बरी ८ ,,
कुमारसंभवम् १२ ,,
गाथासप्तशती ३ ,,
भर्तृहरिशतकम् ७ ,,
मालतीमाधवम् ५ ,,
मुद्राराक्षसम् ८ ,,
मृच्छकटिका ७ ,,
मेघदूतम् १४ ,,
रघुः ४ ,,
रत्नावली ४ ,,
रामायणम् ४ ,,
वीरचरितम् ४ ,,
वेणीसंहारम् ६ ,,
शाकुन्तलम् १० ,,
नागानन्दम् २ चौखंबा०
हनूमन्नाटकम् १ वेङ्कटेशमुद्र०

॥ श्रीः ॥
श्रीधनंजयविरचितं
दशरूपकम् ।
धनिककृतयावलोकाख्यया व्याख्यया समेतम् ।
प्रथमः प्रकाशः ।
इह सदाचारं प्रमाणयद्भिर्निर्विघ्नेन प्रकरणस्य समाप्त्यर्थमिष्टयोः प्रकृताभि-
मतदेवतयोर्नमस्कारः क्रियते श्लोकद्वयेन—
नमस्तस्मै गणेशाय यत्कण्ठः पुष्करायते ।
मदाभोगघनध्वानो नीलकण्ठस्य ताण्डवे ॥ १ ॥
यस्य कण्ठः पुष्करायते मृदङ्गवदाचरति । मदाभोगेन घनध्वानो निबिड-
ध्वनिः । नीलकण्ठस्य शिवस्य ताण्डव उद्धते नृत्ते । तस्मै गणेशाय नमः ।
अत्र खण्डश्लेषाक्षिष्यमाणोपमाच्छायालंकारः । नीलकण्ठस्य मयूरस्य ताण्डवे
यथा मेघध्वनिः पुष्करायत इति प्रतीतेः ॥
दशरूपानुकारेण यस्य माद्यन्ति भावकाः ।
नमः सर्वविदे तस्मै विष्णवे भरताय च ॥ २ ॥
एकत्र मत्स्यकूर्मादिप्रतिमानामुद्देशेन, अन्यत्रानुकृतिरूपनाटकादिना यस्य
भावका ध्यातारो रसिकाश्च माद्यन्ति हृष्यन्ति तस्मै विष्णवेऽभिमताय प्रकृताय
भरताय च नमः ॥
श्रोतुः प्रवृत्तिनिमित्तं प्रदर्श्यते—
कस्यचिदेव कदाचिद्द्यया विषयं सरस्वती विदुषः ।
घटयति कमपि तमन्यो व्रजति जनो येन वैदग्धीम् ॥ ३ ॥
तं कंचिद्विषयं प्रकरणादिरूपं कदाचिदेव कस्यचिदेव कवेः सरस्वती योज-
यति । येन प्रकरणादिना विषयेणान्यो जनो विदग्धो भवति ॥
स्वप्रवृत्तिविषयं दर्शयति—
उद्धृत्योद्धृत्य सारं यमखिलनिगमान्नाट्यवेदं विरिञ्चि-
श्चक्रे यस्य प्रयोगं मुनिरपि भरतस्ताण्डवं नीलकण्ठः ।
शर्वाणी लास्यमस्य प्रतिपदमपरं लक्ष्म कः कर्तुमीष्टे
नाट्यानां किंतु किंचित्प्रगुणरचनया लक्षणं संक्षिपामि॥४॥
यं नाट्यवेदं वेदेभ्यः सारमादाय ब्रह्मा कृतवान्, यत्संबद्धमभिनयं भरतश्चकार
करणाङ्गहारानकरोत्, हरस्ताण्डवमुद्धतं नृत्तं कृतवान्, लास्यं सुकुमारं नृत्तं

[Header: २ दशरूपकं [ प्रकाशः १ ]

पार्वती कृतवती, तस्य सामस्त्येन लक्षणं कर्तुं कः शक्तः । तदेकदेशस्य तु
दशरूपस्य संक्षेपः क्रियत इत्यर्थः ॥
विषयैक्यप्रसक्तं पौनरुक्त्यं परिहरति—
व्याकीर्णे मन्दबुद्धीनां जायते मतिविभ्रमः ।
तस्यार्थस्तत्पदैस्तेन संक्षिप्य क्रियतेऽञ्जसा ॥ ५ ॥
व्याकीर्णे विक्षिप्ते विस्तीर्णे च रसशास्त्रे मन्दबुद्धीनां पुंसां मतिमोहो भवति,
तेन तस्य नाट्यवेदस्यार्थस्तत्पदैरेव संक्षिप्य ऋजुवृत्त्या क्रियत इति ॥
इदं प्रकरणं दशरूपज्ञानफलम् । दशरूपं किंफलमित्याह—
आनन्दनिष्यन्दिषु रूपकेषु व्युत्पत्तिमात्रं फलमल्पबुद्धिः ।
योऽपीतिहासादिवदाह साधुस्तस्मै नमः स्वादुपराङ्मुखाय ॥६॥
तत्र केचित् 'धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च । करोति कीर्तिं प्रीतिं
च साधुकाव्यनिषेवणम् ॥' ( भामहः ) इत्यादिना त्रिवर्गादिव्युत्पत्तिं काव्यफलत्वे-
नेच्छन्ति तन्निरासेन स्वसंवेद्यः परमानन्दरूपो रसास्वादो दशरूपाणां फलम् ,
न पुनरितिहासादिवत्त्रिवर्गादिव्युत्पत्तिमात्रमिति दर्शितम् । नम इति सोल्लुण्ठम् ॥
'नाट्यानां लक्षणं संक्षिपामि' ( १।४ ) इत्युक्तम् , किं पुनस्तन्नाट्यमित्याह—
अवस्थानुकृतिर्नाट्यं
काव्योपनिबद्धधीरोदात्ताद्यवस्थानुकारश्चतुर्विधाभिनयेन तादात्म्यापत्तिर्ना-
ट्यम् ॥
रूपं दृश्यतयोच्यते ।
तदेव नाट्यं दृश्यमानतया रूपमित्युच्यते, नीलादिरूपवत् ॥
रूपकं तत्समारोपाद्
नटे रामाद्यवस्थारोपेण वर्तमानत्वाद्रूपकम् । मुखचन्द्रादिवदित्येकस्मिन्नर्थे प्रवर्त-
मानस्य शब्दत्रयस्य 'इन्द्रः पुरन्दरः शक्रः' इतिवत्प्रवृत्तिनिमित्तभेदो दर्शितः ॥
दशधैव रसाश्रयम् ॥ ७ ॥
रसानाश्रित्य वर्तमानं दशप्रकारकम् । एवेत्यवधारणं शुद्धाभिप्रायेण, नाटिकायाः
संकीर्णत्वेन वक्ष्यमाणत्वात् ॥
तानेव दशभेदानुद्दिशति—
नाटकं सप्रकरणं भाणः प्रहसनं डिमः ।
व्यायोगसमवकारौ वीथ्यङ्केहामृगा इति ॥ ८ ॥
ननु, 'डोम्बी श्रीगदितं भाणो भाणीप्रस्थानरासकाः । काव्यं च सप्त नृत्यस्य
भेदाः स्युस्तेऽपि भाणवत् ॥' इति रूपकान्तराणामपि भावादवधारणानुपप-
त्तिरित्याशङ्क्याह—

श्लो० ५–११] अवलोकसमेतम् । ३
अन्यद्भावाश्रयं नृत्यं
रसाश्रयान्नाट्याद्भावाश्रयं नृत्यमन्यदेव । तत्र भावाश्रयमिति विषयभे-
दान्नृत्यमिति नृतेर्गात्रविक्षेपार्थत्वेनाङ्गिकबाहुल्यात्तत्कारिषु च नर्तकव्यपदे-
शाल्लोकेऽपि चात्र प्रेक्षणीयकमिति व्यवहारान्नाटकादेरन्यन्नृत्यम् । तद्भेद-
लाच्छ्रीगदितादेरवधारणोपपत्तिः । नाटकादि च रसविषयम् । रसस्य च
पदार्थीभूतविभावादिकसंसर्गात्मकवाक्यार्थहेतुकत्वाद्व्याक्यार्थाभिनयात्मकत्वं रसा-
श्रयमित्यनेन दर्शितम् । नाट्यमिति च ‘नट अवस्पन्दने’ इति नटेः किंचि-
च्चलनार्थत्वात्सात्त्विकबाहुल्यम् । अत एव तत्कारिषु नटव्यपदेशः । यथा च
गात्रविक्षेपार्थत्वे समानेऽप्यनुकारात्मकत्वेन नृत्तादन्यन्नृत्यं तथा वाक्यार्थाभि-
नयात्मकान्नाट्यात्पदार्थाभिनयात्मकमन्यदेव नृत्यमिति ॥
प्रसङ्गान्नृत्तं व्युत्पादयति—
नृत्तं ताललयाश्रयम् ।
तालः=चञ्चत्पुटादिः, लयः=द्रुतादिः, तन्मात्रापेक्षोऽङ्गविक्षेपोऽभिनयशन्यो
नृत्तमिति ॥
अनन्तरोक्तं द्वितयं व्याचष्टे—
आद्यं पदार्थाभिनयो मार्गो देशी तथा परम् ॥ ९ ॥
नृत्यं पदार्थाभिनयात्मकं मार्ग इति प्रसिद्धम् । नृत्तं च देशीति ॥
द्विविधस्यापि द्वैविध्यं दर्शयति—
मधुरोद्धतभेदेन तद्द्वयं द्विविधं पुनः ।
लास्यताण्डवरूपेण नाटकाद्युपकारकम् ॥ १० ॥
सुकुमारं द्वयमपि लास्यम्, उद्धतं द्वितयमपि ताण्डवमिति । प्रसङ्गोक्तस्योप-
योगं दर्शयति—तच्च नाटकाद्युपकारकमिति । नृत्यस्य क्वचिदवान्तरपदार्थाभि-
नयेन नृत्तस्य च शोभाहेतुत्वेन नाटकादावुपयोग इति ॥
अनुकारात्मकत्वेन रूपाणामभेदात्किंकृतो भेद इत्याशङ्क्याह—
वस्तु नेता रसस्तेषां भेदको
वस्तुभेदान्नायकभेदाद्रसभेदाद्रूपाणामन्योन्यं भेद इति ॥
वस्तुभेदमाह—
वस्तु च द्विधा ।
कथमित्याह—
तत्राधिकारिकं मुख्यमङ्गं प्रासङ्गिकं विदुः ॥ ११ ॥
प्रधानभूतमाधिकारिकम् । यथा रामायणे रामसीतावृत्तान्तः । तदङ्गभूतं
प्रासङ्गिकम् । यथा तत्रैव विभीषणसुग्रीवादिवृत्तान्त इति ॥

४ दशरूपकं [ प्रकाशः १
निरुत्याधिकारिकं लक्षयति—
अधिकारः फलस्वाम्यमधिकारी च तत्प्रभुः ।
तन्निर्वर्त्यमभिव्यापि वृत्तं स्याधिकारिकम् ॥ १२ ॥
फलेन स्वस्वामिसंबन्धोऽधिकारः, फलस्वामी चाधिकारी, तेनाधिकारेणाधि-
कारिणा वा निर्वृत्तं फलपर्यन्ततां नीयमानमितिवृत्तमाधिकारिकम् ॥
प्रासङ्गिकं व्याचष्टे—
प्रासङ्गिकं परार्थस्य स्वार्थो यस्य प्रसङ्गतः ।
यस्येतिवृत्तस्य परप्रयोजनस्य सतस्तत्प्रसङ्गात्स्वप्रयोजनसिद्धिस्तत्प्रासङ्गिकमि-
तिवृत्तं प्रसङ्गनिर्वृत्तेः ॥
प्रासङ्गिकमपि पताका-प्रकरीभेदाद्द्विविधमित्याह—
सानुबन्धं पताकाख्यं प्रकरी च प्रदेशभाक् ॥ १३ ॥
दूरं यदनुवर्तते प्रासङ्गिकं सा पताका, सुग्रीवादिवृत्तान्तवत् । पताकेवा-
साधारणनायकचिह्नवत्तादुपकारित्वात् । यदल्पं सा प्रकरी, श्रवणादिवृत्ता-
न्तवत् ॥
पताकाप्रसङ्गेन पताकास्थानकं व्युत्पादयति—
प्रस्तुतागन्तुभावस्य वस्तुनोऽन्योक्तिसूचकम् ।
पताकास्थानकं तुल्यसंविधानविशेषणम् ॥ १४ ॥
प्राकरणिकस्य भाविनोऽर्थस्य सूचकं रूपं पताकावद्भवतीति पताकास्थान-
कम् । तच्च तुल्येतिवृत्ततया तुल्यविशेषणतया च द्विप्रकारम्,—अन्योक्तिसमा-
सोक्तिभेदात् । यथा रत्नावल्याम् ( ३।६ )—
‘यातोऽस्मि पद्मनयने समयो ममैष सुप्ता मयैव भवती प्रतिबोधनीया ।
प्रत्यायनामयमितीव सरोरुहिण्याः सूर्योऽस्तमस्तकनिविष्टकरः करोति ॥’
यथा च तुल्यविशेषणतया,—
‘उद्दामोत्कलिकां विपाण्डुरुचं प्रारब्धजृम्भां क्षणा-
दायासं श्वसनोद्गमैरविरलैरातन्वतीमात्मनः ।
अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं
पश्यन्कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहम् ॥’ ( रत्ना० २।४ )
एवमाधिकारिकद्विविधप्रासङ्गिकभेदात्त्रिविधस्यापि त्रैविध्यमाह—
प्रख्यातोत्पाद्यमिश्रत्वभेदात्त्रेधापि तन्त्रिधा ।
प्रख्यातमितिहासादेरुत्पाद्यं कविकल्पितम् ॥ १५ ॥
मिश्रं च संकरात्ताभ्यां दिव्यमर्त्यादिभेदतः ।
इति निगदव्याख्यातम् ॥
१ ‘अतिव्यापि’ इति पाठः. २ ‘अविरतैः’ इति पाठः । ३ ‘नान्तो’, ‘त्रेधा’
इति पाठौ.

१. प्रथम प्रकाश: वस्तु (कथावस्तु) भेद, पञ्च अर्थप्रकृति, पञ्च कार्य-अवस्था व पञ्च सन्धि

तस्येतिवृत्तस्य किं फलमित्याह—
कार्यं त्रिवर्गस्तच्छुद्धमेकानेकानुबन्धि च ॥ १६ ॥
धर्मार्थकामाः फलम् । तच्च शुद्धमेकैकमेकानुबन्धं द्वित्र्यनुबन्धं वा ॥
तत्साधनं व्युत्पादयति—
स्वल्पोद्दिष्टस्तु तद्धेतुर्बीजं विस्तार्यनेकधा ।
स्तोकोद्दिष्टः कार्यसाधकः पुरस्तादनेकप्रकारं विस्तारी हेतुविशेषो बीजवद्बी-
जम् । यथा रत्नावल्यां वत्सराजस्य रत्नावलीप्राप्तिहेतुरनुकूलदैवो यौगंधरायण-
व्यापारो विष्कम्भके न्यस्तः—यौगंधरायणः—कः संदेहः । (‘द्वीपादन्य-
स्माद्’ (१।६) इति पठति ।) इत्यादिना ‘प्रारम्भेऽस्मिन्स्वामिनो वृद्धिहेतौ’
(१।७) इत्यन्तेन ।
यथा च वेणीसंहारे द्रौपदीकेशसंयमनहेतुर्भीमक्रोधोपचितयुधिष्ठिरोत्साहो
बीजमिति । तच्च महाकार्यावान्तरकार्यहेतुभेदादनेकप्रकारमिति ॥
अवान्तरबीजस्य संज्ञान्तरमाह—
अवान्तरार्थविच्छेदे विन्दुरच्छेदकारणम् ॥ १७ ॥
यथा रत्नावल्यामवान्तरप्रयोजनानङ्गपूजापरिसमाप्तौ कथार्थविच्छेदे सत्यनन्त-
रकार्यहेतुः—‘उदयनस्येन्दोरिवोद्दीक्षते । सागरिका—(श्रुत्वा ।) कंहं एसो
सो उदयणणरिंदो जस्स अहं तादेण दिण्णा ।’ (रत्ना० १।२३) इत्यादि ।
विन्दुर्जले तैलविन्दुवत्प्रसारित्वात् ॥
इदानीं पताकार्यं प्रसङ्गाद्व्युत्क्रमोक्तं क्रमार्थमुपसंहरन्नाह—
बीजविन्दुपताकाख्यप्रकरीकार्यलक्षणाः ।
अर्थप्रकृतयः पञ्च ता एताः परिकीर्तिताः ॥ १८ ॥
:अर्थप्रकृतयः=प्रयोजनसिद्धिहेतवः ॥
अन्यदवस्थापञ्चकमाह—
अवस्थाः पञ्च कार्यस्य प्रारब्धस्य फलार्थिभिः ।
आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः ॥ १९ ॥
यथोद्देशं लक्षणमाह—
औत्सुक्यमात्रमारम्भः फललाभाय भूयसे ।
‘इदमहं संपादयामि’ इत्यध्यवसायमात्रमारम्भ इत्युच्यते । यथा रत्नाव-
ल्याम् (१।७)—‘प्रारम्भेऽस्मिन्स्वामिनो वृद्धिहेतौ दैवे चेत्थं दत्तहस्तावलम्बे ।’
इत्यादिना सचिवायत्तसिद्धेर्वत्सराजस्य कार्यारम्भो यौगंधरायणमुखेन दर्शितः ॥
अथ प्रयत्नः—
प्रयत्नस्तु तदप्राप्तौ व्यापारोऽतित्वरान्वितः ॥ २० ॥
तस्य फलस्याप्राप्तावुपाययोजनादिरूपश्चेष्टाविशेषः प्रयत्नः । यथा रत्नावल्या-
मालेख्याभिलेखनादिर्वत्सराजसमागमोपायः—‘तँहावि णत्थि अण्णो दंसणु-
१ ‘कथमेष स उदयननरेन्द्रो यस्याहं तातेन दत्ता ।’ इति च्छाया. २ ‘दैवे-
नेत्थं’ इति पाठः । ३ ‘तथापि नास्त्यन्यो दर्शनोपाय इति यथातथालिख्य यथा
समीहितं करिष्यामि ।’ इति च्छाया.

वाओ त्ति जहा तहा आलिहिअ जधासमीहिअं करिस्सं ।' ( रत्ना० पृ० ५४ )
इत्यादिना प्रतिपादितः ॥
प्राप्त्याशामाह—
उपायापायशङ्काभ्यां प्राप्त्याशा प्राप्तिसंभवः ।
उपायस्यापायशङ्कायाश्च भावादनिर्धारितैकान्ता फलप्राप्तिः प्राप्त्याशा । यथा
रत्नावल्यां तृतीयेऽङ्के (पृ० १४४) वेषपरिवर्ताभिसरणादौ समागमोपाये सति
वासवदत्तालक्षणापायशङ्कायाः— '१एवं यदि आआलवादाली विअ आअच्छिअ
अण्णदो ण णइस्सदि वासवदत्ता ।' इत्यादिना दर्शितत्वादनिर्धारितैकान्ता
ममागमप्राप्तिरुक्ता ॥
नियताप्तिमाह—
अपायभावतः प्राप्तिर्नियताप्तिः सुनिश्चिता ॥ २१ ॥
अपायाभावदवधारितैकान्ता फलप्राप्तिर्नियताप्तिरिति । यथा रत्नावल्याम्—
'विदूषकः— २साअगरिआ दुक्करं जीविस्सदि ।' ( पृ० १३८ ) इत्युपक्रम्य,— ३'किं
ण उवायं चिंतेसि ।' ( पृ० १३९ ) इत्यनन्तरम्,—'राजा—वयस्य, देवीप्रसादनं
मुक्त्वा नान्यमत्रोपायं पश्यामि ।' ( पृ० १३९ ) इत्यनन्तराङ्गार्थबिन्दुनानेन देवी-
लक्षणापायस्य प्रसादेन निवारणान्नियता फलप्राप्तिः सूचिता ॥
फलयोगमाह—
समग्रफलसंपत्तिः फलयोगो यथोदितः ।
यथा रत्नावल्यां रत्नावलीलाभचक्रवर्तित्वावाप्तिरिति ॥
संधिलक्षणमाह—
अर्थप्रकृतयः पञ्च पञ्चावस्थासमन्विताः ॥ २२ ॥
यथासंख्येन जायन्ते मुखाद्याः पञ्च संधयः ।
अर्थप्रकृतीनां पञ्चानां यथासंख्येनावस्थाभिः पञ्चभिर्योगाद्यथासंख्येनैव
वक्ष्यमाणा मुखाद्याः पञ्च संधयो जायन्ते ॥
संधिसामान्यलक्षणमाह—
अन्तरैकार्थसंबन्धः संधीरेकान्वये सति ॥ २३ ॥
एकेन प्रयोजनेनान्वितानां कथांशानामवान्तरैकप्रयोजनसंबन्धः संधिः ॥
के पुनस्ते संधयः—
मुखप्रतिमुखे गर्भः सावमर्शोपसंहृतिः ।
यथोद्देशं लक्षणमाह—
मुखं बीजसमुत्पत्तिर्नानार्थरससंभवा ॥ २४ ॥
अङ्गानि द्वादशैतस्य बीजारम्भसमन्वयात् ।
१ 'एवं यदि अकालवातालीवागत्यान्यतो न नेष्यति वासवदत्ता ।' इति च्छाया.
२ 'सागरिका दुष्करं जीविष्यति ।' इति च्छाया. ३. 'किं नोपायं चिन्तयसि ।'
इति च्छाया. ४ 'संश्रया' इति पाठः.

, why did I see something strange?
Ah, under the repha/i-matra, it is just:
स्वव्यापारदैवयोर्निष्पत्तिमुक्तवानिति परिन्यासः ॥
Let's look at it again:
'स्व' 'व्या' 'पा' 'र' 'दै' 'व' 'यो' 'र्नि' 'ष्प' 'त्ति' 'मु' 'क्त' 'वा' 'नि' 'ति' 'प' 'रि' 'न्या' 'सः' ॥
Yes! It is completely normal:
स्वव्यापारदैवयोर्निष्पत्तिमुक्तवानिति परिन्यासः ॥
There is nothing weird there at all! It is simply "स्वव्यापारदैवयोर्निष्पत्तिमुक्तवानिति परिन्यासः ॥".

Now let's check line 35 again:
"हेलनुराग..." vs "हेत्वनुराग..." vs "हेतुनुराग...":
Wait, let's look at line 35 very carefully:
First word:
Look at the mark: under 'हे', there is an underline. That's a pencil stroke from a reader.
Then the characters:
Wait, could it be 'ल' 'नु' 'रा' 'ग'?
Yes, it is printed as "हेलनुराग" or "हेत्वनुराग"?
Wait, why would NSP print "हेलनुराग"?
Could it be "हेत्वनुराग"?
Wait, look

[हेडर: ८ | दशरूपकं | [ प्रकाशः १ ]

यथा च वेणीसंहारे ( १।२२ )—
'मन्थास्तार्णवाम्भःप्लुतकुहरवलन्मन्दरध्वानधीरः
कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसंघट्टचण्डः ।
कृष्णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः
केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितोऽयम् ॥'
इत्यादिना 'यशोदुन्दुभिः' ( १।२५ ) इत्यन्तेन द्रौपद्या विलोभनाद्विलोभनमिति ॥
अथ युक्तिः—
संप्रधारणमर्थानां युक्तिः
यथा रत्नावल्याम् (पृ० १५)—'मयापि चैनां देवीहस्ते सबहुमानं निक्षिपता
युक्तमेवानुष्ठितम् । कथितं च मया यथा वाभ्रव्यः कञ्चुकी सिंहलेश्वरमात्येन
वसुभूतिना सह कथंकथमपि समुद्रादुत्तीर्य कोशलोच्छित्तये गतस्य रुमण्वतो
घटितः।' इत्यनेन सागरिकाया अन्तःपुरस्थाया वत्सराजस्य सुखेन दर्शनादि-
प्रयोजनावधारणाद्वाभ्रव्यसिंहलेश्वरमात्ययोः स्वनायकसमागमहेतुप्रयोजनत्वेनाव-
धारणाद्युक्तिरिति ॥
अथ प्राप्तिः—
प्राप्तिः सुखागमः ।
यथा वेणीसंहारे (पृ० १९)—'चेटी—भट्टिणि, परिकुविदो विअ कुमारो
लक्खीअदि ।' इत्युपक्रमे,—'भीमः—
मथ्नामि कौरवशतं समरे न कोपाद्दुःशासनस्य रुधिरं न पिबाम्युरस्तः ।
संचूर्णयामि गदया न सुयोधनोरू संधिं करोतु भवतां नृपतिः पणेन ॥ (१।१५)
द्रौपदी—( श्रुत्वा सहर्षम् ) णाध, अस्सुदपुव्वं खु एदं वअणं । ता पुणो
पुणो भण ।' (वे० सं० १९) इत्यनेन भीमक्रोधबीजान्वयेनैव सुखप्राप्त्या द्रौपद्याः
प्राप्तिरिति । यथा च रत्नावल्याम् (पृ० ४६)—'सागरिका—(श्रुत्वा सहर्षं
परिवृत्य सस्पृहं पश्यन्ती ।) कधं अअं सो राआ उदयणो जस्स अहं तादेण
दिण्णा । ता परप्पेसण दूसिदं मे जीविदं एदस्स दंसणेण बहुमदं संजादं ।' इति
सागरिकायाः सुखागमात्प्राप्तिरिति ॥
अथ समाधानम्—
बीजागमः समाधानं
यथा रत्नावल्याम् (पृ० ३८)—'वासवदत्ता—तेणें हि उअणेहि मे


१ 'भर्त्रि, परिकुपित इव कुमारो लक्ष्यते ।' इति च्छाया. २ 'नाथ अश्रुतपूर्वं
खल्वेतद्वचनम् । तत्पुनः पुनर्भग ।' इति च्छाया. ३ 'कथमयं स राजोदयनो यस्याहं
तातेन दत्ता । तत्परप्रेषणदूषितं मे जीवितमेतस्य दर्शनेन बहुमतं संजातम् ।' इति
च्छाया. ४ 'तेन ह्युपनय मे उपकरणानि ।' इति च्छाया.

श्लो० २८ ] अवलोकसमेतम् । ९
उवअरणाईं । सागरिका—१भट्टिणि, एदं सव्वं सज्जं । वासवदत्ता—
(निरूप्यात्मगतम्।) २अहो पमादो परिअणस्स । जस्स एव्व दंसणपहादो पअत्तेण
रक्खीअदि तस्स जेव कहं दिट्ठिगोअरं आददा । भोदु । एव्वं दाव । (प्रकाशम् ।)
हञ्जे सागरिए, कीस तुमं अज पराहीणे परिअणे मअणूसवे सारिअं मोत्तूण
इहागदा । ता तहिं जेव गच्छ ।' इत्युपक्रमे,—'सागरिका—( स्वगतम् ।)
३सारिआ दाव मए सुसंगदाए हत्थे समप्पिदा । पेक्खिदुं च मे कुतूहलं । ता
अलक्खिआ पेक्खिस्सं ।' ( रत्ना० पृ० ३९) इत्यनेन वासवदत्ताया रत्नावलीवत्स-
राजयोर्दर्शनप्रतीकारात्सारिकायाः सुसंगतार्पणेनालक्षितप्रेक्षणेन च वत्सराजसमा-
गमहेतो